अत ऊर्ध्वं प्रवक्ष्यामि योगं परमदुर्लभम् पञ्चधा संस्मरेदादौ स्थाप्य चित्ते सनातनम्
कल्पयेच्चासनं पद्मं सोमसूर्याग्निसंयुतम् षड्विंशच्छक्तिसंयुक्तम् अष्टधा च द्विजोत्तमाः
ततः षोडशधा चैव पुनर्द्वादशधा द्विजाः स्मरेच् च तत् तथा मध्ये देव्या देवम् उमापतिम्
अष्टशक्तिसमायुक्तम् अष्टमूर्तिमजं प्रभुम् ताभिश्चाष्टविधा रुद्राश् चतुःषष्टिविधाः पुनः
शक्तयश् च तथा सर्वा गुणाष्टकसमन्विताः एवं स्मरेत्क्रमेणैव लब्ध्वा ज्ञानमनुत्तमम्
एवं पाशुपतं योगं मोक्षसिद्धिप्रदायकम् तस्याणिमादयो विप्रा नान्यथा कर्मकोटिभिः
तत्राष्टगुणमैश्वर्यं योगिनां समुदाहृतम् तत्सर्वं क्रमयोगेन ह्य् उच्यमानं निबोधत
अणिमा लघिमा चैव महिमा प्राप्तिरेव च प्राकाम्यं चैव सर्वत्र ईशित्वं चैव सर्वतः
वशित्वमथ सर्वत्र यत्र कामावसायिता तच्चापि त्रिविधं ज्ञेयम् ऐश्वर्यं सार्वकामिकम्
सावद्यं निरवद्यं च सूक्ष्मं चैव प्रवर्तते सावद्यं नाम यत्तत्र पञ्चभूतात्मकं स्मृतम्
इन्द्रियाणि मनश्चैव अहङ्कारश् च यः स्मृतः तत्र सूक्ष्मप्रवृत्तिस्तु पञ्चभूतात्मिका पुनः
इन्द्रियाणि मनश्चित्तबुद्ध्यहङ्कारसंज्ञितम् तथा सर्वमयं चैव आत्मस्था ख्यातिरेव च
संयोग एव त्रिविधः सूक्ष्मेष्वेव प्रवर्तते पुनरष्टगुणश्चापि सूक्ष्मेष्वेव विधीयते
तस्य रूपं प्रवक्ष्यामि यथाह भगवान्प्रभुः त्रैलोक्ये सर्वभूतेषु यथास्य नियमः स्मृतः
अणिमाद्यं तथाव्यक्तं सर्वत्रैव प्रतिष्ठितम् त्रैलोक्ये सर्वभूतानां दुष्प्राप्यं समुदाहृतम्
तत् तस्य भवति प्राप्यं प्रथमं योगिनां बलम् लङ्घनं प्लवनं लोके रूपमस्य सदा भवेत्
शीघ्रत्वं सर्वभूतेषु द्वितीयं तु पदं स्मृतम् त्रैलोक्ये सर्वभूतानां महिम्ना चैव वन्दितम्
महित्वं चापि लोके ऽस्मिंस् तृतीयो योग उच्यते त्रैलोक्ये सर्वभूतेषु यथेष्टगमनं स्मृतम्
प्राकामान् विषयान् भुङ्क्ते तथाप्रतिहतः क्वचित् त्रैलोक्ये सर्वभूतानां सुखदुःखं प्रवर्तते
ईशो भवति सर्वत्र प्रविभागेन योगवित् वश्यानि चास्य भूतानि त्रैलोक्ये सचराचरे
इच्छया तस्य रूपाणि भवन्ति न भवन्ति च यत्र कामावसायित्वं त्रैलोक्ये सचराचरे
शब्दः स्पर्शो रसो गन्धो रूपं चैव मनस् तथा प्रवर्तन्ते ऽस्य चेच्छातो न भवन्ति यथेच्छया
न जायते न म्रियते छिद्यते न च भिद्यते न दह्यते न मुह्येत लीयते न च लिप्यते
न क्षीयते न क्षरति खिद्यते न कदाचन क्रियते वा न सर्वत्र तथा विक्रियते न च
अगन्धरसरूपस्तु अस्पर्शः शब्दवर्जितः अवर्णो ह्यस्वरश् चैव असवर्णस्तु कर्हिचित्
स भुङ्क्ते विषयांश्चैव विषयैर्न च युज्यते अणुत्वात्तु परः सूक्ष्मः सूक्ष्मत्वाद् अपवर्गिकः
व्यापकस्त्वपवर्गाच्च व्यापकात्पुरुषः स्मृतः पुरुषः सूक्ष्मभावात्तु ऐश्वर्ये परमे स्थितः
गुणोत्तरमथैश्वर्ये सर्वतः सूक्ष्ममुच्यते ऐश्वर्यं चाप्रतीघातं प्राप्य योगमनुत्तमम्
अपवर्गं ततो गच्छेत् सूक्ष्मं तत्परमं पदम् एवं पाशुपतं योगं ज्ञातव्यं मुनिपुङ्गवाः
स्वर्गापवर्गफलदं शिवसायुज्यकारणम् अथवा गतविज्ञानो रागात्कर्म समाचरेत्