स एव मुक्तः संसाराद् दुःखत्रयविवर्जितः एवं ज्ञानं विना नास्ति ध्यानं ध्यातुर् द्विजर्षभाः
ज्ञानं गुरोर्हि संपर्कान् न वाचा परमार्थतः चतुर्व्यूहमिति ज्ञात्वा ध्याता ध्यानं समभ्यसेत्
सहजागन्तुकं पापम् अस्थिवागुद्भवं तथा ज्ञानाग्निर्दहते क्षिप्रं शुष्केन्धनम् इवानलः
ज्ञानात्परतरं नास्ति सर्वपापविनाशनम् अभ्यसेच्च सदा ज्ञानं सर्वसंगविवर्जितः
ज्ञानिनः सर्वपापानि जीर्यन्ते नात्र संशयः क्रीडन्नपि न लिप्येत पापैर्नानाविधैरपि
ज्ञानं यथा तथा ध्यानं तस्माद्ध्यानं समभ्यसेत् ध्यानं निर्विषयं प्रोक्तम् आदौ सविषयं तथा
षट्प्रकारं समभ्यस्य चतुःषड्दशभिस् तथा तथा द्वादशधा चैव पुनः षोडशधा क्रमात्
द्विधाभ्यस्य च योगीन्द्रो मुच्यते नात्र संशयः शुद्धजांबूनदाकारं विधूमाङ्गारसन्निभम्
पीतं रक्तं सितं विद्युत् कोटिकोटिसमप्रभम् अथवा ब्रह्मरन्ध्रस्थं चित्तं कृत्वा प्रयत्नतः
न सितं वासितं पीतं न स्मरेद् ब्रह्मविद् भवेत् अहिंसकः सत्यवादी अस्तेयी सर्वयत्नतः
परिग्रहविनिर्मुक्तो ब्रह्मचारी दृढव्रतः संतुष्टः शौचसम्पन्नः स्वाध्यायनिरतः सदा
मद्रक्तश्चाभ्यसेद्ध्यानं गुरुसंपर्कजं ध्रुवम् न बुध्यति तथा ध्याता स्थाप्य चित्तं द्विजोत्तमाः
न चाभिमन्यते योगी न पश्यति समन्ततः न घ्राति न शृणोत्येव लीनः स्वात्मनि यः स्वयम्
न च स्पर्शं विजानाति स वै समरसः स्मृतः पार्थिवे पटले ब्रह्मा वारितत्त्वे हरिः स्वयम्
वाह्नेये कालरुद्राख्यो वायुतत्त्वे महेश्वरः सुषिरे स शिवः साक्षात् क्रमादेवं विचिन्तयेत्
क्षितौ शर्वः स्मृतो देवो ह्य् अपां भव इति स्मृतः रुद्र एव तथा वह्नौ उग्रो वायौ व्यवस्थितः
भीमः सुषिरनाके ऽसौ भास्करे मण्डले स्थितः ईशानः सोमबिम्बे च महादेव इति स्मृतः
पुंसां पशुपतिर्देवश् चाष्टधाहं व्यवस्थितः काठिन्यं यत्तनौ सर्वं पार्थिवं परिगीयते
आप्यं द्रवमिति प्रोक्तं वर्णाख्यो वह्निरुच्यते यत्संचरति तद्वायुः सुषिरं यद्द्विजोत्तमाः
तदाकाशं च विज्ञानं शब्दजं व्योमसंभवम् तथैव विप्रा विज्ञानं स्पर्शाख्यं वायुसंभवम्
रूपं वाह्नेयमित्युक्तम् आप्यं रसमयं द्विजाः गन्धाख्यं पार्थिवं भूयश् चिन्तयेद्भास्करं क्रमात्
नेत्रे च दक्षिणे वामे सोमं हृदि विभुं द्विजाः आजानु पृथिवीतत्त्वम् आनाभेर् वारिमण्डलम्
आकण्ठं वह्नितत्त्वं स्याल् ललाटान्तं द्विजोत्तमाः वायव्यं वै ललाटाद्यं व्योमाख्यं वा शिखाग्रकम्
हंसाख्यं च ततो ब्रह्म व्योम्नश्चोर्ध्वं ततः परम् व्योमाख्यो व्योममध्यस्थो ह्य् अयं प्राथमिकः स्मरेत्
न जीवः प्रकृतिः सत्त्वं रजश्चाथ तमः पुनः महांस्तथाभिमानश् च तन्मात्राणीन्द्रियाणि च
व्योमादीनि च भूतानि नैवेह परमार्थतः व्याप्य तिष्ठद्यतो विश्वं स्थाणुरित्यभिधीयते
उदेति सूर्यो भीतश् च पवते वात एव च द्योतते चन्द्रमा वह्निर् ज्वलत्यापो वहन्ति च
दधाति भूमिराकाशम् अवकाशं ददाति च तदाज्ञया ततं सर्वं तस्माद्वै चिन्तयेद्द्विजाः
तेनैवाधिष्ठितं तस्माद् एतत्सर्वं द्विजोत्तमाः सर्वरूपमयः शर्व इति मत्वा स्मरेद्भवम्
संसारविषतप्तानां ज्ञानध्यानामृतेन वै प्रतीकारः समाख्यातो नान्यथा द्विजसत्तमाः