अहिंसा सर्वतः शान्तिस् तप इत्यभिधीयते आत्मवत् सर्वभूतेषु यो हितायाहिताय च
वर्तते त्वसकृद्वृत्तिः कृत्स्ना ह्येषा दया स्मृता यद्यदिष्टतमं द्रव्यं न्यायेनैवागतं क्रमात्
तत्तद्गुणवते देयं दातुस्तद्दानलक्षणम् दानं त्रिविधमित्येतत् कनिष्ठज्येष्ठमध्यमम्
कारुण्यात्सर्वभूतेभ्यः संविभागस्तु मध्यमः श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः
शिष्टाचाराविरुद्धश् च स धर्मः साधुरुच्यते मायाकर्मफलत्यागी शिवात्मा परिकीर्तितः
निवृत्तः सर्वसङ्गेभ्यो युक्तो योगी प्रकीर्तितः असक्तो भयतो यस्तु विषयेषु विचार्य च
अलुब्धः संयमी प्रोक्तः प्रार्थितो ऽपि समन्ततः आत्मार्थं वा परार्थं वा इन्द्रियाणीह यस्य वै
न मिथ्या सम्प्रवर्तन्ते शमस्यैव तु लक्षणम् अनुद्विग्नो ह्यनिष्टेषु तथेष्टान्नाभिनन्दति
प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता संन्यासः कर्मणां न्यासः कृतानामकृतैः सह
कुशलाकुशलानां तु प्रहाणं न्यास उच्यते अव्यक्ताद्यविशेषान्ते विकारे ऽस्मिन्नचेतने
चेतनाचेतनान्यत्वविज्ञानं ज्ञानमुच्यते एवं तु ज्ञानयुक्तस्य श्रद्धायुक्तस्य शङ्करः
प्रसीदति न संदेहो धर्मश्चायं द्विजोत्तमाः किं तु गुह्यतमं वक्ष्ये सर्वत्र परमेश्वरे
भवे भक्तिर्न संदेहस् तया युक्तो विमुच्यते अयोग्यस्यापि भगवान् भक्तस्य परमेश्वरः
प्रसीदति न संदेहो निगृह्य विविधं तमः ज्ञानमध्यापनं होमो ध्यानं यज्ञस्तपः श्रुतम्
दानमध्ययनं सर्वं भवभक्त्यै न संशयः चान्द्रायणसहस्रैश् च प्राजापत्यशतैस् तथा
मासोपवासैश्चान्यैर्वा भक्तिर्मुनिवरोत्तमाः अभक्ता भगवत्यस्मिंल् लोके गिरिगुहाशये
पतन्ति चात्मभोगार्थं भक्तो भावेन मुच्यते भक्तानां दर्शनादेव नृणां स्वर्गादयो द्विजाः
न दुर्लभा न सन्देहो भक्तानां किं पुनस् तथा ब्रह्मविष्णुसुरेन्द्राणां तथान्येषामपि स्थितिः
भक्त्या एव मुनीनां च बलसौभाग्यमेव च भवेन च तथा प्रोक्तं सम्प्रेक्ष्योमां पिनाकिना
देव्यै देवेन मधुरं वाराणस्यां पुरा द्विजाः अविमुक्ते समासीना रुद्रेण परमात्मना
रुद्राणी रुद्रमाहेदं लब्ध्वा वाराणसीं पुरीम् केन वश्यो महादेव पूज्यो दृश्यस्त्वमीश्वरः
तपसा विद्यया वापि योगेनेह वद प्रभो निशम्य वचनं तस्यास् तथा ह्यालोक्य पार्वतीम्
आह बालेन्दुतिलकः पूर्णेन्दुवदनां हसन् स्मृत्वाथ मेनया पत्न्या गिरेर्गां कथितां पुरा
चिरकालस्थितिं प्रेक्ष्य गिरौ देव्या महात्मनः देवि लब्धा पुरी रम्या त्वया यत्प्रष्टुमर्हसि
स्थानार्थं कथितं मात्रा विस्मृतेह विलासिनि पुरा पितामहेनापि पृष्टः प्रश्नवतां वरे
यथा त्वयाद्य वै पृष्टो द्रष्टुं ब्रह्मात्मकं त्वहम् श्वेते श्वेतेन वर्णेन दृष्ट्वा कल्पे तु मां शुभे
सद्योजातं तथा रक्ते रक्तं वामं पितामहः पीते तत्पुरुषं पीतम् अघोरे कृष्णमीश्वरम्
ईशानं विश्वरूपाख्यो विश्वरूपं तदाह माम्
वाम तत्पुरुषाघोर सद्योजात महेश्वर दृष्टो मया त्वं गायत्र्या देवदेव महेश्वर केन वश्यो महादेव ध्येयः कुत्र घृणानिधे
दृश्यः पूज्यस् तथा देव्या वक्तुमर्हसि शङ्कर अवोचं श्रद्धयैवेति वश्यो वारिजसंभव