ओषध्यश् च रजोदोषाः स्त्रीणां रागादिभिर् नृणाम् अकालकृष्टा विध्वस्ताः पुनरुत्पादितास् तथा
तस्मात्सर्वप्रयत्नेन न संभाष्या रजस्वला प्रथमे ऽहनि चाण्डाली यथा वर्ज्या तथाङ्गना
द्वितीये ऽहनि विप्रा हि यथा वै ब्रह्मघातिनी तृतीये ऽह्नि तदर्धेन चतुर्थे ऽहनि सुव्रताः
स्नात्वार्धमासात् संशुद्धा ततः शुद्धिर्भविष्यति आ षोडशात् ततः स्त्रीणां मूत्रवच्छौचमिष्यते
पञ्चरात्रं तथास्पृश्या रजसा वर्तते यदि सा विंशद्दिवसादूर्ध्वं रजसा पूर्ववत्तथा
स्नानं शौचं तथा गानं रोदनं हसनं तथा यानमभ्यञ्जनं नारी द्यूतं चैवानुलेपनम्
दिवास्वप्नं विशेषेण तथा वै दन्तधावनम् मैथुनं मानसं वापि वाचिकं देवतार्चनम्
वर्जयेत्सर्वयत्नेन नमस्कारं रजस्वला रजस्वलाङ्गनास्पर्शसंभाषे च रजस्वला
संत्यागं चैव वस्त्राणां वर्जयेत्सर्वयत्नतः स्नात्वान्यपुरुषं नारी न स्पृशेत्तु रजस्वला
ईक्षयेद्भास्करं देवं ब्रह्मकूर्चं ततः पिबेत् केवलं पञ्चगव्यं वा क्षीरं वा चात्मशुद्धये
चतुर्थ्यां स्त्री न गम्या तु गतो ऽल्पायुः प्रसूयते विद्याहीनं व्रतभ्रष्टं पतितं पारदारिकम्
दारिद्र्यार्णवमग्नं च तनयं सा प्रसूयते कन्यार्थिनैव गन्तव्या पञ्चम्यां विधिवत्पुनः
रक्ताधिक्याद्भवेन्नारी शुक्राधिक्ये भवेत्पुमान् समे नपुंसकं चैव पञ्चम्यां कन्यका भवेत्
षष्ठ्यां गम्या महाभागा सत्पुत्रजननी भवेत् पुत्रत्वं व्यञ्जयेत्तस्य जातपुत्रो महाद्युतिः
पुमिति नरकस्याख्या दुःखं च नरकं विदुः पुंसस्त्राणान्वितं पुत्रं तथाभूतं प्रसूयते
सप्तम्यां चैव कन्यार्थी गच्छेत्सैव प्रसूयते अष्टम्यां सर्वसम्पन्नं तनयं सम्प्रसूयते
नवम्यां दारिकायार्थी दशम्यां पण्डितो भवेत् एकादश्यां तथा नारीं जनयेत्सैव पूर्ववत्
द्वादश्यां धर्मतत्त्वज्ञं श्रौतस्मार्तप्रवर्तकम् त्रयोदश्यां जडां नारीं सर्वसंकरकारिणीम्
जनयत्यङ्गना यस्मान् न गच्छेत्सर्वयत्नतः चतुर्दश्यां यदा गच्छेत् सा पुत्रजननी भवेत्
पञ्चदश्यां च धर्मिष्ठां षोडश्यां ज्ञानपारगम् स्त्रीणां वै मैथुने काले वामपार्श्वे प्रभञ्जनः
चरेद्यदि भवेन्नारी पुमांसं दक्षिणे लभेत् स्त्रीणां मैथुनकाले तु पापग्रहविवर्जिते
उक्तकाले शुचिर्भूत्वा शुद्धां गच्छेच्छुचिस्मिताम् इत्येवं संप्रसंगेन यतीनां धर्मसंग्रहे
सर्वेषामेव भूतानां सदाचारः प्रकीर्तितः यः पठेच्छृणुयाद् वापि सदाचारं शुचिर्नरः
श्रावयेद्वा यथान्यायं ब्राह्मणान् दग्धकिल्बिषान् ब्रह्मलोकमनुप्राप्य ब्रह्मणा सह मोदते
अत ऊर्ध्वं प्रवक्ष्यामि यतीनामिह निश्चितम् प्रायश्चित्तं शिवप्रोक्तं यतीनां पापशोधनम्
पापं हि त्रिविधं ज्ञेयं वाङ्मनःकायसंभवम् सततं हि दिवा रात्रौ येनेदं वेष्ट्यते जगत्
तत्कर्मणा विनाप्येष तिष्ठतीति परा श्रुतिः क्षणमेवं प्रयोज्यं तु आयुष्यं तु विधारणम्
भवेद्योगो ऽप्रमत्तस्य योगो हि परमं बलम् न हि योगात्परं किंचिन् नराणां दृश्यते शुभम्
तस्माद् योगं प्रशंसन्ति धर्मयुक्ता मनीषिणः अविद्यां विद्यया जित्वा प्राप्यैश्वर्यमनुत्तमम्
दृष्ट्वा परावरं धीराः परं गच्छन्ति तत्पदम् व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च