व्यपोहनस्तवं दिव्यं यः पठेच्छृणुयादपि विधूय सर्वपापानि रुद्रलोके महीयते
कन्यार्थी लभते कन्यां जयकामो जयं लभेत् अर्थकामो लभेदर्थं पुत्रकामो बहून् सुतान्
विद्यार्थी लभते विद्यां भोगार्थी भोगमाप्नुयात् यान्यान्प्रार्थयते कामान् मानवः श्रवणादिह
तान्सर्वान् शीघ्रमाप्नोति देवानां च प्रियो भवेत् पठ्यमानमिदं पुण्यं यमुद्दिश्य तु पठ्यते
तस्य रोगा न बाधन्ते वातपित्तादिसंभवाः नाकाले मरणं तस्य न सर्पैरपि दश्यते
यत्पुण्यं चैव तीर्थानां यज्ञानां चैव यत्फलम् दानानां चैव यत्पुण्यं व्रतानां च विशेषतः
तत्पुण्यं कोटिगुणितं जप्त्वा चाप्नोति मानवः गोघ्नश्चैव कृतघ्नश् च वीरहा ब्रह्महा भवेत्
शरणागतघाती च मित्रविश्वासघातकः दुष्टः पापसमाचारो मातृहा पितृहा तथा
व्यपोह्य सर्वपापानि शिवलोके महीयते
व्यपोहनस्तवं पुण्यं श्रुतमस्माभिर् आदरात् प्रसंगाल्लिङ्गदानस्य व्रतान्यपि वदस्व नः
व्रतानि वः प्रवक्ष्यामि शुभानि मुनिसत्तमाः नन्दिना कथितानीह ब्रह्मपुत्राय धीमते
तानि व्यासादुपश्रुत्य युष्माकं प्रवदाम्यहम् अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि
वर्षमेकं तु भुञ्जानो नक्तं यः पूजयेच्छिवम् सर्वयज्ञफलं प्राप्य स याति परमां गतिम्
पृथिवीं भाजनं कृत्वा भुक्त्वा पर्वसु मानवः अहोरात्रेण चैकेन त्रिरात्रफलमश्नुते
द्वयोर् मासस्य पञ्चम्योर् द्वयोः प्रतिपदोर्नरः क्षीरधाराव्रतं कुर्यात् सो ऽश्वमेधफलं लभेत्
कृष्णाष्टम्यां तु नक्तेन यावत्कृष्णचतुर्दशी भुञ्जन्भोगानवाप्नोति ब्रह्मलोकं च गच्छति
यो ऽब्दमेकं प्रकुर्वीत नक्तं पर्वसु पर्वसु ब्रह्मचारी जितक्रोधः शिवध्यानपरायणः
संवत्सरान्ते विप्रेन्द्रान् भोजयेद्विधिपूर्वकम् स याति शाङ्करं लोकं नात्र कार्या विचारणा
उपवासात् परं भैक्ष्यं भैक्ष्यात् परम् अयाचितम् अयाचितात् परं नक्तं तस्मान् नक्तेन वर्तयेत्
देवैर्भुक्तं तु पूर्वाह्णे मध्याह्ने ऋषिभिस् तथा अपराह्णे च पितृभिः संध्यायां गुह्यकादिभिः
सर्ववेलामतिक्रम्य नक्तभोजनमुत्तमम् हविष्यभोजनं स्नानं सत्यमाहारलाघवम्
अग्निकार्यमधःशय्यां नक्तभोजी समाचरेत् प्रतिमासं प्रवक्ष्यामि शिवव्रतमनुत्तमम्
धर्मकामार्थमोक्षार्थं सर्वपापविशुद्धये पुष्यमासे च सम्पूज्य यः कुर्यान्नक्तभोजनम्
सत्यवादी जितक्रोधः शालिगोधूमगोरसैः पक्षयोरष्टमीं यत्नाद् उपवासेन वर्तयेत्
भूमिशय्यां च मासान्ते पौर्णमास्यां घृतादिभिः स्नाप्य रुद्रं महादेवं सम्पूज्य विधिपूर्वकम्
यावकं चौदनं दत्त्वा सक्षीरं सघृतं द्विजाः भोजयेद् ब्राह्मणाञ्शिष्टाञ् जपेच्छान्तिं विशेषतः
तथा गोमिथुनं चैव कपिलं विनिवेदयेत् भवाय देवदेवाय शिवाय परमेष्ठिने
स याति मुनिशार्दूल वाह्नेयं लोकमुत्तमम् भुक्त्वा स विपुलान् लोकान् तत्रैव स विमुच्यते
माघमासे तु सम्पूज्य यः कुर्यान् नक्तभोजनम् कृशरं घृतसंयुक्तं भुञ्जानः संयतेन्द्रियः
सोपवासं चतुर्दश्यां भवेदुभयपक्षयोः रुद्राय पौर्णमास्यां तु दद्याद्वै घृतकम्बलम्