आपः पूताः सकृत्प्राश्य तूष्णीं हुत्वा ह्युपाविशन् प्राणायेति ततस्तस्य प्रथमा ह्याहुतिः स्मृता
अपानाय द्वितीया च व्यानायेति तथा परा उदानाय चतुर्थी स्यात् समानायेति पञ्चमी
स्वाहाकारैः पृथग्घुत्वा शेषं भुञ्जीत कामतः अपः पुनः सकृत्प्राश्य आचम्य हृदयं स्पृशेत्
प्राणानां ग्रन्थिरस्यात्मा रुद्रो ह्यात्मा विशान्तकः रुद्रो वै ह्यात्मनः प्राण एवमाप्याययेत्स्वयम्
प्राणे निविष्टो वै रुद्रस् तस्मात्प्राणमयः स्वयम् प्राणाय चैव रुद्राय जुहोत्यमृतमुत्तमम्
शिवाविशेह मामीश स्वाहा ब्रह्मात्मने स्वयम् एवं पञ्चाहुतीश्चैव प्रभुः प्रीणातु शाश्वतः
पुरुषो ऽसि पुरे शेषे त्वं अङ्गुष्ठप्रमाणतः आश्रितश्चैव चाङ्गुष्ठम् ईशः परमकारणम्
सर्वस्य जगतश्चैव प्रभुः प्रीणातु शाश्वतः त्वं देवानामसि ज्येष्ठो रुद्रस्त्वं च पुरो वृषा
मृदुस्त्वमन्नमस्मभ्यम् एतदस्तु हुतं तव इत्येवं कथितं सर्वं गुणप्राप्तिविशेषतः
योगाचारः स्वयं तेन ब्रह्मणा कथितः पुरा एवं पाशुपतं ज्ञानं ज्ञातव्यं च प्रयत्नतः
भस्मस्नायी भवेन् नित्यं भस्मलिप्तः सदा भवेत् यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान्
दैवे कर्मणि पित्र्ये वा स याति परमां गतिम्
अत ऊर्ध्वं प्रवक्ष्यामि शौचाचारस्य लक्षणम् यदनुष्ठाय शुद्धात्मा परेत्य गतिमाप्नुयात्
ब्रह्मणा कथितं पूर्वं सर्वभूतहिताय वै संक्षेपात्सर्ववेदार्थं संचयं ब्रह्मवादिनाम्
उदयार्थं तु शौचानां मुनीनामुत्तमं पदम् यस्तत्राथाप्रमत्तः स्यात् स मुनिर्नावसीदति
मानावमानौ द्वावेतौ तावेवाहुर् विषामृते अवमानो ऽमृतं तत्र सन्मानो विषमुच्यते
गुरोरपि हिते युक्तः स तु संवत्सरं वसेत् नियमेष्वप्रमत्तस्तु यमेषु च सदा भवेत्
प्राप्यानुज्ञां ततश्चैव ज्ञानयोगमनुत्तमम् अविरोधेन धर्मस्य चरेत पृथिवीमिमाम्
चक्षुःपूतं चरेन्मार्गं वस्त्रपूतं जलं पिबेत् सत्यपूतं वदेद्वाक्यं मनःपूतं समाचरेत्
मत्स्यगृह्यस्य यत्पापं षण्मासाभ्यन्तरे भवेत् एकाहं तत्समं ज्ञेयम् अपूतं यज्जलं भवेत्
अपूतोदकपाने तु जपेच्च शतपञ्चकम् अघोरलक्षणं मन्त्रं ततः शुद्धिमवाप्नुयात्
अथवा पूजयेच्छंभुं घृतस्नानादिविस्तरैः त्रिधा प्रदक्षिणीकृत्य शुध्यते नात्र संशयः
आतिथ्यश्राद्धयज्ञेषु न गच्छेद्योगवित्क्वचित् एवं ह्यहिंसको योगी भवेदिति विचारितम्
वह्नौ विधूमे ऽत्यङ्गारे सर्वस्मिन्भुक्तवज्जने चरेत्तु मतिमान् भैक्ष्यं न तु तेष्वेव नित्यशः
अथैनम् अवमन्यन्ते परे परिभवन्ति च तथा युक्तं चरेद्भैक्ष्यं सतां धर्ममदूषयन्
भैक्ष्यं चरेद्वनस्थेषु यायावरगृहेषु च श्रेष्ठा तु प्रथमा हीयं वृत्तिरस्योपजायते
अत ऊर्ध्वं गृहस्थेषु शीलीनेषु चरेद्द्विजाः श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु
अत ऊर्ध्वं पुनश्चापि अदुष्टापतितेषु च भैक्ष्यचर्या हि वर्णेषु जघन्या वृत्तिरुच्यते
भैक्ष्यं यवागूस्तक्रं वा पयो यावकमेव च फलमूलादि पक्वं वा कणपिण्याकसक्तवः
इत्येव ते मया प्रोक्ता योगिनां सिद्धिवर्द्धनाः आहारास्तेषु सिद्धेषु श्रेष्ठं भैक्ष्यमिति स्मृतम्