वर्तमानानि दुःखानि भविष्याणि यथातथम् दोषदुष्टेषु देशेषु दुःखानि विविधानि च
न भावयन्त्यतीतानि ह्य् अज्ञाने ज्ञानमानिनः क्षुद्व्याधेः परिहारार्थं न सुखायान्नमुच्यते
यथेतरेषां रोगाणाम् औषधं न सुखाय तत् शीतोष्णवातवर्षाद्यैस् तत्तत्कालेषु देहिनाम्
दुःखमेव न संदेहो न जानन्ति ह्यपण्डिताः स्वर्गे ऽप्येवं मुनिश्रेष्ठा ह्य् अविशुद्धक्षयादिभिः
रोगैर् नानाविधैर् ग्रस्ता रागद्वेषभयादिभिः छिन्नमूलतरुर्यद्वद् अवशः पतति क्षितौ
पुण्यवृक्षक्षयात्तद्वद् गां पतन्ति दिवौकसः दुःखाभिलाषनिष्ठानां दुःखभोगादिसंपदाम्
अस्मात्तु पततां दुःखं कष्टं स्वर्गाद्दिवौकसाम् नरके दुःखमेवात्र नरकाणां निषेवणात्
विहिताकरणाच्चैव वर्णिनां मुनिपुङ्गवाः
यथा मृगो मृत्युभयस्य भीत उच्छिन्नवासो न लभेत निद्राम् एवं यतिर्ध्यानपरो महात्मा संसारभीतो न लभेत निद्राम्
कीटपक्षिमृगाणां च पशूनां गजवाजिनाम् दृष्टम् एवासुखं तस्मात् त्यजतः सुखमुत्तमम्
वैमानिकानामप्येवं दुःखं कल्पाधिकारिणाम् स्थानाभिमानिनां चैव मन्वादीनां च सुव्रताः
देवानां चैव दैत्यानाम् अन्योन्यविजिगीषया दुःखमेव नृपाणां च राक्षसानां जगत्त्रये
श्रमार्थमाश्रमश्चापि वर्णानां परमार्थतः आश्रमैर्न च देवैश् च यज्ञैः सांख्यैर्व्रतैस् तथा
उग्रैस्तपोभिर् विविधैर् दानैर्नानाविधैरपि न लभन्ते तथात्मानं लभन्ते ज्ञानिनः स्वयम्
तस्मात्सर्वप्रयत्नेन चरेत्पाशुपतव्रतम् भस्मशायी भवेन्नित्यं व्रते पाशुपते बुधः
पञ्चार्थज्ञानसम्पन्नः शिवतत्त्वे समाहितः कैवल्यकरणं योगविधिकर्मच्छिदं बुधः
पञ्चार्थयोगसम्पन्नो दुःखान्तं व्रजते सुधीः परया विद्यया वेद्यं विदन्त्यपरया न हि
द्वे विद्ये वेदितव्ये हि परा चैवापरा तथा अपरा तत्र ऋग्वेदो यजुर्वेदो द्विजोत्तमाः
सामवेदस्तथाथर्वो वेदः सर्वार्थसाधकः शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च
ज्योतिषं चापरा विद्या पराक्षरमिति स्थितम् तददृश्यं तदग्राह्यम् अगोत्रं तदवर्णकम्
तदचक्षुस्तदश्रोत्रं तदपाणि अपादकम् तदजातमभूतं च तदशब्दं द्विजोत्तमाः
अस्पर्शं तदरूपं च रसगन्धविवर्जितम् अव्ययं चाप्रतिष्ठं च तन्नित्यं सर्वगं विभुम्
महान्तं तद् बृहन्तं च तदजं चिन्मयं द्विजाः अप्राणममनस्कं च तदस्निग्धमलोहितम्
अप्रमेयं तदस्थूलम् अदीर्घं तदनुल्बणम् अह्रस्वं तदपारं च तदानन्दं तदच्युतम्
अनपावृतमद्वैतं तदनन्तमगोचरम् असंवृतं तदात्मैकं परा विद्या न चान्यथा
परापरेति कथिते नैवेह परमार्थतः अहमेव जगत्सर्वं मय्येव सकलं जगत्
मत्त उत्पद्यते तिष्ठन् मयि मय्येव लीयते मत्तो नान्यदितीक्षेत मनोवाक्पाणिभिस् तथा
सर्वमात्मनि संपश्येत् सच्चासच्च समाहितः सर्वं ह्यात्मनि संपश्यन् न बाह्ये कुरुते मनः
अधोदृष्ट्या वितस्त्यां तु नाभ्यामुपरितिष्ठति हृदयं तद्विजानीयाद् विश्वस्यायतनं महत्
हृदयस्यास्य मध्ये तु पुण्डरीकमवस्थितम् धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम्