पद्माश्रितो महादेवः सर्वदेवपतिः शिवः तस्मात्सर्वप्रयत्नेन श्रीपत्त्रं न त्यजेद्बुधः
नीलोत्पलं चोत्पलं च कमलं च विशेषतः सर्ववश्यकरं पद्मं शिला सर्वार्थसिद्धिदा
कृष्णागरुसमुद्भूतं सर्वपापनिकृन्तनम् गुग्गुलुप्रभृतीनां चैव दीपानां च निवेदनम्
सर्वरोगक्षयं चैव चन्दनं सर्वसिद्धिदम् सौगन्धिकं तथा धूपं सर्वकामार्थसाधकम्
श्वेतागरूद्भवं चैव तथा कृष्णागरूद्भवम् सौम्यं सीतारिधूपं च साक्षान्निर्वाणसिद्धिदम्
श्वेतार्ककुसुमे साक्षाच् चतुर्वक्त्रः प्रजापतिः कर्णिकारस्य कुसुमे मेधा साक्षाद्व्यवस्थिता
करवीरे गणाध्यक्षो बके नारायणः स्वयम् सुगन्धिषु च सर्वेषु कुसुमेषु नगात्मजा
तस्मादेतैर्यथालाभं पुष्पधूपादिभिः शुभैः पूजयेद्देवदेवेशं भक्त्या वित्तानुसारतः
निवेदयेत्ततो भक्त्या पायसं च महाचरुम् सघृतं सोपदंशं च सर्वद्रव्यसमन्वितम्
शुद्धान्नं वापि मुद्गान्नम् आढकं चार्धकं तु वा चामरं तालवृन्तं च तस्मै भक्त्या निवेदयेत्
उपहाराणि पुण्यानि न्यायेनैवार्जितान्यपि नानाविधानि चार्हाणि प्रोक्षितान्यंभसा पुनः
निवेदयेच्च रुद्राय भक्तियुक्तेन चेतसा क्षीराद्वै सर्वदेवानां स्थित्यर्थममृतं ध्रुवम्
विष्णुना जिष्णुना साक्षाद् अन्ने सर्वं प्रतिष्ठितम् भूतानाम् अन्नदानेन प्रीतिर् भवति शङ्करे
तस्मात् सम्पूजयेद् देवम् अन्ने प्राणाः प्रतिष्ठिताः उपहारे तथा तुष्टिर् व्यञ्जने पवनः स्वयम्
सर्वात्मको महादेवो गन्धतोये ह्यपाम्पतिः पीठे वै प्रकृतिः साक्षान् महदाद्यैर्व्यवस्थिता
तस्माद्देवं यजेद्भक्त्या प्रतिमासं यथाविधि पौर्णमास्यां व्रतं कार्यं सर्वकामार्थसिद्धये
सत्यं शौचं दया शान्तिः संतोषो दानमेव च पौर्णमास्याममावास्याम् उपवासं च कारयेत्
संवत्सरान्ते गोदानं वृषोत्सर्गं विशेषतः भोजयेद्ब्राह्मणान्भक्त्या श्रोत्रियान् वेदपारगान्
तल् लिङ्गं पूजितं तेन सर्वद्रव्यसमन्वितम् स्थापयेद् वा शिवक्षेत्रे दापयेद् ब्राह्मणाय वा
य एवं सर्वमासेषु शिवलिङ्गमहाव्रतम् कुर्याद्भक्त्या मुनिश्रेष्ठाः स एव तपतां वरः
सूर्यकोटिप्रतीकाशैर् विमानै रत्नभूषितैः गत्वा शिवपुरं दिव्यं नेहायाति कदाचन
अथवा ह्येकमासं वा चरेदेवं व्रतोत्तमम् शिवलोकमवाप्नोति नात्र कार्या विचारणा
अथवा सक्तचित्तश्चेद् यान्यान् संचिन्तयेद्वरान् वर्षमेकं चरेदेवं तांस्तान्प्राप्य शिवं व्रजेत्
देवत्वं वा पितृत्वं वा देवराजत्वमेव च गाणपत्यपदं वापि सक्तो ऽपि लभते नरः
विद्यार्थी लभते विद्यां भोगार्थी भोगमाप्नुयात् द्रव्यार्थी च निधिं पश्येद् आयुःकामश् चिरायुषम्
यान्यांश्चिन्तयते कामांस् तांस्तान्प्राप्येह मोदते एकमासव्रतादेव सो ऽन्ते रुद्रत्वमाप्नुयात्
इदं पवित्रं परमं रहस्यं व्रतोत्तमं विश्वसृजापि सृष्टम् हिताय देवासुरसिद्धमर्त्यविद्याधराणां परमं शिवेन
सम्पूज्य पूज्यं विधिनैवमीशं प्रणम्य मूर्ध्ना सह भृत्यपुत्रैः व्यपोहनं नाम जपेत्स्तवं च प्रदक्षिणं कृत्य शिवं प्रयत्नात्
पुराकृतं विश्वसृजा स्तवं च हिताय देवेन जगत्त्रयस्य पितामहेनैव सुरैश्च सार्धं महानुभावेन महार्घ्यम् एतत्
व्यपोहनस्तवं वक्ष्ये सर्वसिद्धिप्रदं शुभम् नन्दिनश् च मुखाच्छ्रुत्वा कुमारेण महात्मना