आषाढे मौक्तिकं लिङ्गं श्रावणे नीलनिर्मितम् मासि भाद्रपदे लिङ्गं पद्मरागमयं शुभम्
आश्विने चैव विप्रेन्द्राः गोमेदकमयं शुभम् प्रवालेनैव कार्तिक्यां तथा वै मार्गशीर्षके
वैडूर्यनिर्मितं लिङ्गं पुष्परागेण पुष्यके माघे च सूर्यकान्तेन फाल्गुने स्फाटिकेन च
सर्वमासेषु कमलं हैममेकं विधीयते अलाभे राजतं वापि केवलं कमलं तु वा
रत्नानाम् अप्यलाभे तु हेम्ना वा राजतेन वा रजतस्याप्यलाभे तु ताम्रलोहेन कारयेत्
शैलं वा दारुजं वापि मृन्मयं वा सवेदिकम् सर्वगन्धमयं वापि क्षणिकं परिकल्पयेत्
हैमन्तिके महादेवं श्रीपत्त्रेणैव पूजयेत् सर्वमासेषु कमलं हैममेकमथापि वा
राजतं वापि कमलं हैमकर्णिकमुत्तमम् राजतस्याप्यभावे तु बिल्वपत्रैः समर्चयेत्
सहस्रकमलालाभे तदर्धेनापि पूजयेत् तदर्धार्धेन वा रुद्रम् अष्टोत्तरशतेन वा
बिल्वपत्रे स्थिता लक्ष्मीर् देवी लक्षणसंयुता नीलोत्पले ऽंबिका साक्षाद् उत्पले षण्मुखः स्वयम्
पद्माश्रितो महादेवः सर्वदेवपतिः शिवः तस्मात्सर्वप्रयत्नेन श्रीपत्त्रं न त्यजेद्बुधः
नीलोत्पलं चोत्पलं च कमलं च विशेषतः सर्ववश्यकरं पद्मं शिला सर्वार्थसिद्धिदा
कृष्णागरुसमुद्भूतं सर्वपापनिकृन्तनम् गुग्गुलुप्रभृतीनां चैव दीपानां च निवेदनम्
सर्वरोगक्षयं चैव चन्दनं सर्वसिद्धिदम् सौगन्धिकं तथा धूपं सर्वकामार्थसाधकम्
श्वेतागरूद्भवं चैव तथा कृष्णागरूद्भवम् सौम्यं सीतारिधूपं च साक्षान्निर्वाणसिद्धिदम्
श्वेतार्ककुसुमे साक्षाच् चतुर्वक्त्रः प्रजापतिः कर्णिकारस्य कुसुमे मेधा साक्षाद्व्यवस्थिता
करवीरे गणाध्यक्षो बके नारायणः स्वयम् सुगन्धिषु च सर्वेषु कुसुमेषु नगात्मजा
तस्मादेतैर्यथालाभं पुष्पधूपादिभिः शुभैः पूजयेद्देवदेवेशं भक्त्या वित्तानुसारतः
निवेदयेत्ततो भक्त्या पायसं च महाचरुम् सघृतं सोपदंशं च सर्वद्रव्यसमन्वितम्
शुद्धान्नं वापि मुद्गान्नम् आढकं चार्धकं तु वा चामरं तालवृन्तं च तस्मै भक्त्या निवेदयेत्
उपहाराणि पुण्यानि न्यायेनैवार्जितान्यपि नानाविधानि चार्हाणि प्रोक्षितान्यंभसा पुनः
निवेदयेच्च रुद्राय भक्तियुक्तेन चेतसा क्षीराद्वै सर्वदेवानां स्थित्यर्थममृतं ध्रुवम्
विष्णुना जिष्णुना साक्षाद् अन्ने सर्वं प्रतिष्ठितम् भूतानाम् अन्नदानेन प्रीतिर् भवति शङ्करे
तस्मात् सम्पूजयेद् देवम् अन्ने प्राणाः प्रतिष्ठिताः उपहारे तथा तुष्टिर् व्यञ्जने पवनः स्वयम्
सर्वात्मको महादेवो गन्धतोये ह्यपाम्पतिः पीठे वै प्रकृतिः साक्षान् महदाद्यैर्व्यवस्थिता
तस्माद्देवं यजेद्भक्त्या प्रतिमासं यथाविधि पौर्णमास्यां व्रतं कार्यं सर्वकामार्थसिद्धये
सत्यं शौचं दया शान्तिः संतोषो दानमेव च पौर्णमास्याममावास्याम् उपवासं च कारयेत्
संवत्सरान्ते गोदानं वृषोत्सर्गं विशेषतः भोजयेद्ब्राह्मणान्भक्त्या श्रोत्रियान् वेदपारगान्
तल् लिङ्गं पूजितं तेन सर्वद्रव्यसमन्वितम् स्थापयेद् वा शिवक्षेत्रे दापयेद् ब्राह्मणाय वा
य एवं सर्वमासेषु शिवलिङ्गमहाव्रतम् कुर्याद्भक्त्या मुनिश्रेष्ठाः स एव तपतां वरः