संसारकालकूटाख्यान् मुच्यते मुनिपुङ्गवाः एवं संक्षेपतः प्रोक्तं मया युष्माकमच्युतम्
ज्ञानस्यैवेह माहात्म्यं प्रसंगादिह शोभनम् एवं पाशुपतं योगं कथितं त्वीश्वरेण तु
न देयं यस्य कस्यापि शिवोक्तं मुनिपुङ्गवाः दातव्यं योगिने नित्यं भस्मनिष्ठाय सुप्रियम्
यः पठेच्छृणुयाद्वापि संसारशमनं नरः स याति ब्रह्मसायुज्यं नात्र कार्या विचारणा
निशम्य ते महाप्राज्ञाः कुमाराद्याः पिनाकिनम् प्रोचुः प्रणम्य वै भीताः प्रसन्नं परमेश्वरम्
एवं चेदनया देव्या हैमवत्या महेश्वर क्रीडसे विविधैर्भोगैः कथं वक्तुमिहार्हसि
एवमुक्तः प्रहस्येशः पिनाकी नीललोहितः प्राह ताम् अंबिकां प्रेक्ष्य प्रणिपत्य स्थितान् द्विजान्
बन्धमोक्षौ न चैवेह मम स्वेच्छा शरीरिणः अकर्तज्ञः पशुर्जीवो विभुर्भोक्ता ह्यणुः पुमान्
मायी च मायया बद्धः कर्मभिर् युज्यते तु सः ज्ञानं ध्यानं च बन्धश् च मोक्षो नास्त्यात्मनो द्विजाः
यदैवं मयि विद्वान् यस् तस्यापि न च सर्वतः एषा विद्या ह्यहं वेद्यः प्रज्ञैषा च श्रुतिः स्मृतिः
धृतिरेषा मया निष्ठा ज्ञानशक्तिः क्रिया तथा इच्छाख्या च तथा ह्याज्ञा द्वे विद्ये न च संशयः
न ह्येषा प्रकृतिर्जैवी विकृतिश् च विचारतः विकारो नैव मायैषा सदसद्व्यक्तिवर्जिता
पुरा ममाज्ञा मद्वक्त्रात् समुत्पन्ना सनातनी पञ्चवक्त्रा महाभागा जगतामभयप्रदा
तामाज्ञां सम्प्रविश्याहं चिन्तयन् जगतां हितम् सप्तविंशत्प्रकारेण सर्वं व्याप्यानया शिवः
तदाप्रभृति वै मोक्षप्रवृत्तिर्द्विजसत्तमाः एवमुक्त्वा तदापश्यद् भवानीं परमेश्वरः
भवानी च तमालोक्य मायामहरदव्यया ते मायामलनिर्मुक्ता मुनयः प्रेक्ष्य पार्वतीम्
प्रीता बभूवुर्मुक्ताश् च तस्मादेषा परा गतिः उमाशङ्करयोर्भेदो नास्त्येव परमार्थतः
द्विधासौ रूपमास्थाय स्थित एव न संशयः यदा विद्वानसंगः स्याद् आज्ञया परमेष्ठिनः
तदा मुक्तिः क्षणादेव नान्यथा कर्मकोटिभिः क्रमो ऽविवक्षितो भूतविवृद्धः परमेष्ठिनः
प्रसादेन क्षणान्मुक्तिः प्रतिज्ञैषा न संशयः गर्भस्थो जायमानो वा बालो वा तरुणो ऽपि वा
वृद्धो वा मुच्यते जन्तुः प्रसादात्परमेष्ठिनः अण्डजश् चोद्भिज्जो वापि स्वेदजो वापि मुच्यते
प्रसादाद्देवदेवस्य नात्र कार्या विचारणा एष एव जगन्नाथो बन्धमोक्षकरः शिवः
भूर्भूवःस्वर्महश् चैव जनः साक्षात्तपः स्वयम् सत्यलोकस् तथाण्डानां कोटिकोटिशतानि च
विग्रहं देवदेवस्य तथाण्डावरणाष्टकम् सप्तद्वीपेषु सर्वेषु पर्वतेषु वनेषु च
समुद्रेषु च सर्वेषु वायुस्कन्धेषु सर्वतः तथान्येषु च लोकेषु वसन्ति च चराचराः
सर्वे भवांशजा नूनं गतिस्त्वेषां स एव वै सर्वो रुद्रो नमस्तस्मै पुरुषाय महात्मने
विश्वं भूतं तथा जातं बहुधा रुद्र एव सः रुद्राज्ञैषा स्थिता देवी ह्य् अनया मुक्तिरंबिका
इत्येवं खेचराः सिद्धा जजल्पुः प्रीतमानसाः यदावलोक्य तान् सर्वान् प्रसादादनयांबिका
तदा तिष्ठन्ति सायुज्यं प्राप्तास्ते खेचराः प्रभोः
केन योगेन वै सूत गुणप्राप्तिः सतामिह अणिमादिगुणोपेता भवन्त्येवेह योगिनः तत्सर्वं विस्तरात्सूत वक्तुमर्हसि सांप्रतम्