तथान्याः सर्वलोकेषु दिव्याश्चाप्सरसस् तथा शिवाय ताण्डवं नित्यं कुर्वन्त्यो ऽतीव भाविताः
देव्यः शिवार्चनरता व्यपोहन्तु मलं मम अर्कः सोमो ऽङ्गारकश् च बुधश्चैव बृहस्पतिः
शुक्रः शनैश्चरश्चैव राहुः केतुस्तथैव च व्यपोहन्तु भयं घोरं ग्रहपीडां शिवार्चकाः
मेषो वृषो ऽथ मिथुनस् तथा कर्कटकः शुभः सिंहश् च कन्या विपुला तुला वै वृश्चिकस् तथा
धनुश् च मकरश्चैव कुंभो मीनस्तथैव च राशयो द्वादश ह्येते शिवपूजापरायणाः
व्यपोहन्तु भयं पापं प्रसादात्परमेष्ठिनः अश्विनी भरणी चैव कृत्तिका रोहिणी तथा
श्रीमन्मृगशिरश्चार्द्रा पुनर्वसुपुष्यसार्पकाः मघा वै पूर्वफाल्गुन्य उत्तराफाल्गुनी तथा
हस्तचित्रा तथा स्वाती विशाखा चानुराधिका ज्येष्ठा मूलं महाभागा पूर्वाषाढा तथैव च
उत्तराषाढिका चैव श्रवणं च श्रविष्ठिका शतभिषक् पूर्वभद्रा तथा प्रोष्ठपदा तथा
पौष्णं च देव्यः सततं व्यपोहन्तु मलं मम ज्वरः कुम्भोदरश्चैव शङ्कुकर्णो महाबलः
महाकर्णः प्रभातश् च महाभूतप्रमर्दनः श्येनजिच्छिवदूतश् च प्रमथाः प्रीतिवर्धनाः
कोटिकोटिशतैश्चैव भूतानां मातरः सदा व्यपोहन्तु भयं पापं महादेवप्रसादतः
शिवध्यानैकसम्पन्नो हिमराड् अंबुसन्निभः कुन्देन्दुसदृशाकारः कुंभकुन्देन्दुभूषणः
वडवानलशत्रुर्यो वडवामुखभेदनः चतुष्पादसमायुक्तः क्षीरोद इव पाण्डुरः
रुद्रलोके स्थितो नित्यं रुद्रैः सार्धं गणेश्वरैः वृषेन्द्रो विश्वधृग् देवो विश्वस्य जगतः पिता
वृतो नन्दादिभिर् नित्यं मातृभिर् मखमर्दनः शिवार्चनरतो नित्यं स मे पापं व्यपोहतु
गङ्गा माता जगन्माता रुद्रलोके व्यवस्थिता शिवभक्ता तु या नन्दा सा मे पापं व्यपोहतु
भद्रा भद्रपदा देवी शिवलोके व्यवस्थिता माता गवां महाभागा सा मे पापं व्यपोहतु
सुरभिः सर्वतोभद्रा सर्वपापप्रणाशनी रुद्रपूजारता नित्यं सा मे पापं व्यपोहतु
सुशीला शीलसम्पन्ना श्रीप्रदा शिवभाविता शिवलोके स्थिता नित्यं सा मे पापं व्यपोहतु
वेदशास्त्रार्थतत्त्वज्ञः सर्वकार्याभिचिन्तकः समस्तगुणसम्पन्नः सर्वदेवेश्वरात्मजः
ज्येष्ठः सर्वेश्वरः सौम्यो महाविष्णुतनुः स्वयम् आर्यः सेनापतिः साक्षाद् गहनो मखमर्दनः
ऐरावतगजारूढः कृष्णकुञ्चितमूर्धजः कृष्णाङ्गो रक्तनयनः शशिपन्नगभूषणः
भूतैः प्रेतैः पिशाचैश् च कूष्माण्डैश् च समावृतः शिवार्चनरतः साक्षात् स मे पापं व्यपोहतु
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा वाराही चैव माहेन्द्री चामुण्डाग्नेयिका तथा
एता वै मातरः सर्वाः सर्वलोकप्रपूजिताः योगिनीभिर् महापापं व्यपोहन्तु समाहिताः
वीरभद्रो महातेजा हिमकुन्देन्दुसन्निभः रुद्रस्य तनयो रौद्रः शूलासक्तमहाकरः
सहस्रबाहुः सर्वज्ञः सर्वायुधधरः स्वयम् त्रेताग्निनयनो देवस् त्रैलोक्याभयदः प्रभुः
मातॄणां रक्षको नित्यं महावृषभवाहनः त्रैलोक्यनमितः श्रीमान् शिवपादार्चने रतः
यज्ञस्य च शिरश्छेत्ता पूष्णो दन्तविनाशनः वह्नेर्हस्तहरः साक्षाद् भगनेत्रनिपातनः