इन्द्रियाणि मनश्चैव अहङ्कारश् च यः स्मृतः तत्र सूक्ष्मप्रवृत्तिस्तु पञ्चभूतात्मिका पुनः
इन्द्रियाणि मनश्चित्तबुद्ध्यहङ्कारसंज्ञितम् तथा सर्वमयं चैव आत्मस्था ख्यातिरेव च
संयोग एव त्रिविधः सूक्ष्मेष्वेव प्रवर्तते पुनरष्टगुणश्चापि सूक्ष्मेष्वेव विधीयते
तस्य रूपं प्रवक्ष्यामि यथाह भगवान्प्रभुः त्रैलोक्ये सर्वभूतेषु यथास्य नियमः स्मृतः
अणिमाद्यं तथाव्यक्तं सर्वत्रैव प्रतिष्ठितम् त्रैलोक्ये सर्वभूतानां दुष्प्राप्यं समुदाहृतम्
तत् तस्य भवति प्राप्यं प्रथमं योगिनां बलम् लङ्घनं प्लवनं लोके रूपमस्य सदा भवेत्
शीघ्रत्वं सर्वभूतेषु द्वितीयं तु पदं स्मृतम् त्रैलोक्ये सर्वभूतानां महिम्ना चैव वन्दितम्
महित्वं चापि लोके ऽस्मिंस् तृतीयो योग उच्यते त्रैलोक्ये सर्वभूतेषु यथेष्टगमनं स्मृतम्
प्राकामान् विषयान् भुङ्क्ते तथाप्रतिहतः क्वचित् त्रैलोक्ये सर्वभूतानां सुखदुःखं प्रवर्तते
ईशो भवति सर्वत्र प्रविभागेन योगवित् वश्यानि चास्य भूतानि त्रैलोक्ये सचराचरे
इच्छया तस्य रूपाणि भवन्ति न भवन्ति च यत्र कामावसायित्वं त्रैलोक्ये सचराचरे
शब्दः स्पर्शो रसो गन्धो रूपं चैव मनस् तथा प्रवर्तन्ते ऽस्य चेच्छातो न भवन्ति यथेच्छया
न जायते न म्रियते छिद्यते न च भिद्यते न दह्यते न मुह्येत लीयते न च लिप्यते
न क्षीयते न क्षरति खिद्यते न कदाचन क्रियते वा न सर्वत्र तथा विक्रियते न च
अगन्धरसरूपस्तु अस्पर्शः शब्दवर्जितः अवर्णो ह्यस्वरश् चैव असवर्णस्तु कर्हिचित्
स भुङ्क्ते विषयांश्चैव विषयैर्न च युज्यते अणुत्वात्तु परः सूक्ष्मः सूक्ष्मत्वाद् अपवर्गिकः
व्यापकस्त्वपवर्गाच्च व्यापकात्पुरुषः स्मृतः पुरुषः सूक्ष्मभावात्तु ऐश्वर्ये परमे स्थितः
गुणोत्तरमथैश्वर्ये सर्वतः सूक्ष्ममुच्यते ऐश्वर्यं चाप्रतीघातं प्राप्य योगमनुत्तमम्
अपवर्गं ततो गच्छेत् सूक्ष्मं तत्परमं पदम् एवं पाशुपतं योगं ज्ञातव्यं मुनिपुङ्गवाः
स्वर्गापवर्गफलदं शिवसायुज्यकारणम् अथवा गतविज्ञानो रागात्कर्म समाचरेत्
राजसं तामसं वापि भुक्त्वा तत्रैव मुच्यते तथा सुकृतकर्मा तु फलं स्वर्गे समश्नुते
तस्मात्स्थानात्पुनः श्रेष्ठो मानुष्यमुपपद्यते तस्माद्ब्रह्म परं सौख्यं ब्रह्म शाश्वतम् उत्तमम्
ब्रह्म एव हि सेवेत ब्रह्मैव हि परं सुखम् परिश्रमो हि यज्ञानां महतार्थेन वर्तते
भूयो मृत्युवशं याति तस्मान्मोक्षः परं सुखम् अथवा ध्यानसंयुक्तो ब्रह्मतत्त्वपरायणः
न तु च्यावयितुं शक्यो मन्वन्तरशतैरपि दृष्ट्वा तु पुरुषं दिव्यं विश्वाख्यं विश्वतोमुखम्
विश्वपादशिरोग्रीवं विश्वेशं विश्वरूपिणम् विश्वगन्धं विश्वमाल्यं विश्वांबरधरं प्रभुम्
गोभिर् महीं संपतते पतत्रिणो नैवं भूयो जनयत्येवमेव कविं पुराणम् अनुशासितारं सूक्ष्माच्च सूक्ष्मं महतो महान्तम्
योगेन पश्येन्न च चक्षुषा पुनर् निरिन्द्रियं पुरुषं रुक्मवर्णम् अलिङ्गिनं निर्गुणं चेतनं च नित्यं सदा सर्वगं सर्वसारम्
अपाणिपादोदरपार्श्वजिह्वो ह्यतीन्द्रियो वापि सुसूक्ष्म एकः
स वेद सर्वं न च सर्ववेद्यं तमाहुरग्र्यं पुरुषं महान्तम्