हस्ताभ्यां क्षालितं वस्त्रं कारुणा च यथाविधि कुशांबुना सुसंप्रोक्ष्य गृह्णीयाद्धर्मवित्तमः
पण्यं प्रसारितं चैव वर्णाश्रमविभागशः शुचिराकरजं तेषां श्वा मृगग्रहणे शुचिः
छाया च विप्लुषो विप्रा मक्षिकाद्या द्विजोत्तमाः रजो भूर् वायुर् अग्निश् च मेध्यानि स्पर्शने सदा
सुप्त्वा भुक्त्वा च वै विप्राः क्षुत्त्वा पीत्वा च वै तथा ष्ठीवित्वाध्ययनादौ च शुचिरप्याचमेत्पुनः
पादौ स्पृशन्ति ये चापि पराचमनबिन्दवः ते पार्थिवैः समा ज्ञेया न तैरप्रयतो भवेत्
कृत्वा च मैथुनं स्पृष्ट्वा पतितं कुक्कुटादिकम् सूकरं चैव काकादि श्वानमुष्ट्रं खरं तथा
यूपं चाण्डालकाद्यांश् च स्पृष्ट्वा स्नानेन शुध्यति रजस्वलां सूतिकां च न स्पृशेदन्त्यजामपि
सूतिकाशौचसंयुक्तः शावाशौचसमन्वितः संस्पृशेन्न रजस्तासां स्पृष्ट्वा स्नात्वैव शुध्यति
नैवाशौचं यतीनां च वनस्थब्रह्मचारिणाम् नैष्ठिकानां नृपाणां च मण्डलीनां च सुव्रताः
ततः कार्यविरोधाद्धि नृपाणां नान्यथा भवेत् वैखानसानां विप्राणां पतितानामसंभवात्
असंचयाद् द्विजानां च स्नानमात्रेण नान्यथा तथा संनिहितानां च यज्ञार्थं दीक्षितस्य च
एकाहाद् यज्ञयाजिनां शुद्धिरुक्ता स्वयंभुवा ततस्त्वधीतशाखानां चतुर्भिः सर्वदेहिनाम्
सूतकं प्रेतकं नास्ति त्र्यहाद् ऊर्ध्वम् अमुत्र वै अर्वाग् एकादशाहान्तं बान्धवानां द्विजोत्तमाः
स्नानमात्रेण वै शुद्धिर् मरणे समुपस्थिते तत ऋतुत्रयादर्वाग् एकाहः परिगीयते
सप्तवर्षात् ततश्चार्वाक् त्रिरात्रं हि ततः परम् दशाहं ब्राह्मणानां वै प्रथमे ऽहनि वा पितुः
दशाहं सूतिकाशौचं मातुरप्येवमव्ययाः अर्वाक् त्रिवर्षात्स्नानेन बान्धवानां पितुः सदा
अष्टाब्दाद् एकरात्रेण शुद्धिः स्याद् बान्धवस्य तु द्वादशाब्दात्ततश्चार्वाक् त्रिरात्रं स्त्रीषु सुव्रताः
सपिण्डता च पुरुषे सप्तमे विनिवर्तते अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत्
ततः संनिहितो विप्रश् चार्वाक् पूर्वं तदेव वै संवत्सरे व्यतीते तु स्नानमात्रेण शुध्यति
स्पृष्ट्वा प्रेतं त्रिरात्रेण धर्मार्थं स्नानमुच्यते दाहकानां च नेतॄणां स्नानमात्रमबान्धवे
अनुगम्य च वै स्नात्वा घृतं प्राश्य विशुध्यति आचार्यमरणे चैव त्रिरात्रं श्रोत्रिये मृते
पक्षिणी मातुलानां च सोदराणां च वा द्विजाः भूपानां मण्डलीनां च सद्यो नीराष्ट्रवासिनाम्
केवलं द्वादशाहेन क्षत्त्रियाणां द्विजोत्तमाः नाभिषिक्तस्य चाशौचं संप्रमादेषु वै रणे
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति इति संक्षेपतः प्रोक्ता द्रव्यशुद्धिरनुत्तमा
अशौचं चानुपूर्व्येण यतीनां नैव विद्यते त्रेताप्रभृति नारीणां मासि मास्यार्तवं द्विजाः
कृते सकृद् युगवशाज् जायन्ते वै सहैव तु प्रयान्ति च महाभागा भार्याभिः कुरवो यथा
वर्णाश्रमव्यवस्था च त्रेताप्रभृति सुव्रताः भारते दक्षिणे वर्षे व्यवस्था नेतरेष्वथ
महावीते सुवीते च जंबूद्वीपे तथाष्टसु शाकद्वीपादिषु प्रोक्तो धर्मो वै भारते यथा
रसोल्लासा कृते वृत्तिस् त्रेतायां गृहवृक्षजा सैवार्तवकृताद् दोषाद् रागद्वेषादिभिर् नृणाम्
मैथुनात्कामतो विप्रास् तथैव परुषादिभिः यवाद्याः सम्प्रजायन्ते ग्राम्यारण्याश्चतुर्दश