परिग्रहविनिर्मुक्तो ब्रह्मचारी दृढव्रतः संतुष्टः शौचसम्पन्नः स्वाध्यायनिरतः सदा
मद्रक्तश्चाभ्यसेद्ध्यानं गुरुसंपर्कजं ध्रुवम् न बुध्यति तथा ध्याता स्थाप्य चित्तं द्विजोत्तमाः
न चाभिमन्यते योगी न पश्यति समन्ततः न घ्राति न शृणोत्येव लीनः स्वात्मनि यः स्वयम्
न च स्पर्शं विजानाति स वै समरसः स्मृतः पार्थिवे पटले ब्रह्मा वारितत्त्वे हरिः स्वयम्
वाह्नेये कालरुद्राख्यो वायुतत्त्वे महेश्वरः सुषिरे स शिवः साक्षात् क्रमादेवं विचिन्तयेत्
क्षितौ शर्वः स्मृतो देवो ह्य् अपां भव इति स्मृतः रुद्र एव तथा वह्नौ उग्रो वायौ व्यवस्थितः
भीमः सुषिरनाके ऽसौ भास्करे मण्डले स्थितः ईशानः सोमबिम्बे च महादेव इति स्मृतः
पुंसां पशुपतिर्देवश् चाष्टधाहं व्यवस्थितः काठिन्यं यत्तनौ सर्वं पार्थिवं परिगीयते
आप्यं द्रवमिति प्रोक्तं वर्णाख्यो वह्निरुच्यते यत्संचरति तद्वायुः सुषिरं यद्द्विजोत्तमाः
तदाकाशं च विज्ञानं शब्दजं व्योमसंभवम् तथैव विप्रा विज्ञानं स्पर्शाख्यं वायुसंभवम्
रूपं वाह्नेयमित्युक्तम् आप्यं रसमयं द्विजाः गन्धाख्यं पार्थिवं भूयश् चिन्तयेद्भास्करं क्रमात्
नेत्रे च दक्षिणे वामे सोमं हृदि विभुं द्विजाः आजानु पृथिवीतत्त्वम् आनाभेर् वारिमण्डलम्
आकण्ठं वह्नितत्त्वं स्याल् ललाटान्तं द्विजोत्तमाः वायव्यं वै ललाटाद्यं व्योमाख्यं वा शिखाग्रकम्
हंसाख्यं च ततो ब्रह्म व्योम्नश्चोर्ध्वं ततः परम् व्योमाख्यो व्योममध्यस्थो ह्य् अयं प्राथमिकः स्मरेत्
न जीवः प्रकृतिः सत्त्वं रजश्चाथ तमः पुनः महांस्तथाभिमानश् च तन्मात्राणीन्द्रियाणि च
व्योमादीनि च भूतानि नैवेह परमार्थतः व्याप्य तिष्ठद्यतो विश्वं स्थाणुरित्यभिधीयते
उदेति सूर्यो भीतश् च पवते वात एव च द्योतते चन्द्रमा वह्निर् ज्वलत्यापो वहन्ति च
दधाति भूमिराकाशम् अवकाशं ददाति च तदाज्ञया ततं सर्वं तस्माद्वै चिन्तयेद्द्विजाः
तेनैवाधिष्ठितं तस्माद् एतत्सर्वं द्विजोत्तमाः सर्वरूपमयः शर्व इति मत्वा स्मरेद्भवम्
संसारविषतप्तानां ज्ञानध्यानामृतेन वै प्रतीकारः समाख्यातो नान्यथा द्विजसत्तमाः
ज्ञानं धर्मोद्भवं साक्षाज् ज्ञानाद् वैराग्यसंभवः वैराग्यात्परमं ज्ञानं परमार्थप्रकाशकम्
ज्ञानवैराग्ययुक्तस्य योगसिद्धिर्द्विजोत्तमाः योगसिद्ध्या विमुक्तिः स्यात् सत्त्वनिष्ठस्य नान्यथा
तमोविद्यापदच्छन्नं चित्रं यत्पदमव्ययम् सत्त्वशक्तिं समास्थाय शिवमभ्यर्चयेद्द्विजाः
यः सत्त्वनिष्ठो मद्भक्तो मदर्चनपरायणः सर्वतो धर्मनिष्ठश् च सदोत्साही समाहितः
सर्वद्वन्द्वसहो धीरः सर्वभूतहिते रतः ऋजुस्वभावः सततं स्वस्थचित्तो मृदुः सदा
अमानी बुद्धिमाञ्छान्तस् त्यक्तस्पर्धो द्विजोत्तमाः सदा मुमुक्षुर्धर्मज्ञः स्वात्मलक्षणलक्षणः
ऋणत्रयविनिर्मुक्तः पूर्वजन्मनि पुण्यभाक् जरायुक्तो द्विजो भूत्वा श्रद्धया च गुरोः क्रमात्
अन्यथा वापि शुश्रूषां कृत्वा कृत्रिमवर्जितः स्वर्गलोकमनुप्राप्य भुक्त्वा भोगाननुक्रमात्
आसाद्य भारतं वर्षं ब्रह्मविज्जायते द्विजाः संपर्काज्ज्ञानमासाद्य ज्ञानिनो योगविद्भवेत्
क्रमो ऽयं मलपूर्णस्य ज्ञानप्राप्तेर्द्विजोत्तमाः तस्मादनेन मार्गेण त्यक्तसंगो दृढव्रतः