शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु त्रैलोक्यनमिता देवी सोल्काकारा पुरातनी
शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु त्रैलोक्यनमिता देवी सोल्काकारा पुरातनी
दाक्षायणी महादेवी गौरी हैमवती शुभा एकपर्णाग्रजा सौम्या तथा वै चैकपाटला
अपर्णा वरदा देवी वरदानैकतत्परा उमा सुरहरा साक्षात् कौशिकी वा कपर्दिनी
खट्वाङ्गधारिणी दिव्या कराग्रतरुपल्लवा नैगमेयादिभिर् दिव्यैश् चतुर्भिः पुत्रकैर्वृता
मेनाया नन्दिनी देवी वारिजा वारिजेक्षणा अंबाया वीतशोकस्य नन्दिनश् च महात्मनः
शुभावत्याः सखी शान्ता पञ्चचूडा वरप्रदा सृष्ट्यर्थं सर्वभूतानां प्रकृतित्वं गताव्यया
त्रयोविंशतिभिस् तत्त्वैर् महदाद्यैर् विजृम्भिता लक्ष्म्यादिशक्तिभिर् नित्यं नमिता नन्दनन्दिनी
मनोन्मनी महादेवी मायावी मण्डनप्रिया मायया या जगत्सर्वं ब्रह्माद्यं सचराचरम्
क्षोभिणी मोहिनी नित्यं योगिनां हृदि संस्थिता एकानेकस्थिता लोके इन्दीवरनिभेक्षणा
भक्त्या परमया नित्यं सर्वदेवैरभिष्टुता गणेन्द्राम्भोजगर्भेन्द्रयमवित्तेशपूर्वकैः
संस्तुता जननी तेषां सर्वोपद्रवनाशिनी भक्तानामार्तिहा भव्या भवभावविनाशनी
भुक्तिमुक्तिप्रदा दिव्या भक्तानामप्रयत्नतः सा मे साक्षान्महादेवी पापम् आशु व्यपोहतु
चण्डः सर्वगणेशानो मुखाच्छंभोर्विनिर्गतः शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु
शालङ्कायनपुत्रस्तु हलमार्गोत्थितः प्रभुः जामाता मरुतां देवः सर्वभूतमहेश्वरः
सर्वगः सर्वदृक् शर्वः सर्वेशसदृशः प्रभुः सनारायणकैर् देवैः सेन्द्रचन्द्रदिवाकरैः
सिद्धैश् च यक्षगन्धर्वैर् भूतैर्भूतविधायकैः उरगैरृषिभिश्चैव ब्रह्मणा च महात्मना
स्तुतस्त्रैलोक्यनाथस्तु मुनिरन्तः पुरं स्थितः सर्वदा पूजितः सर्वैर् नन्दी पापं व्यपोहतु
महाकायो महातेजा महादेव इवापरः शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु
मेरुमन्दारकैलासतटकूटप्रभेदनः ऐरावतादिभिर् दिव्यैर् दिग्गजैश् च सुपूजितः
सप्तपातालपादश् च सप्तद्वीपोरुजङ्घकः सप्तार्णवाङ्कुशश्चैव सर्वतीर्थोदरः शिवः
आकाशदेहो दिग्बाहुः सोमसूर्याग्निलोचनः हतासुरमहावृक्षो ब्रह्मविद्यामहोत्कटः
ब्रह्माद्याधोरणैर् दिव्यैर् योगपाशसमन्वितैः बद्धो हृत्पुण्डरीकाख्ये स्तंभे वृत्तिं निरुध्य च
नागेन्द्रवक्त्रो यः साक्षाद् गणकोटिशतैर्वृतः शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु
भृङ्गीशः पिङ्गलाक्षो ऽसौ भसिताशस्तु देहयुक् शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु
चतुर्भिस्तनुभिर् नित्यं सर्वासुरनिबर्हणः स्कन्दः शक्तिधरः शान्तः सेनानीः शिखिवाहनः
देवसेनापतिः श्रीमान् स मे पापं व्यपोहतु भवः शर्वस्तथेशानो रुद्रः पशुपतिस् तथा
उग्रो भीमो महादेवः शिवार्चनरतः सदा एताः पापं व्यपोहन्तु मूर्तयः परमेष्ठिनः
महादेवः शिवो रुद्रः शङ्करो नीललोहितः ईशानो विजयो भीमो देवदेवो भवोद्भवः
कपालीशश् च विज्ञेयो रुद्रा रुद्रांशसंभवाः शिवप्रणामसम्पन्ना व्यपोहन्तु मलं मम