विकर्तनो विवस्वांश् च मार्तण्डो भास्करो रविः लोकप्रकाशकश्चैव लोकसाक्षीत्रिविक्रमः
आदित्यश् च तथा सूर्यश् चांशुमांश् च दिवाकरः एते वै द्वादशादित्या व्यपोहन्तु मलं मम
गगनं स्पर्शनं तेजो रसश् च पृथिवी तथा चन्द्रः सूर्यस्तथात्मा च तनवः शिवभाषिताः
पापं व्यपोहन्तु मम भयं निर्णाशयन्तु मे वासवः पावकश्चैव यमो निरृतिरेव च
वरुणो वायुसोमौ च ईशानो भगवान् हरिः पितामहश् च भगवान् शिवध्यानपरायणः
एते पापं व्यपोहन्तु मनसा कर्मणा कृतम् नभस्वान्स्पर्शनो वायुर् अनिलो मारुतस् तथा
प्राणः प्राणेशजीवेशौ मारुतः शिवभाषिताः शिवार्चनरताः सर्वे व्यपोहन्तु मलं मम
खेचरी वसुचारी च ब्रह्मेशो ब्रह्मब्रह्मधीः सुषेणः शाश्वतः पृष्टः सुपुष्टश् च महाबलः
एते वै चारणाः शंभोः पूजयातीव भाविताः व्यपोहन्तु मलं सर्वं पापं चैव मया कृतम्
मन्त्रज्ञो मन्त्रवित् प्राज्ञो मन्त्रराट् सिद्धपूजितः सिद्धवत्परमः सिद्धः सर्वसिद्धिप्रदायिनः
व्यपोहन्तु मलं सर्वे सिद्धाः शिवपदार्चकाः यक्षो यक्षेशधनदो जृम्भको मणिभद्रकः
पूर्णभद्रेश्वरो माली शितिकुण्डलिरेव च नरेन्द्रश्चैव यक्षेशा व्यपोहन्तु मलं मम
अनन्तः कुलिकश्चैव वासुकिस्तक्षकस्तथा कर्कोटको महापद्मः शङ्खपालो महाबलः
शिवप्रणामसम्पन्नाः शिवदेहप्रभूषणाः मम पापं व्यपोहन्तु विषं स्थावरजङ्गमम्
वीणाज्ञः किन्नरश्चैव सुरसेनः प्रमर्दनः अतीशयः स प्रयोगी गीतज्ञश्चैव किन्नराः
शिवप्रणामसम्पन्ना व्यपोहन्तु मलं मम विद्याधरश् च विबुधो विद्याराशिर्विदां वरः
विबुद्धो विबुधः श्रीमान् कृतज्ञश् च महायशाः एते विद्याधराः सर्वे शिवध्यानपरायणाः
व्यपोहन्तु मलं घोरं महादेवप्रसादतः वामदेवी महाजम्भः कालनेमिर्महाबलः
सुग्रीवो मर्दकश्चैव पिङ्गलो देवमर्दनः प्रह्रादश्चाप्यनुह्रादः संह्रादः किल बाष्कलौ
जम्भः कुंभश् च मायावी कार्तवीर्यः कृतंजयः एते ऽसुरा महात्मानो महादेवपरायणाः
व्यपोहन्तु भयं घोरम् आसुरं भावमेव च गरुत्मान् खगतिश्चैव पक्षिराट् नागमर्दनः
नागशत्रुर् हिरण्याङ्गो वैनतेयः प्रभञ्जनः नागाशीर्विषनाशश् च विष्णुवाहन एव च
एते हिरण्यवर्णाभा गरुडा विष्णुवाहनाः नानाभरणसम्पन्ना व्यपोहन्तु मलं मम
अगस्त्यश् च वसिष्ठश् च अङ्गिरा भृगुरेव च काश्यपो नारदश्चैव दधीचश्च्यवनस् तथा
उपमन्युस्तथान्ये च ऋषयः शिवभाविताः शिवार्चनरताः सर्वे व्यपोहन्तु मलं मम
पितरः पितामहाश् च तथैव प्रपितामहाः अग्निष्वात्ता बर्हिषदस् तथा मातामहादयः
व्यपोहन्तु भयं पापं शिवध्यानपरायणाः लक्ष्मीश् च धरणी चैव गायत्री च सरस्वती
दुर्गा उषा शची ज्येष्ठा मातरः सुरपूजिताः देवानां मातरश् चैव गणानां मातरस् तथा
भूतानां मातरः सर्वा यत्र या गणमातरः प्रसादाद्देवदेवस्य व्यपोहन्तु मलं मम
उर्वशी मेनका चैव रंभा रतितिलोत्तमाः सुमुखी दुर्मुखी चैव कामुकी कामवर्धनी