एकेनैव तु गन्तव्यं सर्वमुत्सृज्य वै जनम् एकेनैव तु भोक्तव्यं तस्मात्सुकृतमाचरेत्
न ह्येनं प्रस्थितं कश्चिद् गच्छन्तम् अनुगच्छति यदनेन कृतं कर्म तदेनमनुगच्छति
ते नित्यं यमविषयेषु सम्प्रवृत्ताः क्रोशन्तः सततमनिष्टसंप्रयोगैः शुष्यन्ते परिगतवेदनाः शरीरा बह्वीभिः सुभृशमनन्तयातनाभिः
कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते तदभ्यासो हरत्येनं तस्मात्कल्याणमाचरेत्
अनादिमान्प्रबन्धः स्यात् पूर्वकर्मणि देहिनः संसारं तामसं घोरं षड्विधं प्रतिपद्यते
मानुष्यात्पशुभावश् च पशुभावान् मृगो भवेत् मृगत्वात्पक्षिभावश् च तस्माच्चैव सरीसृपः
सरीसृपत्वाद्गच्छेद्वै स्थावरत्वं न संशयः स्थावरत्वे पुनः प्राप्ते यावद् उन्मिलते जनः
कुलालचक्रवद्भ्रान्तस् तत्रैव परिवर्तते इत्येवं हि मनुष्यादिः संसारः स्थावरान्तिकः
विज्ञेयस्तामसो नाम तत्रैव परिवर्तते सात्त्विकश्चापि संसारो ब्रह्मादिः परिकीर्तितः
पिशाचान्तः स विज्ञेयः स्वर्गस्थानेषु देहिनाम् ब्राह्मे तु केवलं सत्त्वं स्थावरे केवलं तमः
चतुर्दशानां स्थानानां मध्ये विष्टम्भकं रजः मर्मसु छिद्यमानेषु वेदनार्तस्य देहिनः
ततस्तत्परमं ब्रह्म कथं विप्रः स्मरिष्यति संसारः पूर्वधर्मस्य भावनाभिः प्रणोदितः
मानुषं भजते नित्यं तस्माद्ध्यानं समाचरेत् चतुर्दशविधं ह्येतद् बुद्ध्वा संसारमण्डलम्
नित्यं समारभेद्धर्मं संसारभयपीडितः ततस्तरति संसारं क्रमेण परिवर्तितः
तस्माच्च सततं युक्तो ध्यानतत्परयुञ्जकः तथा समारभेद्योगं यथात्मानं स पश्यति
एष आपः परं ज्योतिर् एष सेतुरनुत्तमः विवृत्या ह्येष संभेदाद् भूतानां चैव शाश्वतः
तदेनं सेतुमात्मानम् अग्निं वै विश्वतोमुखम् हृदिस्थं सर्वभूतानाम् उपासीत महेश्वरम्
तथान्तः संस्थितं देवं स्वशक्त्या परिमण्डितम् अष्टधा चाष्टधा चैव तथा चाष्टविधेन च
सृष्ट्यर्थं संस्थितं वह्निं संक्षिप्य च हृदि स्थितम् ध्यात्वा यथावद्देवेशं रुद्रं भुवननायकम्
हुत्वा पञ्चाहुतीः सम्यक् तच्चिन्तागतमानसः वैश्वानरं हृदिस्थं तु यथावदनुपूर्वशः
आपः पूताः सकृत्प्राश्य तूष्णीं हुत्वा ह्युपाविशन् प्राणायेति ततस्तस्य प्रथमा ह्याहुतिः स्मृता
अपानाय द्वितीया च व्यानायेति तथा परा उदानाय चतुर्थी स्यात् समानायेति पञ्चमी
स्वाहाकारैः पृथग्घुत्वा शेषं भुञ्जीत कामतः अपः पुनः सकृत्प्राश्य आचम्य हृदयं स्पृशेत्
प्राणानां ग्रन्थिरस्यात्मा रुद्रो ह्यात्मा विशान्तकः रुद्रो वै ह्यात्मनः प्राण एवमाप्याययेत्स्वयम्
प्राणे निविष्टो वै रुद्रस् तस्मात्प्राणमयः स्वयम् प्राणाय चैव रुद्राय जुहोत्यमृतमुत्तमम्
शिवाविशेह मामीश स्वाहा ब्रह्मात्मने स्वयम् एवं पञ्चाहुतीश्चैव प्रभुः प्रीणातु शाश्वतः
पुरुषो ऽसि पुरे शेषे त्वं अङ्गुष्ठप्रमाणतः आश्रितश्चैव चाङ्गुष्ठम् ईशः परमकारणम्
सर्वस्य जगतश्चैव प्रभुः प्रीणातु शाश्वतः त्वं देवानामसि ज्येष्ठो रुद्रस्त्वं च पुरो वृषा
मृदुस्त्वमन्नमस्मभ्यम् एतदस्तु हुतं तव इत्येवं कथितं सर्वं गुणप्राप्तिविशेषतः
योगाचारः स्वयं तेन ब्रह्मणा कथितः पुरा एवं पाशुपतं ज्ञानं ज्ञातव्यं च प्रयत्नतः