संसारदर्शनं चैव मानसं गुणलक्षणम् छेदनं ताडनं बन्धं संसारपरिवर्तनम्
सर्वभूतप्रसादश् च मृत्युकालजयस् तथा प्राजापत्यमिदं प्रोक्तम् आहङ्कारिकमुत्तमम्
अकारणजगत्सृष्टिस् तथानुग्रह एव च प्रलयश्चाधिकारश् च लोकवृत्तप्रवर्तनम्
असादृश्यमिदं व्यक्तं निर्माणं च पृथक्पृथक् संसारस्य च कर्तृत्वं ब्राह्मम् एतद् अनुत्तमम्
एतावत्तत्त्वमित्युक्तं प्राधान्यं वैष्णवं पदम् ब्रह्मणा तद्गुणं शक्यं वेत्तुमन्यैर्न शक्यते
विद्यते तत्परं शैवं विष्णुना नावगम्यते असंख्येयगुणं शुद्धं को जानीयाच्छिवात्मकम्
व्युत्थाने सिद्धयश्चैता ह्य् उपसर्गाश् च कीर्तिताः निरोद्धव्याः प्रयत्नेन वैराग्येण परेण तु
नाशातिशयतां ज्ञात्वा विषयेषु भयेषु च अश्रद्धया त्यजेत्सर्वं विरक्त इति कीर्तितः
वैतृष्ण्यं पुरुषे ख्यातं गुणवैतृष्ण्यमुच्यते वैराग्येणैव संत्याज्याः सिद्धयश्चौपसर्गिकाः
औपसर्गिकम् आ ब्रह्मभुवनेषु परित्यजेत् निरुध्यैव त्यजेत्सर्वं प्रसीदति महेश्वरः
प्रसन्ने विमला मुक्तिर् वैराग्येण परेण वै अथवानुग्रहार्थं च लीलार्थं वा तदा मुनिः
अनिरुध्य विचेष्टेद्यः सो ऽप्येवं हि सुखी भवेत् क्वचिद्भूमिं परित्यज्य ह्य् आकाशे क्रीडते श्रिया
उद्गिरेच्च क्वचिद्वेदान् सूक्ष्मानर्थान् समासतः क्वचिच्छ्रुते तदर्थेन श्लोकबन्धं करोति सः
क्वचिद्दण्डकबन्धं तु कुर्याद्बन्धं सहस्रशः मृगपक्षिसमूहस्य रुतज्ञानं च विन्दति
ब्रह्माद्यं स्थावरान्तं च हस्तामलकवद्भवेत् बहुनात्र किमुक्तेन विज्ञानानि सहस्रशः
उत्पद्यन्ते मुनिश्रेष्ठा मुनेस्तस्य महात्मनः अभ्यासेनैव विज्ञानं विशुद्धं च स्थिरं भवेत्
तेजोरूपाणि सर्वाणि सर्वं पश्यति योगवित् देवबिम्बान्यनेकानि विमानानि सहस्रशः
पश्यति ब्रह्मविष्ण्विन्द्रयमाग्निवरुणादिकान् ग्रहनक्षत्रताराश् च भुवनानि सहस्रशः
पातालतलसंस्थाश् च समाधिस्थः स पश्यति आत्मविद्याप्रदीपेन स्वस्थेनाचलनेन तु
प्रसादामृतपूर्णेन सत्त्वपात्रस्थितेन तु तमो निहत्य पुरुषः पश्यति ह्यात्मनीश्वरम्
तस्य प्रसादाद्धर्मश् च ऐश्वर्यं ज्ञानमेव च वैराग्यमपवर्गश् च नात्र कार्या विचारणा
न शक्यो विस्तरो वक्तुं वर्षाणामयुतैरपि योगे पाशुपते निष्ठा स्थातव्यं च मुनीश्वराः
सतां जितात्मनां साक्षाद् द्विजातीनां द्विजोत्तमाः धर्मज्ञानां च साधूनाम् आचार्याणां शिवात्मनाम्
दयावतां द्विजश्रेष्ठास् तथा चैव तपस्विनाम् संन्यासिनां विरक्तानां ज्ञानिनां वशगात्मनाम्
दानिनां चैव दान्तानां त्रयाणां सत्यवादिनाम् अलुब्धानां सयोगानां श्रुतिस्मृतिविदां द्विजाः
श्रौतस्मार्ताविरुद्धानां प्रसीदति महेश्वरः सदिति ब्रह्मणः शब्दस् तदन्ते ये लभन्त्युत
सायुज्यं ब्रह्मणो याति तेन सन्तः प्रचक्षते दशात्मके ये विषये साधने चाष्टलक्षणे
न क्रुध्यन्ति न हृष्यन्ति जितात्मानस्तु ते स्मृताः सामान्येषु च द्रव्येषु तथा वैशेषिकेषु च
ब्रह्मक्षत्रविशो यस्माद् युक्तास्तस्माद्द्विजातयः वर्णाश्रमेषु युक्तस्य स्वर्गादिसुखकारिणः
श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मज्ञ उच्यते विद्यायाः साधनात्साधुब्रह्मचारी गुरोर्हितः