हेमताम्रादिभिश्चैव प्रतिष्ठाप्य विधानतः देवं च कृत्वा देवेशं सर्वलक्षणसंयुतम्
तयोरग्रे हुताशं च स्रुवहस्तं पितामहम् नारायणं च दातारं सर्वाभरणभूषितम्
लोकपालैस् तथा सिद्धैः संवृतं स्थाप्य यत्नतः रुद्रालये व्रतं तस्मै दापयेद्भक्तिपूर्वकम्
सा भवान्यास्तनुं गत्वा भवेन सह मोदते एकभक्तव्रतं पुण्यं प्रतिमासमनुक्रमात्
मार्गशीर्षकमासादिकार्तिकान्तं प्रवर्तितम् नरनार्यादिजन्तूनां हिताय मुनिसत्तमाः
नरः कृत्वा व्रतं चैव शिवसायुज्यमाप्नुयात् नारी देव्या न संदेहः शिवेन परिभाषितम्
सर्वव्रतेषु सम्पूज्य देवदेवमुमापतिम् जपेत्पञ्चाक्षरीं विद्यां विधिनैव द्विजोत्तमाः
जपादेव न संदेहो व्रतानां वै विशेषतः समाप्तिर्नान्यथा तस्माज् जपेत्पञ्चाक्षरीं शुभाम्
कथं पञ्चाक्षरी विद्या प्रभावो वा कथं वद क्रमोपायं महाभाग श्रोतुं कौतूहलं हि नः
पुरा देवेन रुद्रेण देवदेवेन शंभुना पार्वत्याः कथितं पुण्यं प्रवदामि समासतः
भगवन्देवदेवेश सर्वलोकमहेश्वर पञ्चाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः
पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि न शक्यं कथितुं देवि तस्मात् संक्षेपतः शृणु
प्रलये समनुप्राप्ते नष्टे स्थावरजङ्गमे नष्टे देवासुरे चैव नष्टे चोरगराक्षसे
सर्वं प्रकृतिमापन्नं त्वया प्रलयमेष्यति एको ऽहं संस्थितो देवि न द्वितीयो ऽस्ति कुत्रचित्
तस्मिन्वेदाश् च शास्त्राणि मन्त्रे पञ्चाक्षरे स्थिताः ते नाशं नैव सम्प्राप्ता मच्छक्त्या ह्यनुपालिताः
अहमेको द्विधाप्यासं प्रकृत्यात्मप्रभेदतः स तु नारायणः शेते देवो मायामयीं तनुम्
आस्थाय योगपर्यङ्कशयने तोयमध्यगः तन्नाभिपङ्कजाज्जातः पञ्चवक्त्रः पितामहः
सिसृक्षमाणो लोकान्वै त्रीनशक्तो ऽसहायवान् दश ब्रह्मा ससर्जादौ मानसानमितौजसः
तेषां सृष्टिप्रसिद्ध्यर्थं मां प्रोवाच पितामहः मत्पुत्राणां महादेव शक्तिं देहि महेश्वर
इति तेन समादिष्टः पञ्चवक्त्रधरो ह्यहम् पञ्चाक्षरान्पञ्चमुखैः प्रोक्तवान् पद्मयोनये
तान्पञ्चवदनैर्गृह्णन् ब्रह्मा लोकपितामहः वाच्यवाचकभावेन ज्ञातवान्परमेश्वरम्
वाच्यः पञ्चाक्षरैर्देवि शिवस्त्रैलोक्यपूजितः वाचकः परमो मन्त्रस् तस्य पञ्चाक्षरः स्थितः
ज्ञात्वा प्रयोगं विधिना च सिद्धिं लब्ध्वा तथा पञ्चमुखो महात्मा प्रोवाच पुत्रेषु जगद्धिताय मन्त्रं महार्थं किल पञ्चवर्णम्
ते लब्ध्वा मन्त्ररत्नं तु साक्षाल्लोकपितामहात् तमाराधयितुं देवं परात्परतरं शिवम्
ततस्तुतोष भगवान् त्रिमूर्तीनां परः शिवः दत्तवानखिलं ज्ञानम् अणिमादिगुणाष्टकम्
ते ऽपि लब्ध्वा वरान्विप्रास् तदाराधनकाङ्क्षिणः मेरोस्तु शिखरे रम्ये मुञ्जवान्नाम पर्वतः
मत्प्रियः सततं श्रीमान् मद्भूतैः परिरक्षितः तस्याभ्याशे तपस्तीव्रं लोकसृष्टिसमुत्सुकाः
दिव्यवर्षसहस्रं तु वायुभक्षाः समाचरन् तिष्ठन्तो ऽनुग्रहार्थाय देवि ते ऋषयः पुरा
तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् पञ्चाक्षरम् ऋषिच्छन्दो दैवतं शक्तिबीजवत्
न्यासं षडङ्गं दिग्बन्धं विनियोगमशेषतः प्रोक्तवानहमार्याणां लोकानां हितकाम्यया