सप्तपातालपादश् च सप्तद्वीपोरुजङ्घकः सप्तार्णवाङ्कुशश्चैव सर्वतीर्थोदरः शिवः
आकाशदेहो दिग्बाहुः सोमसूर्याग्निलोचनः हतासुरमहावृक्षो ब्रह्मविद्यामहोत्कटः
ब्रह्माद्याधोरणैर् दिव्यैर् योगपाशसमन्वितैः बद्धो हृत्पुण्डरीकाख्ये स्तंभे वृत्तिं निरुध्य च
नागेन्द्रवक्त्रो यः साक्षाद् गणकोटिशतैर्वृतः शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु
भृङ्गीशः पिङ्गलाक्षो ऽसौ भसिताशस्तु देहयुक् शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु
चतुर्भिस्तनुभिर् नित्यं सर्वासुरनिबर्हणः स्कन्दः शक्तिधरः शान्तः सेनानीः शिखिवाहनः
देवसेनापतिः श्रीमान् स मे पापं व्यपोहतु भवः शर्वस्तथेशानो रुद्रः पशुपतिस् तथा
उग्रो भीमो महादेवः शिवार्चनरतः सदा एताः पापं व्यपोहन्तु मूर्तयः परमेष्ठिनः
महादेवः शिवो रुद्रः शङ्करो नीललोहितः ईशानो विजयो भीमो देवदेवो भवोद्भवः
कपालीशश् च विज्ञेयो रुद्रा रुद्रांशसंभवाः शिवप्रणामसम्पन्ना व्यपोहन्तु मलं मम
विकर्तनो विवस्वांश् च मार्तण्डो भास्करो रविः लोकप्रकाशकश्चैव लोकसाक्षीत्रिविक्रमः
आदित्यश् च तथा सूर्यश् चांशुमांश् च दिवाकरः एते वै द्वादशादित्या व्यपोहन्तु मलं मम
गगनं स्पर्शनं तेजो रसश् च पृथिवी तथा चन्द्रः सूर्यस्तथात्मा च तनवः शिवभाषिताः
पापं व्यपोहन्तु मम भयं निर्णाशयन्तु मे वासवः पावकश्चैव यमो निरृतिरेव च
वरुणो वायुसोमौ च ईशानो भगवान् हरिः पितामहश् च भगवान् शिवध्यानपरायणः
एते पापं व्यपोहन्तु मनसा कर्मणा कृतम् नभस्वान्स्पर्शनो वायुर् अनिलो मारुतस् तथा
प्राणः प्राणेशजीवेशौ मारुतः शिवभाषिताः शिवार्चनरताः सर्वे व्यपोहन्तु मलं मम
खेचरी वसुचारी च ब्रह्मेशो ब्रह्मब्रह्मधीः सुषेणः शाश्वतः पृष्टः सुपुष्टश् च महाबलः
एते वै चारणाः शंभोः पूजयातीव भाविताः व्यपोहन्तु मलं सर्वं पापं चैव मया कृतम्
मन्त्रज्ञो मन्त्रवित् प्राज्ञो मन्त्रराट् सिद्धपूजितः सिद्धवत्परमः सिद्धः सर्वसिद्धिप्रदायिनः
व्यपोहन्तु मलं सर्वे सिद्धाः शिवपदार्चकाः यक्षो यक्षेशधनदो जृम्भको मणिभद्रकः
पूर्णभद्रेश्वरो माली शितिकुण्डलिरेव च नरेन्द्रश्चैव यक्षेशा व्यपोहन्तु मलं मम
अनन्तः कुलिकश्चैव वासुकिस्तक्षकस्तथा कर्कोटको महापद्मः शङ्खपालो महाबलः
शिवप्रणामसम्पन्नाः शिवदेहप्रभूषणाः मम पापं व्यपोहन्तु विषं स्थावरजङ्गमम्
वीणाज्ञः किन्नरश्चैव सुरसेनः प्रमर्दनः अतीशयः स प्रयोगी गीतज्ञश्चैव किन्नराः
शिवप्रणामसम्पन्ना व्यपोहन्तु मलं मम विद्याधरश् च विबुधो विद्याराशिर्विदां वरः
विबुद्धो विबुधः श्रीमान् कृतज्ञश् च महायशाः एते विद्याधराः सर्वे शिवध्यानपरायणाः
व्यपोहन्तु मलं घोरं महादेवप्रसादतः वामदेवी महाजम्भः कालनेमिर्महाबलः
सुग्रीवो मर्दकश्चैव पिङ्गलो देवमर्दनः प्रह्रादश्चाप्यनुह्रादः संह्रादः किल बाष्कलौ
जम्भः कुंभश् च मायावी कार्तवीर्यः कृतंजयः एते ऽसुरा महात्मानो महादेवपरायणाः