न वदेत्सर्वयत्नेन अनिष्टं न स्मरेत्सदा यतीनामासनं वस्त्रं दण्डाद्यं पादुके तथा
माल्यं च शयनस्थानं पात्रं छायां च यत्नतः यज्ञोपकरणाङ्गं च न स्पृशेद् वै पदेन च
देवद्रोहं गुरुद्रोहं न कुर्यात्सर्वयत्नतः कृत्वा प्रमादतो विप्राः प्रणवस्यायुतं जपेत्
देवद्रोहगुरुद्रोहात् कोटिमात्रेण शुध्यति महापातकशुद्ध्यर्थं तथैव च यथाविधि
पातकी च तदर्धेन शुध्यते वृत्तवान्यदि उपपातकिनः सर्वे तदर्धेनैव सुव्रताः
संध्यालोपे कृते विप्रः त्रिरावृत्त्यैव शुध्यति आह्निकच्छेदने जाते शतमेकमुदाहृतम्
लङ्घने समयानां तु अभक्ष्यस्य च भक्षणे अवाच्यवाचने चैव सहस्राच्छुद्धिरुच्यते
काकोलूककपोतानां पक्षिणामपि घातने शतमष्टोत्तरं जप्त्वा मुच्यते नात्र संशयः
यः पुनस्तत्त्ववेत्ता च ब्रह्मविद् ब्राह्मणोत्तमः स्मरणाच्छुद्धिमाप्नोति नात्र कार्या विचारणा
नैवमात्मविदामस्ति प्रायश्चित्तानि चोदना विश्वस्यैव हि ते शुद्धा ब्रह्मविद्याविदो जनाः
योगध्यानैकनिष्ठाश् च निर्लेपाः काञ्चनं यथा शुद्धानां शोधनं नास्ति विशुद्धा ब्रह्मविद्यया
उद्धृतानुष्णफेनाभिः पूताभिर् वस्त्रचक्षुषा अद्भिः समाचरेत्सर्वं वर्जयेत्कलुषोदकम्
गन्धवर्णरसैर्दुष्टम् अशुचिस्थानसंस्थितम् पङ्काश्मदूषितं चैव सामुद्रं पल्वलोदकम्
सशैवालं तथान्यैर्वा दोषैर्दुष्टं विवर्जयेत् वस्त्रशौचान्वितः कुर्यात् सर्वकार्याणि वै द्विजाः
नमस्कारादिकं सर्वं गुरुशुश्रूषणादिकम् वस्त्रशौचविहीनात्मा ह्य् अशुचिर्नात्र संशयः
देवकार्योपयुक्तानां प्रत्यहं शौचमिष्यते इतरेषां हि वस्त्राणां शौचं कार्यं मलागमे
वर्जयेत्सर्वयत्नेन वासो ऽन्यैर् विधृतं द्विजाः कौशेयाविकयो रूक्षैः क्षौमाणां गौरसर्षपैः
श्रीफलैरंशुपट्टानां कुतपानामरिष्टकैः चर्मणां विदलानां च वेत्राणां वस्त्रवन्मतम्
वल्कलानां तु सर्वेषां छत्रचामरयोरपि चैलवच्छौचमाख्यातं ब्रह्मविद्भिर् मुनीश्वरैः
भस्मना शुध्यते कांस्यं क्षारेणायसम् उच्यते ताम्रमम्लेन वै विप्रास् त्रपुसीसकयोरपि
हैमम् अद्भिः शुभं पात्रं रौप्यपात्रं द्विजोत्तमाः मण्यश्मशङ्खमुक्तानां शौचं तैजसवत्स्मृतम्
अग्नेर् अपां च संयोगाद् अत्यन्तोपहतस्य च रसानामिह सर्वेषां शुद्धिरुत्प्लवनं स्मृतम्
तृणकाष्ठादिवस्तूनां शुभेनाभ्युक्षणं स्मृतम् उष्णेन वारिणा शुद्धिस् तथा स्रुक्स्रुवयोरपि
तथैव यज्ञपात्राणां मुशलोलूखलस्य च शृङ्गास्थिदारुदन्तानां तक्षणेनैव शोधनम्
संहतानां महाभागा द्रव्याणां प्रोक्षणं स्मृतम् असंहतानां द्रव्याणां प्रत्येकं शौचमुच्यते
अभुक्तराशिधान्यानाम् एकदेशस्य दूषणे तावन्मात्रं समुद्धृत्य प्रोक्षयेद्वै कुशांभसा
शाकमूलफलादीनां धान्यवच्छुद्धिरिष्यते मार्जनोन्मार्जनैर् वेश्म पुनःपाकेन मृन्मयम्
उल्लेखनेनाञ्जनेन तथा संमार्जनेन च गोनिवासेन वै शुद्धा सेचनेन धरा स्मृता
भूमिस्थम् उदकं शुद्धं वैतृष्ण्यं यत्र गौर्व्रजेत् अव्याप्तं यदमेध्येन गन्धवर्णरसान्वितम्
वत्सः शुचिः प्रस्रवणे शकुनिः फलपातने स्वदारास्यं गृहस्थानां रतौ भार्याभिकाङ्क्षया