सर्वतीर्थफलं तच्च सर्वपापहरं शुभम् संध्योपासनविच्छेदे जपेदष्टशतं नरः
विड्वराहैश् च चाण्डालैर् दुर्जनैः कुक्कुटैरपि स्पृष्टमन्नं न भुञ्जीत भुक्त्वा चाष्टशतं जपेत्
ब्रह्महत्याविशुद्ध्यर्थं जपेल्लक्षायुतं नरः पातकानां तदर्धं स्यान् नात्र कार्या विचारणा
उपपातकदुष्टानां तदर्धं परिकीर्तितम् शेषाणामपि पापानां जपेत्पञ्चसहस्रकम्
आत्मबोधपरं गुह्यं शिवबोधप्रकाशकम् शिवः स्यात्स जपेन्मन्त्रं पञ्चलक्षम् अनाकुलः
पञ्चवायुजयं भद्रे प्राप्नोति मनुजः सुखम् जपेच्च पञ्चलक्षं तु विगृहीतेन्द्रियः शुचिः
पञ्चेन्द्रियाणां विजयो भविष्यति वरानने ध्यानयुक्तो जपेद्यस्तु पञ्चलक्षमनाकुलः
विषयाणां च पञ्चानां जयं प्राप्नोति मानवः चतुर्थं पञ्चलक्षं तु यो जपेद्भक्तिसंयुतः
भूतानामिह पञ्चानां विजयं मनुजो लभेत् चतुर्लक्षं जपेद्यस्तु मनः संयम्य यत्नतः
सम्यग्विजयमाप्नोति करणानां वरानने पञ्चविंशतिलक्षाणां जपेन कमलानने
पञ्चविंशतितत्त्वानां विजयं मनुजो लभेत् मध्यरात्रे ऽतिनिर्वाते जपेदयुतमादरात्
ब्रह्मसिद्धिमवाप्नोति व्रतेनानेन सुंदरि जपेल्लक्षमनालस्यो निर्वाते ध्वनिवर्जिते
मध्यरात्रे च शिवयोः पश्यत्येव न संशयः अन्धकारविनाशश् च दीपस्येव प्रकाशनम्
हृदयान्तर्बहिर्वापि भविष्यति न संशयः सर्वसंपत्समृद्ध्यर्थं जपेदयुतमात्मवान्
सबीजसंपुटं मन्त्रं शतलक्षं जपेच्छुचिः मत्सायुज्यमवाप्नोति भक्तिमान् किमतः परम्
इति ते सर्वमाख्यातं पञ्चाक्षरविधिक्रमम् यः पठेच्छृणुयाद्वापि स याति परमां गतिम्
श्रावयेच्च द्विजाञ्छुद्धान् पञ्चाक्षरविधिक्रमम् दैवे कर्मणि पित्र्ये वा शिवलोके महीयते
जपाच्छ्रेष्ठतमं प्राहुर् ब्राह्मणा दग्धकिल्बिषाः विरक्तानां प्रबुद्धानां ध्यानयज्ञं सुशोभनम्
तस्माद्वदस्व सूताद्य ध्यानयज्ञमशेषतः विस्तारात्सर्वयत्नेन विरक्तानां महात्मनाम्
तेषां तद्वचनं श्रुत्वा मुनीनां दीर्घसत्त्रिणाम् रुद्रेण कथितं प्राह गुहां प्राप्य महात्मनाम्
संहृत्य कालकूटाख्यं विषं वै विश्वकर्मणा गुहां प्राप्य सुखासीनं भवान्या सह शङ्करम्
मुनयः संशितात्मानः प्रणेमुस्तं गुहाश्रयम् अस्तुवंश् च ततः सर्वे नीलकण्ठमुमापतिम्
अत्युग्रं कालकूटाख्यं संहृतं भगवंस्त्वया अतः प्रतिष्ठितं सर्वं त्वया देव वृषध्वज
तेषां तद्वचनं श्रुत्वा भगवान्नीललोहितः प्रहसन्प्राह विश्वात्मा सनन्दनपुरोगमान्
किमनेन द्विजश्रेष्ठा विषं वक्ष्ये सुदारुणम् संहरेत्तद्विषं यस्तु स समर्थो ह्यनेन किम्
न विषं कालकूटाख्यं संसारो विषमुच्यते तस्मात्सर्वप्रयत्नेन संहरेत सुदारुणम्
संसारो द्विविधः प्रोक्तः स्वाधिकारानुरूपतः पुंसां संमूढचित्तानाम् असंक्षीणः सुदारुणः
ईषणारागदोषेण सर्गो ज्ञानेन सुव्रताः तद्वशादेव सर्वेषां धर्माधर्मौ न संशयः
असन्निकृष्टे त्वर्थे ऽपि शास्त्रं तच्छ्रवणात्सताम् बुद्धिमुत्पादयत्येव संसारे विदुषां द्विजाः
तस्माद्दृष्टानुश्रविकं दुष्टमित्युभयात्मकम् संत्यजेत्सर्वयत्नेन विरक्तः सो ऽभिधीयते