भक्ष्यं चान्यत्तथा पेयं विषमप्यमृतं भवेत् जपेल् लक्षं तु पूर्वाह्णे हुत्वा चाष्टशतेन वै
सूर्यं नित्यमुपस्थाय सम्यगारोग्यमाप्नुयात् नदीतोयेन सम्पूर्णं घटं संस्पृश्य शोभनम्
जप्त्वायुतं च तत्स्नानाद् रोगाणां भेषजं भवेत् अष्टाविंशज्जपित्वान्नम् अश्नीयाद् अन्वहं शुचिः
हुत्वा च तावत्पालाशैर् एवं वारोग्यम् अश्नुते चन्द्रसूर्यग्रहे पूर्वम् उपोष्य विधिना शुचिः
यावद्ग्रहणमोक्षं तु तावन्नद्यां समाहितः जपेत्समुद्रगामिन्यां विमोक्षे ग्रहणस्य तु
अष्टोत्तरसहस्रेण पिबेद्ब्राह्मीरसं द्विजाः ऐहिकां लभते मेधां सर्वशास्त्रधरां शुभाम्
सारस्वती भवेद्देवी तस्य वागतिमानुषी ग्रहनक्षत्रपीडासु जपेद्भक्त्यायुतं नरः
हुत्वा चाष्टसहस्रं तु ग्रहपीडां व्यपोहति दुःस्वप्नदर्शने स्नात्वा जपेद्वै चायुतं नरः
घृतेनाष्टशतं हुत्वा सद्यः शान्तिर्भविष्यति चन्द्रसूर्यग्रहे लिङ्गं समभ्यर्च्य यथाविधि
यत् किंचित् प्रार्थयेद् देवि जपेदयुतमादरात् संनिधावस्य देवस्य शुचिः संयतमानसः
सर्वान्कामानवाप्नोति पुरुषो नात्र संशयः गजानां तुरगाणां तु गोजातीनां विशेषतः
व्याध्यागमे शुचिर्भूत्वा जुहुयात्समिधाहुतिम् मासमभ्यर्च्य विधिना-युतं भक्तिसमन्वितः
तेषामृद्धिश् च शान्तिश् च भविष्यति न संशयः उत्पाते शत्रुबाधायां जुहुयादयुतं शुचिः
पालाशसमिधैर् देवि तस्य शान्तिर्भविष्यति आभिचारिकबाधायाम् एतद्देवि समाचरेत्
प्रत्यग् भवति तच्छक्तिः शत्रोः पीडा भविष्यति विद्वेषणार्थं जुहुयाद् वैभीतसमिधाष्टकम्
अक्षरप्रतिलोम्येन आर्द्रेण रुधिरेण वा विषेण रुधिराभ्यक्तो विद्वेषणकरं नृणाम्
प्रायश्चित्तं प्रवक्ष्यामि सर्वपापविशुद्धये पापशुद्धिर्यथा सम्यक् कर्तुमभ्युद्यतो नरः
पापशुद्धिर् यतः सम्यग् ज्ञानसंपत्तिहैतुकी पापशुद्धिर्न चेत्पुंसः क्रियाः सर्वाश्चनिष्फलाः
ज्ञानं च हीयते तस्मात् कर्तव्यं पापशोधनम् विद्यालक्ष्मीविशुद्ध्यर्थं मां ध्यात्वाञ्जलिना शुभे
शिवेनैकादशेनाद्भिर् अभिषिञ्चेत्समन्ततः अष्टोत्तरशतेनैव स्नायात्पापविशुद्धये
सर्वतीर्थफलं तच्च सर्वपापहरं शुभम् संध्योपासनविच्छेदे जपेदष्टशतं नरः
विड्वराहैश् च चाण्डालैर् दुर्जनैः कुक्कुटैरपि स्पृष्टमन्नं न भुञ्जीत भुक्त्वा चाष्टशतं जपेत्
ब्रह्महत्याविशुद्ध्यर्थं जपेल्लक्षायुतं नरः पातकानां तदर्धं स्यान् नात्र कार्या विचारणा
उपपातकदुष्टानां तदर्धं परिकीर्तितम् शेषाणामपि पापानां जपेत्पञ्चसहस्रकम्
आत्मबोधपरं गुह्यं शिवबोधप्रकाशकम् शिवः स्यात्स जपेन्मन्त्रं पञ्चलक्षम् अनाकुलः
पञ्चवायुजयं भद्रे प्राप्नोति मनुजः सुखम् जपेच्च पञ्चलक्षं तु विगृहीतेन्द्रियः शुचिः
पञ्चेन्द्रियाणां विजयो भविष्यति वरानने ध्यानयुक्तो जपेद्यस्तु पञ्चलक्षमनाकुलः
विषयाणां च पञ्चानां जयं प्राप्नोति मानवः चतुर्थं पञ्चलक्षं तु यो जपेद्भक्तिसंयुतः
भूतानामिह पञ्चानां विजयं मनुजो लभेत् चतुर्लक्षं जपेद्यस्तु मनः संयम्य यत्नतः
सम्यग्विजयमाप्नोति करणानां वरानने पञ्चविंशतिलक्षाणां जपेन कमलानने