अचेतनां सर्वगतां सूक्ष्मां प्रसवधर्मिणीम् प्रकृतिं सर्वभूतानां युक्ताः पश्यन्ति योगिनः
सर्वतः पाणिपादं तत् सर्वतो ऽक्षिशिरोमुखम् सर्वतः श्रुतिमल् लोके सर्वमावृत्य तिष्ठति
युक्तो योगेन चेशानं सर्वतश् च सनातनम् पुरुषं सर्वभूतानां तं विद्वान्न विमुह्यति
भूतात्मानं महात्मानं परमात्मानमव्ययम् सर्वात्मानं परं ब्रह्म तद्वै ध्याता न मुह्यति
पवनो हि यथा ग्राह्यो विचरन्सर्वमूर्तिषु पुरि शेते सुदुर्ग्राह्यस् तस्मात्पुरुष उच्यते
अथ चेल्लुप्तधर्मा तु सावशेषैः स्वकर्मभिः ततस्तु ब्रह्मगर्भे वै शुक्रशोणितसंयुते
स्त्रीपुंसोः संप्रयोगे हि जायते हि ततः प्रभुः ततस्तु गर्भकालेन कललं नाम जायते
कालेन कललं चापि बुद्बुदं सम्प्रजायते मृत्पिण्डस्तु यथा चक्रे चक्रावर्तेन पीडितः
हस्ताभ्यां क्रियमाणस्तु बिंबत्वमनुगच्छति एवमाध्यात्मिकैर्युक्ता वायुना संप्रपूरितः
यदि योनिं विमुञ्चामि तत्प्रपद्ये महेश्वरम् यावद्धि वैष्णवो वायुर् जातमात्रं न संस्पृशेत्
तावत्कालं महादेवम् अर्चयामीति चिन्तयेत् जायते मानुषस्तत्र यथारूपं यथावयः
वायुः संभवते खात्तु वाताद्भवति वै जलम् जलात् सम्भवति प्राणः प्राणाच्छुक्रं विवर्धते
रक्तभागास् त्रयस्त्रिंशद् रेतोभागाश् चतुर्दश भागतो ऽर्धफलं कृत्वा ततो गर्भो निषिच्यते
ततस्तु गर्भसंयुक्तः पञ्चभिर् वायुभिर् वृतः पितुः शरीरात्प्रत्यङ्गं रूपमस्योपजायते
ततो ऽस्य मातुराहारात् पीतलीढप्रवेशनात् नाभिदेशेन वै प्राणास् ते ह्य् आधारा हि देहिनाम्
नवमासात् परिक्लिष्टः संवेष्टितशिरोधरः वेष्टितः सर्वगात्रैश् च अपर्याप्तप्रवेशनः
नवमासोषितश्चापि योनिच्छिद्रादवाङ्मुखः ततः स्वकर्मभिः पापैर् निरयं सम्प्रपद्यते
असिपत्रवनं चैव शाल्मलिच्छेदनं तथा ताडनं भक्षणं चैव पूयशोणितभक्षणम्
यथा ह्यापस्तु संछिन्नाः संश्लेष्मम् उपयान्ति वै तथा छिन्नाश् च भिन्नाश्च यातनास्थानम् आगताः
एवं जीवास्तु तैः पापैस् तप्यमानाः स्वयंकृतैः प्राप्नुयुः कर्मभिः शेषैर् दुःखं वा यदि वेतरत्
एकेनैव तु गन्तव्यं सर्वमुत्सृज्य वै जनम् एकेनैव तु भोक्तव्यं तस्मात्सुकृतमाचरेत्
न ह्येनं प्रस्थितं कश्चिद् गच्छन्तम् अनुगच्छति यदनेन कृतं कर्म तदेनमनुगच्छति
ते नित्यं यमविषयेषु सम्प्रवृत्ताः क्रोशन्तः सततमनिष्टसंप्रयोगैः शुष्यन्ते परिगतवेदनाः शरीरा बह्वीभिः सुभृशमनन्तयातनाभिः
कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते तदभ्यासो हरत्येनं तस्मात्कल्याणमाचरेत्
अनादिमान्प्रबन्धः स्यात् पूर्वकर्मणि देहिनः संसारं तामसं घोरं षड्विधं प्रतिपद्यते
मानुष्यात्पशुभावश् च पशुभावान् मृगो भवेत् मृगत्वात्पक्षिभावश् च तस्माच्चैव सरीसृपः
सरीसृपत्वाद्गच्छेद्वै स्थावरत्वं न संशयः स्थावरत्वे पुनः प्राप्ते यावद् उन्मिलते जनः
कुलालचक्रवद्भ्रान्तस् तत्रैव परिवर्तते इत्येवं हि मनुष्यादिः संसारः स्थावरान्तिकः
विज्ञेयस्तामसो नाम तत्रैव परिवर्तते सात्त्विकश्चापि संसारो ब्रह्मादिः परिकीर्तितः
पिशाचान्तः स विज्ञेयः स्वर्गस्थानेषु देहिनाम् ब्राह्मे तु केवलं सत्त्वं स्थावरे केवलं तमः