जपेन भोगान् जयते च मृत्युं जपेन सिद्धिं लभते च मुक्तिम्
एवं लब्ध्वा शिवं ज्ञानं ज्ञात्वा जपविधिक्रमम्
सदाचारी जपन्नित्यं ध्यायन् भद्रं समश्नुते सदाचारं प्रवक्ष्यामि सम्यग्धर्मस्य साधनम्
यस्मादाचारहीनस्य साधनं निष्फलं भवेत् आचारः परमो धर्म आचारः परमं तपः
आचारः परमा विद्या आचारः परमा गतिः सदाचारवतां पुंसां सर्वत्राप्यभयं भवेत्
तद्वदाचारहीनानां सर्वत्रैव भयं भवेत् सदाचारेण देवत्वम् ऋषित्वं च वरानने
उपयान्ति कुयोनित्वं तद्वद् आचारलङ्घनात् आचारहीनः पुरुषो लोके भवति निन्दितः
तस्मात्संसिद्धिमन्विच्छन् सम्यगाचारवान् भवेत् दुर्वृत्तः शुद्धिभूयिष्ठः पापीयान् ज्ञानदूषकः
वर्णाश्रमविधानोक्तं धर्मं कुर्वीत यत्नतः
यस्य यद्विहितं कर्म तत्कुर्वन्मत्प्रियः सदा संध्योपासनशीलः स्यात् सायं प्रातः प्रसन्नधीः
उदयास्तमयात्पूर्वम् आरम्य विधिना शुचिः कामान्मोहाद्भयाल्लोभात् संध्यां नातिक्रमेद्द्विजः
संध्यातिक्रमणाद्विप्रो ब्राह्मण्यात्पतते यतः असत्यं न वदेत् किंचिन् न सत्यं च परित्यजेत्
यत्सत्यं ब्रह्म इत्याहुर् असत्यं ब्रह्मदूषणम् अनृतं परुषं शाठ्यं पैशुन्यं पापहेतुकम्
परदारान्परद्रव्यं परहिंसां च सर्वदा क्वचिच्चापि न कुर्वीत वाचा च मनसा तथा
शूद्रान्नं यातयामान्नं नैवेद्यं श्राद्धमेव च गणान्नं समुदायान्नं राजान्नं च विवर्जयेत्
अन्नशुद्धौ सत्त्वशुद्धिर् न मृदा न जलेन वै सत्त्वशुद्धौ भवेत्सिद्धिस् ततो ऽन्नं परिशोधयेत्
राजप्रतिग्रहैर् दग्धान् ब्राह्मणान् ब्रह्मवादिनः स्विन्नानामपि बीजानां पुनर्जन्म न विद्यते
राजप्रतिग्रहो घोरो बुद्ध्वा चादौ विषोपमः बुधेन परिहर्तव्यः श्वमांसं चापि वर्जयेत्
अस्नात्वा न च भुञ्जीयाद् अजपो ऽग्निमपूज्य च पर्णपृष्ठे न भुञ्जीयाद् रात्रौ दीपं विना तथा
भिन्नभाण्डे च रथ्यायां पतितानां च संनिधौ शूद्रशेषं न भुञ्जीयात् सहान्नं शिशुकैरपि
शुद्धान्नं स्निग्धम् अश्नीयात् संस्कृतं चाभिमन्त्रितम् भोक्ता शिव इति स्मृत्वा मौनी चैकाग्रमानसः
आस्येन न पिबेत्तोयं तिष्ठन्नञ्जलिनापि वा वामहस्तेन शय्यायां तथैवान्यंकरेण वा
विभीतकार्ककारञ्जस्नुहिच्छायां न चाश्रयेत् स्तंभदीपमनुष्याणाम् अन्येषां प्राणिनां तथा
एको न गच्छेदध्वानं बाहुभ्यां नोत्तरेन्नदीम् नावरोहेत कूपादिं नारोहेदुच्चपादपान्
सूर्याग्निजलदेवानां गुरूणां विमुखः शुभे न कुर्यादिह कार्याणि जपकर्म शुभानि वा
अग्नौ न तापयेत्पादौ हस्तं पद्भ्यां न संस्पृशेत् अग्नेर्नोच्छ्रयम् आसीत नाग्नौ किंचिन् मलं त्यजेत्
न जलं ताडयेत्पद्भ्यां नांभस्यङ्गमलं त्यजेत् मलं प्रक्षालयेत् तीरे प्रक्षाल्य स्नानमाचरेत्
नखाग्रकेशनिर्धूतस्नानवस्त्रघटोदकम् अश्रीकरं मनुष्याणाम् अशुद्धं संस्पृशेद्यदि
अजाश्वानखुरोष्ट्राणां मार्जनात् तुषरेणुकान् संस्पृशेद् यदि मूढात्मा श्रियं हन्ति हरेरपि
मार्जारश् च गृहे यस्य सो ऽप्यन्त्यजसमो नरः भोजयेद्यस्तु विप्रेन्द्रान् मार्जारसंनिधौ यदि