तस्य क्रोधेन दह्यन्ते आयुःश्रीज्ञानसत्क्रियाः तत्क्रोधं ये करिष्यन्ति तेषां यज्ञाश् च निष्फलाः
जपान्यनियमाश्चैव नात्र कार्या विचारणा गुरोर्विरुद्धं यद्वाक्यं न वदेत्सर्वयत्नतः
वदेद् यदि महामोहाद् रौरवं नरकं व्रजेत् चित्तेनैव च वित्तेन तथा वाचा च सुव्रताः
मिथ्या न कारयेद्देवि क्रियया च गुरोः सदा दुर्गुणे ख्यापिते तस्य नैर्गुण्यशतभाग्भवेत्
गुणे तु ख्यापिते तस्य सार्वगुण्यफलं भवेत् गुरोर्हितं प्रियं कुर्याद् आदिष्टो वा न वा सदा
असमक्षं समक्षं वा गुरोः कार्यं समाचरेत् गुरोर्हितं प्रियं कुर्यान् मनोवाक्कायकर्मभिः
कुर्वन्पतत्यधो गत्वा तत्रैव परिवर्तते तस्मात्स सर्वदोपास्यो वन्दनीयश् च सर्वदा
समीपस्थो ऽप्यनुज्ञाप्य वदेत्तद्विमुखो गुरुम् एवमाचारवान् भक्तो नित्यं जपपरायणः
गुरुप्रियकरो मन्त्रं विनियोक्तुं ततो ऽर्हति विनियोगं प्रवक्ष्यामि सिद्धमन्त्रप्रयोजनम्
दौर्बल्यं याति तन्मन्त्रं विनियोगमजानतः यस्य येन वियुञ्जीत कार्येण तु विशेषतः
विनियोगः स विज्ञेय ऐहिकामुष्मिकं फलम् विनियोगजमायुष्यम् आरोग्यं तनुनित्यता
राज्यैश्वर्यं च विज्ञानं स्वर्गो निर्वाण एव च प्रोक्षणं चाभिषेकं च अघमर्षणमेव च
स्नाने च संध्ययोश्चैव कुर्यादेकादशेन वै शुचिः पर्वतमारुह्य जपेल्लक्षमतन्द्रितः
महानद्यां द्विलक्षं तु दीर्घमायुरवाप्नुयात् दूर्वाङ्कुरास्तिला वाणी गुडूची घुटिका तथा
तेषां तु दशसाहस्रं होममायुष्यवर्धनम् अश्वत्थवृक्षमाश्रित्य जपेल्लक्षद्वयं सुधीः
शनैश्चरदिने स्पृष्ट्वा दीर्घायुष्यं लभेन्नरः शनैश्चरदिने ऽश्वत्थं पाणिभ्यां संस्पृशेत्सुधीः
जपेदष्टोत्तरशतं सोममृत्युहरो भवेत् आदित्याभिमुखो भूत्वा जपेल्लक्षमनन्यधीः
अर्कैरष्टशतं जप्त्वा जुह्वन्व्याधेर्विमुच्यते समस्तव्याधिशान्त्यर्थं पलाशसमिधैर् नरः
हुत्वा दशसहस्रं तु निरोगी मनुजो भवेत् नित्यमष्टशतं जप्त्वा पिबेद् अम्भो ऽर्कसन्निधौ
औदर्यैर्व्याधिभिः सर्वैर् मासेनैकेन मुच्यते एकादशेन भुञ्जीयाद् अन्नं चैवाभिमन्त्रितम्
भक्ष्यं चान्यत्तथा पेयं विषमप्यमृतं भवेत् जपेल् लक्षं तु पूर्वाह्णे हुत्वा चाष्टशतेन वै
सूर्यं नित्यमुपस्थाय सम्यगारोग्यमाप्नुयात् नदीतोयेन सम्पूर्णं घटं संस्पृश्य शोभनम्
जप्त्वायुतं च तत्स्नानाद् रोगाणां भेषजं भवेत् अष्टाविंशज्जपित्वान्नम् अश्नीयाद् अन्वहं शुचिः
हुत्वा च तावत्पालाशैर् एवं वारोग्यम् अश्नुते चन्द्रसूर्यग्रहे पूर्वम् उपोष्य विधिना शुचिः
यावद्ग्रहणमोक्षं तु तावन्नद्यां समाहितः जपेत्समुद्रगामिन्यां विमोक्षे ग्रहणस्य तु
अष्टोत्तरसहस्रेण पिबेद्ब्राह्मीरसं द्विजाः ऐहिकां लभते मेधां सर्वशास्त्रधरां शुभाम्
सारस्वती भवेद्देवी तस्य वागतिमानुषी ग्रहनक्षत्रपीडासु जपेद्भक्त्यायुतं नरः
हुत्वा चाष्टसहस्रं तु ग्रहपीडां व्यपोहति दुःस्वप्नदर्शने स्नात्वा जपेद्वै चायुतं नरः
घृतेनाष्टशतं हुत्वा सद्यः शान्तिर्भविष्यति चन्द्रसूर्यग्रहे लिङ्गं समभ्यर्च्य यथाविधि
यत् किंचित् प्रार्थयेद् देवि जपेदयुतमादरात् संनिधावस्य देवस्य शुचिः संयतमानसः