ज्ञानम् एवाभ्यसेत् तस्मान् मुक्त्यर्थं ब्रह्मवित्तमाः ज्ञानाभ्यासाद्धि वै पुंसां बुद्धिर्भवति निर्मला
तस्मात्सदाभ्यसेज्ज्ञानं तन्निष्ठस्तत्परायणः ज्ञानेनैकेन तृप्तस्य त्यक्तसंगस्य योगिनः
कर्तव्यं नास्ति विप्रेन्द्रा अस्ति चेत्तत्त्वविन्न च इह लोके परे चापि कर्तव्यं नास्ति तस्य वै
जीवन्मुक्तो यतस् तस्माद् ब्रह्मवित् परमार्थतः ज्ञानाभ्यासरतो नित्यं ज्ञानतत्त्वार्थवित् स्वयम्
कर्तव्याभ्यासमुत्सृज्य ज्ञानमेवाधिगच्छति वर्णाश्रमाभिमानी यस् त्यक्तक्रोधो द्विजोत्तमाः
अन्यत्र रमते मूढः सो ऽज्ञानी नात्र संशयः संसारहेतुरज्ञानं संसारस्तनुसंग्रहः
मोक्षहेतुस् तथा ज्ञानं मुक्तः स्वात्मन्यवस्थितः अज्ञाने सति विप्रेन्द्राः क्रोधाद्या नात्र संशयः
क्रोधो हर्षस् तथा लोभो मोहो दम्भो द्विजोत्तमाः धर्माधर्मौ हि तेषां च तद्वशात्तनुसंग्रहः
शरीरे सति वै क्लेशः सो ऽविद्यां संत्यजेद्बुधः अविद्यां विद्यया हित्वा स्थितस्यैव च योगिनः
क्रोधाद्या नाशमायान्ति धर्माधर्मौ च वै द्विजाः तत्क्षयाच्च शरीरेण न पुनः सम्प्रयुज्यते
स एव मुक्तः संसाराद् दुःखत्रयविवर्जितः एवं ज्ञानं विना नास्ति ध्यानं ध्यातुर् द्विजर्षभाः
ज्ञानं गुरोर्हि संपर्कान् न वाचा परमार्थतः चतुर्व्यूहमिति ज्ञात्वा ध्याता ध्यानं समभ्यसेत्
सहजागन्तुकं पापम् अस्थिवागुद्भवं तथा ज्ञानाग्निर्दहते क्षिप्रं शुष्केन्धनम् इवानलः
ज्ञानात्परतरं नास्ति सर्वपापविनाशनम् अभ्यसेच्च सदा ज्ञानं सर्वसंगविवर्जितः
ज्ञानिनः सर्वपापानि जीर्यन्ते नात्र संशयः क्रीडन्नपि न लिप्येत पापैर्नानाविधैरपि
ज्ञानं यथा तथा ध्यानं तस्माद्ध्यानं समभ्यसेत् ध्यानं निर्विषयं प्रोक्तम् आदौ सविषयं तथा
षट्प्रकारं समभ्यस्य चतुःषड्दशभिस् तथा तथा द्वादशधा चैव पुनः षोडशधा क्रमात्
द्विधाभ्यस्य च योगीन्द्रो मुच्यते नात्र संशयः शुद्धजांबूनदाकारं विधूमाङ्गारसन्निभम्
पीतं रक्तं सितं विद्युत् कोटिकोटिसमप्रभम् अथवा ब्रह्मरन्ध्रस्थं चित्तं कृत्वा प्रयत्नतः
न सितं वासितं पीतं न स्मरेद् ब्रह्मविद् भवेत् अहिंसकः सत्यवादी अस्तेयी सर्वयत्नतः
परिग्रहविनिर्मुक्तो ब्रह्मचारी दृढव्रतः संतुष्टः शौचसम्पन्नः स्वाध्यायनिरतः सदा
मद्रक्तश्चाभ्यसेद्ध्यानं गुरुसंपर्कजं ध्रुवम् न बुध्यति तथा ध्याता स्थाप्य चित्तं द्विजोत्तमाः
न चाभिमन्यते योगी न पश्यति समन्ततः न घ्राति न शृणोत्येव लीनः स्वात्मनि यः स्वयम्
न च स्पर्शं विजानाति स वै समरसः स्मृतः पार्थिवे पटले ब्रह्मा वारितत्त्वे हरिः स्वयम्
वाह्नेये कालरुद्राख्यो वायुतत्त्वे महेश्वरः सुषिरे स शिवः साक्षात् क्रमादेवं विचिन्तयेत्
क्षितौ शर्वः स्मृतो देवो ह्य् अपां भव इति स्मृतः रुद्र एव तथा वह्नौ उग्रो वायौ व्यवस्थितः
भीमः सुषिरनाके ऽसौ भास्करे मण्डले स्थितः ईशानः सोमबिम्बे च महादेव इति स्मृतः
पुंसां पशुपतिर्देवश् चाष्टधाहं व्यवस्थितः काठिन्यं यत्तनौ सर्वं पार्थिवं परिगीयते
आप्यं द्रवमिति प्रोक्तं वर्णाख्यो वह्निरुच्यते यत्संचरति तद्वायुः सुषिरं यद्द्विजोत्तमाः
तदाकाशं च विज्ञानं शब्दजं व्योमसंभवम् तथैव विप्रा विज्ञानं स्पर्शाख्यं वायुसंभवम्