नीलस्कन्धं वृषं गां च दत्त्वा भक्त्या यथाविधि ब्राह्मणान् भोजयित्वा च वेदवेदाङ्गपारगान्
यक्षलोकमनुप्राप्य यक्षराजो भवेन्नरः ततश्चाश्वयुजे मासि कृत्वैवं नक्तभोजनम्
सघृतं शङ्करं पूज्य पौर्णमास्यां च पूर्ववत् ब्राह्मणान् भोजयित्वा च शिवभक्तान् सदा शुचीन्
वृषभं नीलवर्णाभम् उरोदेशसमुन्नतम् गां च दत्त्वा यथान्यायम् ऐशानं लोकमाप्नुयात्
कार्तिके च तथा मासे कृत्वा वै नक्तभोजनम् क्षीरौदनेन साज्येन सम्पूज्य च भवं प्रभुम्
पौर्णमास्यां च विधिवत् स्नाप्य दत्त्वा चरुं पुनः ब्राह्मणान् भोजयित्वा च यथाविभवविस्तरम्
दत्त्वा गोमिथुनं चैव कापिलं पूर्ववद् द्विजाः सूर्यसायुज्यमाप्नोति नात्र कार्या विचारणा
मार्गशीर्षे च मासे ऽपि कृत्वैवं नक्तभोजनम् यवान्नेन यथान्यायम् आज्यक्षीरादिभिः समम्
पौर्णमास्यां च पूर्वोक्तं कृत्वा शर्वाय शंभवे ब्राह्मणान् भोजयित्वा च दरिद्रान्वेदपारगान्
दत्त्वा गोमिथुनं चैव पाण्डुरं विधिपूर्वकम् सोमलोकमनुप्राप्य सोमेन सह मोदते
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा दया त्रिःस्नानं चाग्निहोत्रं च भूशय्या नक्तभोजनम्
पक्षयोरुपवासं च चतुर्दश्यष्टमीषु च
इत्येतदखिलं प्रोक्तं प्रतिमासं शिवव्रतम्
कुर्याद्वर्षं क्रमेणैव व्युत्क्रमेणापि वा द्विजाः स याति शिवसायुज्यं ज्ञानयोगमवाप्नुयात्
उमामहेश्वरं वक्ष्ये व्रतमीश्वरभाषितम् नरनार्यादिजन्तूनां हिताय मुनिसत्तमाः
पौर्णमास्याममावास्यां चतुर्दश्यष्टमीषु च नक्तमब्दं प्रकुर्वीत हविष्यं पूजयेद्भवम्
उमामहेशप्रतिमां हेम्ना कृत्वा सुशोभनाम् राजतीं वाथ वर्षान्ते प्रतिष्ठाप्य यथाविधि
ब्राह्मणान् भोजयित्वा च दत्त्वा शक्त्या च दक्षिणाम् रथाद्यैर्वापि देवेशं नीत्वा रुद्रालयं प्रति
सर्वातिशयसंयुक्तैश् छत्रचामरभूषणैः निवेदयेद्व्रतं चैव शिवाय परमेष्ठिने
स याति शिवसायुज्यं नारी देव्या यदि प्रभो अष्टम्यां च चतुर्दश्यां नियता ब्रह्मचारिणी
वर्षमेकं न भुञ्जति कन्या वा विधवापि वा वर्षान्ते प्रतिमां कृत्वा पूर्वोक्तविधिना ततः
प्रतिष्ठाप्य यथान्यायं दत्त्वा रुद्रालये पुनः ब्राह्मणान् भोजयित्वा च भवान्या सह मोदते
या नार्येवं चरेदब्दं कृष्णामेकां चतुर्दशीम् वर्षान्ते प्रतिमां कृत्वा येन केनापि वा द्विजाः
पूर्वोक्तमखिलं कृत्वा भवान्या सह मोदते अमावास्यां निराहारा भवेदब्दं सुयन्त्रिता
शूलं च विधिना कृत्वा वर्षान्ते विनिवेदयेत् स्नाप्येशानं यजेद्भक्त्या सहस्रैः कमलैः सितैः
राजतं कमलं चैव जांबूनदसुकर्णिकम् दत्त्वा भवाय विप्रेभ्यः प्रदद्याद् दक्षिणाम् अपि
कामतो ऽपि कृतं पापं भ्रूणहत्यादिकं च यत् तत्सर्वं शूलदानेन भिन्द्यान्नारी न संशयः
सायुज्यं चैवमाप्नोति भवान्या द्विजसत्तमाः कुर्याद्यद्वा नरः सो ऽपि रुद्रसायुज्यमाप्नुयात्
पौर्णमास्याममावास्यां वर्षमेकमतन्द्रिता उपवासरता नारी नरो ऽपि द्विजसत्तमाः
नियोगादेव तत्कार्यं भर्तॄणां द्विजसत्तमाः जपं दानं तपः सर्वम् अस्वतन्त्रा यतः स्त्रियः