अथ द्वादशवर्षं वा मासद्वादशकं तु वा दिनद्वादशकं वापि कृत्वा तद् व्रतम् उत्तमम्
मुच्यन्ते पशवः सर्वे पशुपाशैर्भवस्य तु दर्शयामास तान्देवान् नारायणपुरोगमान्
नन्दी शिलादतनयः सर्वभूतगणाग्रणीः तं दृष्ट्वा देवमीशानं सांबं सगणम् अव्ययम्
प्रणेमुस् तुष्टुवुश् चैव प्रीतिकण्टकितत्वचः विज्ञाप्य शितिकण्ठाय पशुपाशविमोक्षणम्
तस्थुस्तदाग्रतः शंभोः प्रणिपत्य पुनः पुनः ततः सम्प्रेक्ष्य तान् सर्वान् देवदेवो वृषध्वजः
विशोध्य तेषां देवानां पशुत्वं परमेश्वरः व्रतं पाशुपतं चैव स्वयं देवो महेश्वरः
उपदिश्य मुनीनां च सहास्ते चांबया भवः तदाप्रभृति ते देवाः सर्वे पाशुपताः स्मृताः
पशूनां च पतिर्यस्मात् तेषां साक्षाद्धि देवताः तस्मात्पाशुपताः प्रोक्तास् तपस्तेपुश् च ते पुनः
ततो द्वादशवर्षान्ते मुक्तपाशाः सुरोत्तमाः ययुर्यथागतं सर्वे ब्रह्मणा सह विष्णुना
एतद्वः कथितं सर्वं पितामहमुखाच्छ्रुतम् पुरा सनत्कुमारेण तस्माद्व्यासेन धीमता
यः श्रावयेच्छुचिर् विप्राञ् छृणुयाद्वा शुचिर्नरः स देहभेदमासाद्य पशुपाशैः प्रमुच्यते
व्रतमेतत्त्वया प्रोक्तं पशुपाशविमोक्षणम् व्रतं पाशुपतं लैङ्गं पुरा देवैर् अनुष्ठितम्
वक्तुमर्हसि चास्माकं यथापूर्वं त्वया श्रुतम् पुरा सनत्कुमारेण पृष्टः शैलादिरादरात्
नन्दी प्राह वचस्तस्मै प्रवदामि समासतः देवैर्दैत्यैस् तथा सिद्धैर् गन्धर्वैः सिद्धचारणैः
मुनिभिश् च महाभागैर् अनुष्ठितमनुत्तमम् व्रतं द्वादशलिङ्गाख्यं पशुपाशविमोक्षणम्
भोगदं योगदं चैव कामदं मुक्तिदं शुभम् अवियोगकरं पुण्यं भक्तानां भयनाशनम्
षडङ्गसहितान् वेदान् मथित्वा तेन निर्मितम् सर्वदानोत्तमं पुण्यम् अश्वमेधायुताधिकम्
सर्वमङ्गलदं पुण्यं सर्वशत्रुविनाशनम् संसारार्णवमग्नानां जन्तूनामपि मोक्षदम्
सर्वव्याधिहरं चैव सर्वज्वरविनाशनम् देवैरनुष्ठितं पूर्वं ब्रह्मणा विष्णुना तथा
कृत्वा कनीयसं लिङ्गं स्नाप्य चन्दनवारिणा चैत्रमासादि विप्रेन्द्राः शिवलिङ्गव्रतं चरेत्
कृत्वा हैमं शुभं पद्मं कर्णिकाकेसरान्वितम् नवरत्नैश् च खचितम् अष्टपत्रं यथाविधि
कर्णिकायां न्यसेल्लिङ्गं स्फाटिकं पीठसंयुतम् तत्र भक्त्या यथान्यायम् अर्चयेद् बिल्वपत्रकैः
सितैः सहस्रकमलै रक्तैर्नीलोत्पलैरपि श्वेतार्ककर्णिकारैश् च करवीरैर्बकैरपि
एतैरन्यैर् यथालाभं गायत्र्या तस्य सुव्रताः सम्पूज्य चैव गन्धाद्यैर् धूपैर्दीपैश् च मङ्गलैः
नीराजनाद्यैश्चान्यैश् च लिङ्गमूर्तिमहेश्वरम् अगरुं दक्षिणे दद्याद् अघोरेण द्विजोत्तमाः
पश्चिमे सद्यमन्त्रेण दिव्यां चैव मनःशिलाम् उत्तरे वामदेवेन चन्दनं वापि दापयेत्
पुरुषेण मुनिश्रेष्ठा हरितालं च पूर्वतः सितागरूद्भवं विप्रास् तथा कृष्णागरूद्भवम्
तथा गुग्गुलुधूपं च सौगन्धिकमनुत्तमम् सितारं नाम धूपं च दद्याद् ईशाय भक्तितः
महाचरुर्निवेद्यः स्याद् आढकान्नमथापि वा एतद् वः कथितं पुण्यं शिवलिङ्गमहाव्रतम्
सर्वमासेषु सामान्यं विशेषो ऽपि च कीर्त्यते वैशाखे वज्रलिङ्गं च ज्येष्ठे मारकतं तथा