अनुगृह्य ततो दद्याच् छिवज्ञानम् अनुत्तमम् स्वरेणोच्चारयेत् सम्यग् एकान्ते ऽपि प्रसन्नधीः
उच्चार्योच्चारयित्वा तु आचार्यः सिद्धिदः स्वयम् शिवं चास्तु शुभं चास्तु शोभनो ऽस्तु प्रियो ऽस्त्विति
एवं लब्ध्वा परं मन्त्रं ज्ञानं चैव गुरोस्ततः जपेन्नित्यं ससंकल्पं पुरश्चरणमेव च
यावज्जीवं जपेन्नित्यम् अष्टोत्तरसहस्रकम् अनश्नंस्तत्परो भूत्वा स याति परमां गतिम्
जपेदक्षरलक्षं वै चतुर्गुणितमादरात् नक्ताशी संयमी यश् च पौरश्चरणिकः स्मृतः
पुरश्चरणजापी वा अपि वा नित्यजापकः अचिरात्सिद्धिकाङ्क्षी तु तयोरन्यतरो भवेत्
यः पुरश्चरणं कृत्वा नित्यजापी भवेन्नरः तस्य नास्ति समो लोके स सिद्धः सिद्धिदो वशी
आसनं रुचिरं बद्ध्वा मौनी चैकाग्रमानसः प्राङ्मुखोदङ्मुखो वापि जपेन्मन्त्रमनुत्तमम्
आद्यान्तयोर् जपस्यापि कुर्याद्वै प्राणसंयमान् तथा चान्ते जपेद्बीजं शतमष्टोत्तरं शुभम्
चत्वारिंशत्समावृत्ति प्राणानायम्य संस्मरेत् पञ्चाक्षरस्य मन्त्रस्य प्राणायाम उदाहृतः
प्राणायामाद्भवेत्क्षिप्रं सर्वपापपरिक्षयः इन्द्रियाणां वशित्वं च तस्मात्प्राणांश् च संयमेत्
गृहे जपः समं विद्याद् गोष्ठे शतगुणं भवेत् नद्यां शतसहस्रं तु अनन्तः शिवसन्निधौ
समुद्रतीरे देवह्रदे गिरौ देवालयेषु च पुण्याश्रमेषु सर्वेषु जपः कोटिगुणो भवेत्
शिवस्य संनिधाने च सूर्यस्याग्रे गुरोरपि दीपस्य गोर्जलस्यापि जपकर्म प्रशस्यते
अङ्गुलीजपसंख्यानम् एकमेकं शुभानने रेखैरष्टगुणं प्रोक्तं पुत्रजीवफलैर् दश
शतं वै शङ्खमणिभिः प्रवालैश् च सहस्रकम् स्फाटिकैर् दशसाहस्रं मौक्तिकैर्लक्षमुच्यते
पद्माक्षैर्दशलक्षं तु सौवर्णैः कोटिरुच्यते कुशग्रन्थ्या च रुद्राक्षैर् अनन्तगुणमुच्यते
पञ्चविंशति मोक्षार्थं सप्तविंशति पौष्टिकम् त्रिंशच्च धनसंपत्त्यै पञ्चाशच्चाभिचारिकम्
तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम् पश्चिमं धनदं विद्याद् उत्तरं शान्तिकं भवेत्
अङ्गुष्ठं मोक्षदं विद्यात् तर्जनी शत्रुनाशनी मध्यमा धनदा शान्तिं करोत्येषा ह्य् अनामिका
कनिष्ठा रक्षणीया सा जपकर्मणि शोभने अङ्गुष्ठेन जपेज्जप्यम् अन्यैरङ्गुलिभिः सह
अङ्गुष्ठेन विना कर्म कृतं तदफलं यतः शृणुष्व सर्वयज्ञेभ्यो जपयज्ञो विशिष्यते
हिंसया ते प्रवर्तन्ते जपयज्ञो न हिंसया यावन्तः कर्मयज्ञाः स्युः प्रदानानि तपांसि च
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् माहात्म्यं वाचिकस्यैव जपयज्ञस्य कीर्तितम्
तस्माच्छतगुणोपांशुः सहस्रो मानसः स्मृतः यद् उच्चनीचस्वरितैः शब्दैः स्पष्टपदाक्षरैः
मन्त्रमुच्चारयेद्वाचा जपयज्ञः स वाचिकः शनैरुच्चारयेन्मन्त्रम् ईषद् ओष्ठौ तु चालयेत्
किंचित् कर्णान्तरं विद्याद् उपांशुः स जपः स्मृतः धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम्
शब्दार्थं चिन्तयेद्भूयः स तूक्तो मानसो जपः त्रयाणां जपयज्ञानां श्रेयान् स्यादुत्तरोत्तरः
भवेद्यज्ञविशेषेण वैशिष्ट्यं तत्फलस्य च जपेन देवता नित्यं स्तूयमाना प्रसीदति
प्रसन्ना विपुलान् भोगान् दद्यान्मुक्तिं च शाश्वतीम् यक्षरक्षःपिशाचाश् च ग्रहाः सर्वे च भीषणाः जापिनं नोपसर्पन्ति भयभीताः समन्ततः