वाच्यवाचकभावो ऽयम् अनादिः संस्थितस्तयोः वेदे शिवागमे वापि यत्र यत्र षडक्षरः
मन्त्रः स्थितः सदा मुख्यो लोके पञ्चाक्षरो मतः किं तस्य बहुभिर् मन्त्रैः शास्त्रैर्वा बहुविस्तृतैः
यस्यैवं हृदि संस्थो ऽयं मन्त्रः स्यात्पारमेश्वरः तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम्
यो विद्वान्वै जपेत्सम्यग् अधीत्यैव विधानतः एतावद्धि शिवज्ञानम् एतावत्परमं पदम्
एतावद् ब्रह्मविद्या च तस्मान्नित्यं जपेद्बुधः पञ्चाक्षरैः सप्रणवो मन्त्रो ऽयं हृदयं मम
गुह्याद्गुह्यतरं साक्षान् मोक्षज्ञानम् अनुत्तमम् अस्य मन्त्रस्य वक्ष्यामि ऋषिच्छन्दो ऽधिदैवतम्
बीजं शक्तिं स्वरं वर्णं स्थानं चैवाक्षरं प्रति वामदेवो नाम ऋषिः पङ्क्तिश्छन्द उदाहृतः
देवता शिव एवाहं मन्त्रस्यास्य वरानने नकारादीनि बीजानि पञ्चभूतात्मकानि च
आत्मानं प्रणवं विद्धि सर्वव्यापिनमव्ययम् शक्तिस्त्वमेव देवेशि सर्वदेवनमस्कृते
त्वदीयं प्रणवं किंचिन् मदीयं प्रणवं तथा त्वदीयं देवि मन्त्राणां शक्तिभूतं न संशयः
अकारोकारमकारा मदीये प्रणवे स्थिताः उकारं च मकारं च अकारं च क्रमेण वै
त्वदीयं प्रणवं विद्धि त्रिमात्रं प्लुतमुत्तमम् ओङ्कारस्य स्वरोदात्त ऋषिर्ब्रह्म सितं वपुः
छन्दो देवी च गायत्री परमात्माधिदेवता उदात्तः प्रथमस्तद्वच् चतुर्थश् च द्वितीयकः
पञ्चमः स्वरितश्चैव मध्यमो निषधः स्मृताः नकारः पीतवर्णश् च स्थानं पूर्वमुखं स्मृतम्
इन्द्रो ऽधिदैवतं छन्दो गायत्री गौतम ऋषिः मकारः कृष्णवर्णो ऽस्य स्थानं वै दक्षिणामुखम्
छन्दो ऽनुष्टुप् ऋषिश्चात्री रुद्रो दैवतमुच्यते शिकारो धूम्रवर्णो ऽस्य स्थानं वै पश्चिमं मुखम्
विश्वामित्र ऋषिस्त्रिष्टुप् छन्दो विष्णुस्तु दैवतम् वाकारो हेमवर्णो ऽस्य स्थानं चैवोत्तरं मुखम्
ब्रह्माधिदैवतं छन्दो बृहती चाङ्गिरा ऋषिः यकारो रक्तवर्णश् च स्थानम् ऊर्ध्वं मुखं विराट्
छन्द ऋषिर्भरद्वाजः स्कन्दो दैवतमुच्यते न्यासमस्य प्रवक्ष्यामि सर्वसिद्धिकरं शुभम्
सर्वपापहरं चैव त्रिविधो न्यास उच्यते उत्पत्तिस्थितिसंहारभेदतस्त्रिविधः स्मृतः
ब्रह्मचारिगृहस्थानां यतीनां क्रमशो भवेत् उत्पत्तिर्ब्रह्मचारिणां गृहस्थानां स्थितिः सदा
यतीनां संहृतिर् न्यासः सिद्धिर् भवति नान्यथा अङ्गन्यासः करन्यासो देहन्यास इति त्रिधा
उत्पत्त्यादित्रिभेदेन वक्ष्यते ते वरानने न्यसेत्पूर्वं करन्यासं देहन्यासम् अनन्तरम्
अङ्गन्यासं ततः पश्चाद् अक्षराणां विधिक्रमात् मूर्धादिपादपर्यन्तम् उत्पत्तिन्यास उच्यते
पादादिमूर्धपर्यन्तं संहारो भवति प्रिये हृदयास्यगलन्यासः स्थितिन्यास उदाहृतः
ब्रह्मचारिगृहस्थानां यतीनां चैव शोभने सशिरस्कं ततो देहं सर्वमन्त्रेण संस्पृशेत्
स देहन्यास इत्युक्तः सर्वेषां सम एव स दक्षिणाङ्गुष्ठमारभ्य वामाङ्गुष्ठान्त एव हि
न्यस्यते यत्तदुत्पत्तिर् विपरीतं तु संहृतिः अङ्गुष्ठादिकनिष्ठान्तं न्यस्यते हस्तयोर् द्वयोः
अतीव भोगदो देवि स्थितिन्यासः कुटुंबिनाम् करन्यासं पुरा कृत्वा देहन्यासम् अनन्तरम्
अङ्गन्यासं न्यसेत्पश्चाद् एष साधारणो विधिः ओङ्कारं संपुटीकृत्य सर्वाङ्गेषु च विन्यसेत्