अरिश्मवन्तम् आदित्यं रश्मिवन्तं च पावकम् यः पश्यति न जीवेद्वै मासादेकादशात्परम्
वमेन्मूत्रं पुरीषं च सुवर्णं रजतं तथा प्रत्यक्षमथवा स्वप्ने दशमासान्न जीवति
रुक्मवर्णं द्रुमं पश्येद् गन्धर्वनगराणि च पश्येत् प्रेतपिशाचांश् च नवमासान् स जीवति
अकस्माच्च भवेत्स्थूलो ह्य् अकस्माच्च कृशो भवेत् प्रकृतेश् च निवर्तेत चाष्टौ मासांश् च जीवति
अग्रतः पृष्ठतो वापि खण्डं यस्य पदं भवेत् पांसुके कर्दमे वापि सप्तमासान्स जीवति
काकः कपोतो गृध्रो वा निलीयेद्यस्य मूर्धनि क्रव्यादो वा खगो यस्य षण्मासान् नातिवर्तते
गच्छेद् वायसपङ्क्तीभिः पांसुवर्षेण वा पुनः स्वच्छायां विकृतां पश्येच् चतुःपञ्च स जीवति
अनभ्रे विद्युतं पश्येद् दक्षिणां दिशमास्थिताम् उदके धनुर् ऐन्द्रं वा त्रीणि द्वौ वा स जीवति
अप्सु वा यदि वादर्शे यो ह्यात्मानं न पश्यति अशिरस्कं तथा पश्येन् मासाद् ऊर्ध्वं न जीवति
शवगन्धि भवेद्गात्रं वसागन्धमथापि वा मृत्युर्ह्युपागतस्तस्य अर्धमासान्न जीवति
यस्य वै स्नातमात्रस्य हृदयं परिशुष्यति धूमं वा मस्तकात्पश्येद् दशाहान्न स जीवति
संभिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति अद्भिः स्पृष्टो न हृष्येत तस्य मृत्युरुपस्थितः
ऋक्षवानरयुक्तेन रथेनाशां च दक्षिणाम् गायन्नृत्यन् व्रजेत् स्वप्ने विद्यान्मृत्युरुपस्थितः
कृष्णांबरधरा श्यामा गायन्ती वाप्यथाङ्गना यं नयेद्दक्षिणामाशां स्वप्ने सो ऽपि न जीवति
छिद्रं वा स्वस्य कण्ठस्य स्वप्ने यो वीक्षते नरः नग्नं वा श्रमणं दृष्ट्वा विद्यान्मृत्युमुपस्थितम्
आ मस्तकतलाद्यस् तु निमज्जेत्पङ्कसागरे दृष्ट्वा तु तादृशं स्वप्नं सद्य एव न जीवति
भस्माङ्गारांश् च केशांश् च नदीं शुष्कां भुजङ्गमान् पश्येद्यो दशरात्रं तु न स जीवति तादृशः
कृष्णैश् च विकटैश्चैव पुरुषैरुद्यतायुधैः पाषाणैस्ताड्यते स्वप्ने यः सद्यो न स जीवति
सूर्योदये प्रत्युषसि प्रत्यक्षं यस्य वै शिवाः क्रोशन्त्यभिमुखं प्रेत्य स गतायुर्भवेन्नरः
यस्य वा स्नातमात्रस्य हृदयं पीड्यते भृशम् जायते दन्तहर्षश् च तं गतायुषमादिशेत्
भूयोभूयस्त्रसेद्यस्तु रात्रौ वा यदि वा दिवा दीपगन्धं च नाघ्राति विद्यान्मृत्युम् उपस्थितम्
रात्रौ चेन्द्रधनुः पश्येद् दिवा नक्षत्रमण्डलम् परनेत्रेषु चात्मानं न पश्येन्न स जीवति
नेत्रमेकं स्रवेद्यस्य कर्णौ स्थानाच्च भ्रश्यतः वक्रा च नासा भवति विज्ञेयो गतजीवितः
यस्य कृष्णा खरा जिह्वा पद्माभासं च वै मुखम् गण्डे वा पिण्डिकारक्ते तस्य मृत्युरुपस्थितः
मुक्तकेशो हसंश्चैव गायन्नृत्यंश् च यो नरः याम्यामभिमुखं गच्छेत् तदन्तं तस्य जीवितम्
यस्य श्वेतघनाभासा श्वेतसर्षपसंनिभा श्वेता च मूर्तिर्ह्यसकृत् तस्य मृत्युरुपस्थितः
उष्ट्रा वा रासभा वाभियुक्ताः स्वप्ने रथे शुभाः यस्य सो ऽपि न जीवेत्तु दक्षिणाभिमुखो गतः
द्वे वाथ परमे ऽरिष्टे एकीभूतः परं भवेत् घोषं न शृणुयात्कर्णे ज्योतिर् नेत्रे न पश्यति
श्वभ्रे यो निपतेत्स्वप्ने द्वारं चापि पिधीयते न चोत्तिष्ठति यः श्वभ्रात् तदन्तं तस्य जीवितम्
मुखस्य शोषः सुषिरा च नाभिरत्युष्णमूत्रो विषमस्थ एव