सर्ववेलामतिक्रम्य नक्तभोजनमुत्तमम् हविष्यभोजनं स्नानं सत्यमाहारलाघवम्
अग्निकार्यमधःशय्यां नक्तभोजी समाचरेत् प्रतिमासं प्रवक्ष्यामि शिवव्रतमनुत्तमम्
धर्मकामार्थमोक्षार्थं सर्वपापविशुद्धये पुष्यमासे च सम्पूज्य यः कुर्यान्नक्तभोजनम्
सत्यवादी जितक्रोधः शालिगोधूमगोरसैः पक्षयोरष्टमीं यत्नाद् उपवासेन वर्तयेत्
भूमिशय्यां च मासान्ते पौर्णमास्यां घृतादिभिः स्नाप्य रुद्रं महादेवं सम्पूज्य विधिपूर्वकम्
यावकं चौदनं दत्त्वा सक्षीरं सघृतं द्विजाः भोजयेद् ब्राह्मणाञ्शिष्टाञ् जपेच्छान्तिं विशेषतः
तथा गोमिथुनं चैव कपिलं विनिवेदयेत् भवाय देवदेवाय शिवाय परमेष्ठिने
स याति मुनिशार्दूल वाह्नेयं लोकमुत्तमम् भुक्त्वा स विपुलान् लोकान् तत्रैव स विमुच्यते
माघमासे तु सम्पूज्य यः कुर्यान् नक्तभोजनम् कृशरं घृतसंयुक्तं भुञ्जानः संयतेन्द्रियः
सोपवासं चतुर्दश्यां भवेदुभयपक्षयोः रुद्राय पौर्णमास्यां तु दद्याद्वै घृतकम्बलम्
कृष्णं गोमिथुनं दद्यात् पूजयेच्चैव शंकरम् भोजयेद्ब्राह्मणांश्चैव यथाविभवविस्तरम्
याम्यमासाद्य वै लोकं यमेन सह मोदते फाल्गुने चैव सम्प्राप्ते कुर्याद्वै नक्तभोजनम्
श्यामाकान्नघृतक्षीरैर् जितक्रोधो जितेन्द्रियः चतुर्दश्यामथाष्टम्याम् उपवासं च कारयेत्
पौर्णमास्यां महादेवं स्नाप्य सम्पूज्य शङ्करम् दद्याद्गोमिथुनं वापि ताम्राभं शूलपाणये
ब्राह्मणान् भोजयित्वा तु प्रार्थयेत्परमेश्वरम् स याति चन्द्रसायुज्यं नात्र कार्या विचारणा
चैत्रे ऽपि रुद्रमभ्यर्च्य कुर्याद्वै नक्तभोजनम् शाल्यन्नं पयसा युक्तं घृतेन च यथासुखम्
गोष्ठशायी मुनिश्रेष्ठाः क्षितौ निशि भवं स्मरेत् पौर्णमास्यां शिवं स्नाप्य दद्याद्गोमिथुनं सितम्
ब्राह्मणान् भोजयेच्चैव निरृतेः स्थानमाप्नुयात् वैशाखे च तथा मासे कृत्वा वै नक्तभोजनम्
पौर्णमास्यां भवं स्नाप्य पञ्चगव्यघृतादिभिः श्वेतं गोमिथुनं दत्त्वा सो ऽश्वमेधफलं लभेत्
ज्येष्ठे मासे च देवेशं भवं शर्वमुमापतिम् सम्पूज्य श्रद्धया भक्त्या कृत्वा वै नक्तभोजनम्
रक्तशाल्यन्नमध्वा च अद्भिः पूतं घृतादिभिः वीरासनो निशार्धं च गवां शुश्रूषणे रतः
पौर्णमास्यां तु सम्पूज्य देवदेवमुमापतिम् स्नाप्य शक्त्या यथान्यायं चरुं दद्याच् च शूलिने
ब्राह्मणान् भोजयित्वा च यथाविभवविस्तरम् धूम्रं गोमिथुनं दत्त्वा वायुलोके महीयते
आषाढे मासि चाप्येवं नक्तभोजनतत्परः भूरिखण्डाज्यसंमिश्रं सक्तुभिश्चैव गोरसम्
पौर्णमास्यां घृताद्यैस्तु स्नाप्य पूज्य यथाविधि ब्राह्मणान् भोजयित्वा च श्रोत्रियान् वेदपारगान्
दद्याद्गोमिथुनं गौरं वारुणं लोकमाप्नुयात् श्रावणे च द्विजा मासे कृत्वा वै नक्तभोजनम्
क्षीरषष्टिकभक्तेन सम्पूज्य वृषभध्वजम् पौर्णमास्यां घृताद्यैस्तु स्नाप्य पूज्य यथाविधि
ब्राह्मणान् भोजयित्वा च श्रोत्रियान् वेदपारगान् श्वेताग्रपादं पौण्ड्रं च दद्याद्गोमिथुनं पुनः
स याति वायुसायुज्यं वायुवत्सर्वगो भवेत् प्राप्ते भाद्रपदे मासे कृत्वैवं नक्तभोजनम्
हुतशेषं च विप्रेन्द्रान् वृक्षमूलाश्रितो दिवा पौर्णमास्यां तु देवेशं स्नाप्य सम्पूज्य शङ्करम्