सद्योजातं ततो ब्रह्म ब्रह्म वै समचिन्तयत् ततो ऽस्य पार्श्वतः श्वेताः प्रादुर्भूता महायशाः
सुनन्दो नन्दनश्चैव विश्वनन्दोपनन्दनौ शिष्यास्ते वै महात्मानो यैस्तद्ब्रह्म सदावृतम्
तस्याग्रे श्वेतवर्णाभः श्वेतो नाम महामुनिः विजज्ञे ऽथ महातेजास् तस्माज्जज्ञे हरस्त्वसौ
तत्र ते मुनयः सर्वे सद्योजातं महेश्वरम् प्रपन्नाः परया भक्त्या गृणन्तो ब्रह्म शाश्वतम्
तस्माद्विश्वेश्वरं देवं ये प्रपद्यन्ति वै द्विजाः प्राणायामपरा भूत्वा ब्रह्मतत्परमानसाः
ते सर्वे पापनिर्मुक्ता विमला ब्रह्मवर्चसः विष्णुलोकमतिक्रम्य रुद्रलोकं व्रजन्ति ते
ततस्त्रिंशत्तमः कल्पो रक्तो नाम प्रकीर्तितः ब्रह्मा यत्र महातेजा रक्तवर्णमधारयत्
ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः प्रादुर्भूतो महातेजाः कुमारो रक्तभूषणः
रक्तमाल्याम्बरधरो रक्तनेत्रः प्रतापवान् स तं दृष्ट्वा महात्मानं कुमारं रक्तवाससम्
परं ध्यानं समाश्रित्य बुबुधे देवमीश्वरम् स तं प्रणम्य भगवान् ब्रह्मा परमयन्त्रितः
वामदेवं ततो ब्रह्मा ब्रह्म वै समचिन्तयत् तथा स्तुतो महादेवो ब्रह्मणा परमेश्वरः
प्रतीतहृदयः सर्व इदमाह पितामहम् ध्यायता पुत्रकामेन यस्मात्ते ऽहं पितामह
दृष्टः परमया भक्त्या स्तुतश् च ब्रह्मपूर्वकम् तस्माद्ध्यानबलं प्राप्य कल्पे कल्पे प्रयत्नतः
वेत्स्यसे मां प्रसंख्यातं लोकधातारमीश्वरम् ततस्तस्य महात्मानश् चत्वारस्ते कुमारकाः
संबभूवुर्महात्मानो विशुद्धा ब्रह्मवर्चसः विरजाश् च विबाहुश् च विशोको विश्वभावनः
ब्रह्मण्या ब्रह्मणस्तुल्या वीरा अध्यवसायिनः रक्तांबरधराः सर्वे रक्तमाल्यानुलेपनाः
रक्तकुङ्कुमलिप्ताङ्गा रक्तभस्मानुलेपनाः ततो वर्षसहस्रान्ते ब्रह्मत्वे ऽध्यवसायिनः
गृणन्तश् च महात्मानो ब्रह्म तद्वामदैविकम् अनुग्रहार्थं लोकानां शिष्याणां हितकाम्यया
धर्मोपदेशमखिलं कृत्वा ते ब्रह्मणः प्रियाः पुनरेव महादेवं प्रविष्टा रुद्रमव्ययम्
ये ऽपि चान्ये द्विजश्रेष्ठा युञ्जाना वाममीश्वरम् प्रपश्यन्ति महादेवं तद्भक्तास् तत्परायणाः
ते सर्वे पापनिर्मुक्ता विमला ब्रह्मचारिणः रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम्
एकत्रिंशत्तमः कल्पः पीतवासा इति स्मृतः ब्रह्मा यत्र महाभागः पीतवासा बभूव ह
ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः प्रादुर्भूतो महातेजाः कुमारः पीतवस्त्रधृक्
पीतगन्धानुलिप्ताङ्गः पीतमाल्यांबरो युवा हेमयज्ञोपवीतश् च पीतोष्णीषो महाभुजः
तं दृष्ट्वा ध्यानसंयुक्तो ब्रह्मा लोकमहेश्वरम् मनसा लोकधातारं प्रपेदे शरणं विभुम्
ततो ध्यानगतस्तत्र ब्रह्मा माहेश्वरीं वराम् गां विश्वरूपां ददृशे महेश्वरमुखाच्च्युताम्
चतुष्पदां चतुर्वक्त्रां चतुर्हस्तां चतुःस्तनीम् चतुर्नेत्रां चतुःशृङ्गीं चतुर्दंष्ट्रां चतुर्मुखीम्
द्वात्रिंशद्गुणसंयुक्ताम् ईश्वरीं सर्वतोमुखीम् स तां दृष्ट्वा महातेजा महादेवीं महेश्वरीम्
पुनराह महादेवः सर्वदेवनमस्कृतः मतिः स्मृतिर्बुद्धिरिति गायमानः पुनः पुनः
एह्येहीति महादेवि सातिष्ठत्प्राञ्जलिर्विभुम् विश्वमावृत्य योगेन जगत्सर्वं वशीकुरु