तस्य प्रसादाद्धर्मश् च ऐश्वर्यं ज्ञानमेव च वैराग्यमपवर्गश् च नात्र कार्या विचारणा
न शक्यो विस्तरो वक्तुं वर्षाणामयुतैरपि योगे पाशुपते निष्ठा स्थातव्यं च मुनीश्वराः
सतां जितात्मनां साक्षाद् द्विजातीनां द्विजोत्तमाः धर्मज्ञानां च साधूनाम् आचार्याणां शिवात्मनाम्
दयावतां द्विजश्रेष्ठास् तथा चैव तपस्विनाम् संन्यासिनां विरक्तानां ज्ञानिनां वशगात्मनाम्
दानिनां चैव दान्तानां त्रयाणां सत्यवादिनाम् अलुब्धानां सयोगानां श्रुतिस्मृतिविदां द्विजाः
श्रौतस्मार्ताविरुद्धानां प्रसीदति महेश्वरः सदिति ब्रह्मणः शब्दस् तदन्ते ये लभन्त्युत
सायुज्यं ब्रह्मणो याति तेन सन्तः प्रचक्षते दशात्मके ये विषये साधने चाष्टलक्षणे
न क्रुध्यन्ति न हृष्यन्ति जितात्मानस्तु ते स्मृताः सामान्येषु च द्रव्येषु तथा वैशेषिकेषु च
ब्रह्मक्षत्रविशो यस्माद् युक्तास्तस्माद्द्विजातयः वर्णाश्रमेषु युक्तस्य स्वर्गादिसुखकारिणः
श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मज्ञ उच्यते विद्यायाः साधनात्साधुब्रह्मचारी गुरोर्हितः
क्रियाणां साधनाच्चैव गृहस्थः साधुरुच्यते साधनात्तपसो ऽरण्ये साधुर्वैखानसः स्मृतः
यतमानो यतिः साधुः स्मृतो योगस्य साधनात् एवमाश्रमधर्माणां साधनात्साधवः स्मृताः
गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस् तथा धर्माधर्माविह प्रोक्तौ शब्दावेतौ क्रियात्मकौ
कुशलाकुशलं कर्म धर्माधर्माविति स्मृतौ धारणार्थे महान् ह्य् एष धर्मशब्दः प्रकीर्तितः
अधारणे महत्त्वे च अधर्म इति चोच्यते अत्रेष्टप्रापको धर्म आचार्यैरुपदिश्यते
अधर्मश्चानिष्टफलो ह्य् आचार्यैरुपदिश्यते वृद्धाश्चालोलुपाश्चैव आत्मवन्तो ह्यदाम्भिकाः
सम्यग्विनीता ऋजवस् तानाचार्यान् प्रचक्षते स्वयमाचरते यस्माद् आचारे स्थापयत्यपि
आचिनोति च शास्त्रार्थान् आचार्यस्तेन चोच्यते विज्ञेयं श्रवणाच्छ्रौतं स्मरणात्स्मार्तमुच्यते
इज्या वेदात्मकं श्रौतं स्मार्तं वर्णाश्रमात्मकम् दृष्ट्वानुरूपमर्थं यः पृष्टो नैवापि गूहति
यथादृष्टप्रवादस्तु सत्यं लैङ्गे ऽत्र पठ्यते ब्रह्मचर्यं तथा मौनं निराहारत्वमेव च
अहिंसा सर्वतः शान्तिस् तप इत्यभिधीयते आत्मवत् सर्वभूतेषु यो हितायाहिताय च
वर्तते त्वसकृद्वृत्तिः कृत्स्ना ह्येषा दया स्मृता यद्यदिष्टतमं द्रव्यं न्यायेनैवागतं क्रमात्
तत्तद्गुणवते देयं दातुस्तद्दानलक्षणम् दानं त्रिविधमित्येतत् कनिष्ठज्येष्ठमध्यमम्
कारुण्यात्सर्वभूतेभ्यः संविभागस्तु मध्यमः श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः
शिष्टाचाराविरुद्धश् च स धर्मः साधुरुच्यते मायाकर्मफलत्यागी शिवात्मा परिकीर्तितः
निवृत्तः सर्वसङ्गेभ्यो युक्तो योगी प्रकीर्तितः असक्तो भयतो यस्तु विषयेषु विचार्य च
अलुब्धः संयमी प्रोक्तः प्रार्थितो ऽपि समन्ततः आत्मार्थं वा परार्थं वा इन्द्रियाणीह यस्य वै
न मिथ्या सम्प्रवर्तन्ते शमस्यैव तु लक्षणम् अनुद्विग्नो ह्यनिष्टेषु तथेष्टान्नाभिनन्दति
प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता संन्यासः कर्मणां न्यासः कृतानामकृतैः सह
कुशलाकुशलानां तु प्रहाणं न्यास उच्यते अव्यक्ताद्यविशेषान्ते विकारे ऽस्मिन्नचेतने