व्यासाय कथितं तस्माद् बहुमानेन वै मया नमः शिवाय शुद्धाय निर्मलाय यशस्विने
दुष्टान्तकाय सर्वाय भवाय परमात्मने पञ्चवक्त्रो दशभुजो ह्य् अक्षपञ्चदशैर्युतः
शुद्धस्फटिकसंकाशः सर्वाभरणभूषितः सर्वज्ञः सर्वगः शान्तः सर्वोपरि सुसंस्थितः
पद्मासनस्थः सोमेशः पापमाशु व्यपोहतु ईशानः पुरुषश्चैव अघोरः सद्य एव च
वामदेवश् च भगवान् पापमाशु व्यपोहतु अनन्तः सर्वविद्येशः सर्वज्ञः सर्वदः प्रभुः
शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु सूक्ष्मः सुरासुरेशानो विश्वेशो गणपूजितः
शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु शिवोत्तमो महापूज्यः शिवध्यानपरायणः
सर्वगः सर्वदः शान्तः स मे पापं व्यपोहतु एकाक्षो भगवानीशः शिवार्चनपरायणः
शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु त्रिमूर्तिर् भगवान् ईशः शिवभक्तिप्रबोधकः
शिवध्यानैकसम्पन्नः स मे पापं व्यपोहतु श्रीकण्ठः श्रीपतिः श्रीमाञ् शिवध्यानरतः सदा
शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु त्रैलोक्यनमिता देवी सोल्काकारा पुरातनी
शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु त्रैलोक्यनमिता देवी सोल्काकारा पुरातनी
दाक्षायणी महादेवी गौरी हैमवती शुभा एकपर्णाग्रजा सौम्या तथा वै चैकपाटला
अपर्णा वरदा देवी वरदानैकतत्परा उमा सुरहरा साक्षात् कौशिकी वा कपर्दिनी
खट्वाङ्गधारिणी दिव्या कराग्रतरुपल्लवा नैगमेयादिभिर् दिव्यैश् चतुर्भिः पुत्रकैर्वृता
मेनाया नन्दिनी देवी वारिजा वारिजेक्षणा अंबाया वीतशोकस्य नन्दिनश् च महात्मनः
शुभावत्याः सखी शान्ता पञ्चचूडा वरप्रदा सृष्ट्यर्थं सर्वभूतानां प्रकृतित्वं गताव्यया
त्रयोविंशतिभिस् तत्त्वैर् महदाद्यैर् विजृम्भिता लक्ष्म्यादिशक्तिभिर् नित्यं नमिता नन्दनन्दिनी
मनोन्मनी महादेवी मायावी मण्डनप्रिया मायया या जगत्सर्वं ब्रह्माद्यं सचराचरम्
क्षोभिणी मोहिनी नित्यं योगिनां हृदि संस्थिता एकानेकस्थिता लोके इन्दीवरनिभेक्षणा
भक्त्या परमया नित्यं सर्वदेवैरभिष्टुता गणेन्द्राम्भोजगर्भेन्द्रयमवित्तेशपूर्वकैः
संस्तुता जननी तेषां सर्वोपद्रवनाशिनी भक्तानामार्तिहा भव्या भवभावविनाशनी
भुक्तिमुक्तिप्रदा दिव्या भक्तानामप्रयत्नतः सा मे साक्षान्महादेवी पापम् आशु व्यपोहतु
चण्डः सर्वगणेशानो मुखाच्छंभोर्विनिर्गतः शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु
शालङ्कायनपुत्रस्तु हलमार्गोत्थितः प्रभुः जामाता मरुतां देवः सर्वभूतमहेश्वरः
सर्वगः सर्वदृक् शर्वः सर्वेशसदृशः प्रभुः सनारायणकैर् देवैः सेन्द्रचन्द्रदिवाकरैः
सिद्धैश् च यक्षगन्धर्वैर् भूतैर्भूतविधायकैः उरगैरृषिभिश्चैव ब्रह्मणा च महात्मना
स्तुतस्त्रैलोक्यनाथस्तु मुनिरन्तः पुरं स्थितः सर्वदा पूजितः सर्वैर् नन्दी पापं व्यपोहतु
महाकायो महातेजा महादेव इवापरः शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु
मेरुमन्दारकैलासतटकूटप्रभेदनः ऐरावतादिभिर् दिव्यैर् दिग्गजैश् च सुपूजितः