वेदशास्त्रार्थतत्त्वज्ञः सर्वकार्याभिचिन्तकः समस्तगुणसम्पन्नः सर्वदेवेश्वरात्मजः
ज्येष्ठः सर्वेश्वरः सौम्यो महाविष्णुतनुः स्वयम् आर्यः सेनापतिः साक्षाद् गहनो मखमर्दनः
ऐरावतगजारूढः कृष्णकुञ्चितमूर्धजः कृष्णाङ्गो रक्तनयनः शशिपन्नगभूषणः
भूतैः प्रेतैः पिशाचैश् च कूष्माण्डैश् च समावृतः शिवार्चनरतः साक्षात् स मे पापं व्यपोहतु
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा वाराही चैव माहेन्द्री चामुण्डाग्नेयिका तथा
एता वै मातरः सर्वाः सर्वलोकप्रपूजिताः योगिनीभिर् महापापं व्यपोहन्तु समाहिताः
वीरभद्रो महातेजा हिमकुन्देन्दुसन्निभः रुद्रस्य तनयो रौद्रः शूलासक्तमहाकरः
सहस्रबाहुः सर्वज्ञः सर्वायुधधरः स्वयम् त्रेताग्निनयनो देवस् त्रैलोक्याभयदः प्रभुः
मातॄणां रक्षको नित्यं महावृषभवाहनः त्रैलोक्यनमितः श्रीमान् शिवपादार्चने रतः
यज्ञस्य च शिरश्छेत्ता पूष्णो दन्तविनाशनः वह्नेर्हस्तहरः साक्षाद् भगनेत्रनिपातनः
पादाङ्गुष्ठेन सोमाङ्गपेषकः प्रभुसंज्ञकः उपेन्द्रेन्द्रयमादीनां देवानामङ्गरक्षकः
सरस्वत्या महादेव्या नासिकोष्ठावकर्तनः गणेश्वरो यः सेनानीः स मे पापं व्यपोहतु
ज्येष्ठा वरिष्ठा वरदा वराभरणभूषिता महालक्ष्मीर्जगन्माता सा मे पापं व्यपोहतु
महामोहा महाभागा महाभूतगणैर्वृता शिवार्चनरता नित्यं सा मे पापं व्यपोहतु
लक्ष्मीः सर्वगुणोपेता सर्वलक्षणसंयुता सर्वदा सर्वगा देवी सा मे पापं व्यपोहतु
सिंहारूढा महादेवी पार्वत्यास्तनयाव्यया विष्णोर्निद्रा महामाया वैष्णवी सुरपूजिता
त्रिनेत्रा वरदा देवी महिषासुरमर्दिनी शिवार्चनरता दुर्गा सा मे पापं व्यपोहतु
ब्रह्माण्डधारका रुद्राः सर्वलोकप्रपूजिताः सत्याश् च मानसाः सर्वे व्यपोहन्तु भयं मम
भूताः प्रेताः पिशाचाश् च कूष्माण्डगणनायकाः कूष्माण्डकाश् च ते पापं व्यपोहन्तु समाहिताः
अनेन देवं स्तुत्वा तु चान्ते सर्वं समापयेत् प्रणम्य शिरसा भूमौ प्रतिमासे द्विजोत्तमाः
व्यपोहनस्तवं दिव्यं यः पठेच्छृणुयादपि विधूय सर्वपापानि रुद्रलोके महीयते
कन्यार्थी लभते कन्यां जयकामो जयं लभेत् अर्थकामो लभेदर्थं पुत्रकामो बहून् सुतान्
विद्यार्थी लभते विद्यां भोगार्थी भोगमाप्नुयात् यान्यान्प्रार्थयते कामान् मानवः श्रवणादिह
तान्सर्वान् शीघ्रमाप्नोति देवानां च प्रियो भवेत् पठ्यमानमिदं पुण्यं यमुद्दिश्य तु पठ्यते
तस्य रोगा न बाधन्ते वातपित्तादिसंभवाः नाकाले मरणं तस्य न सर्पैरपि दश्यते
यत्पुण्यं चैव तीर्थानां यज्ञानां चैव यत्फलम् दानानां चैव यत्पुण्यं व्रतानां च विशेषतः
तत्पुण्यं कोटिगुणितं जप्त्वा चाप्नोति मानवः गोघ्नश्चैव कृतघ्नश् च वीरहा ब्रह्महा भवेत्
शरणागतघाती च मित्रविश्वासघातकः दुष्टः पापसमाचारो मातृहा पितृहा तथा
व्यपोह्य सर्वपापानि शिवलोके महीयते
व्यपोहनस्तवं पुण्यं श्रुतमस्माभिर् आदरात् प्रसंगाल्लिङ्गदानस्य व्रतान्यपि वदस्व नः