विशालजघनाः सद्यो ननृतुर्मुमुदुर्जगुः काश्चिद्दृष्ट्वा हरिं नार्यः किंचित् प्रहसिताननाः
किंचिद् विस्रस्तवस्त्राश् च स्रस्तकाञ्चीगुणा जगुः चतुर्थं पञ्चमं चैव षष्ठं च सप्तमं तथा
अष्टमं नवमं चैव दशमं च पुरोत्तमम् अतीत्यासाद्य देवस्य पुरं शंभोः सुशोभनम्
सुवृत्तं सुतरां शुभ्रं कैलासशिखरे शुभे सूर्यमण्डलसंकाशैर् विमानैश् च विभूषितम्
स्फाटिकैर् मण्डपैः शुभ्रैर् जांबूनदमयैस् तथा नानारत्नमयैश्चैव दिग्विदिक्षु विभूषितम्
गोपुरैर्गोपतेः शंभोर् नानाभूषणभूषितैः अनेकैः सर्वतोभद्रैः सर्वरत्नमयैस् तथा
प्राकारैर्विविधाकारैर् अष्टाविंशतिभिर् वृतम् उपद्वारैर्महाद्वारैर् विदिक्षु विविधैर्दृढैः
गुह्यालयैर्गुह्यगृहैर् गुहस्य भवनैः शुभैः ग्राम्यैर् अन्यैर् महाभागा मौक्तिकैर् दृष्टिमोहनैः
गणेशायतनैर् दिव्यैः पद्मरागमयैस् तथा चन्दनैर्विविधाकारैः पुष्पोद्यानैश् च शोभनैः
तडागैर् दिर्घिकाभिश् च हेमसोपानपङ्क्तिभिः स्त्रीणां गतिजितैर् हंसैः सेविताभिः समन्ततः
मयूरैश्चैव कारण्डैः कोकिलैश्चक्रवाककैः शोभिताभिश् च वापीभिर् दिव्यामृतजलैस् तथा
संलापालापकुशलैः सर्वाभरणभूषितैः स्तनभारावनम्रैश् च मदाघूर्णितलोचनैः
गेयनादरतैर्दिव्यै रुद्रकन्यासहस्रकैः नृत्यद्भिर् अप्सरःसंघैर् अमरैरपि दुर्लभैः
प्रफुल्लांबुजवृन्दाद्यैस् तथा द्विजवरैरपि रुद्रस्त्रीगणसंकीर्णैर् जलक्रीडारतैस् तथा
रतोत्सवरतैश्चैव ललितैश् च पदे पदे ग्रामरागानुरक्तैश् च पद्मरागसमप्रभैः
स्त्रीसंघैर् देवदेवस्य भवस्य परमात्मनः दृष्ट्वा विस्मयमापन्नास् तस्थुर्देवाः समन्ततः
तत्रैव ददृशुर्देवा वृन्दं रुद्रगणस्य च गणेश्वराणां वीराणाम् अपि वृन्दं सहस्रशः
सुवर्णकृतसोपानान् वज्रवैडूर्यभूषितान् स्फाटिकान् देवदेवस्य ददृशुस्ते विमानकान्
तेषां शृङ्गेषु हृष्टाश् च नार्यः कमललोचनाः विशालजघना यक्षा गन्धर्वाप्सरसस् तथा
किन्नर्यः किंनराश्चैव भुजङ्गाः सिद्धकन्यकाः नानावेषधराश्चान्या नानाभूषणभूषिताः
नानाप्रभावसंयुक्ता नानाभोगरतिप्रियाः नीलोत्पलदलप्रख्याः पद्मपत्रायतेक्षणाः
पद्मकिञ्जल्कसंकाशैर् अंशुकैरतिशोभनाः वलयैर्नूपुरैर्हारैश् छत्रैश्चित्रैस्तथांशुकैः
भूषिता भूषितैश् चान्यैर् मण्डिता मण्डनप्रियाः दृष्ट्वाथ वृन्दं सुरसुन्दरीणां गणेश्वराणां सुरसुन्दरीणाम् जग्मुर्गणेशस्य पुरं सुरेशाः पुरद्विषः शक्रपुरोगमाश् च
दृष्ट्वा च तस्थुः सुरसिद्धसंघाः पुरस्य मध्ये पुरुहूतपूर्वाः भवस्य बालार्कसहस्रवर्णं विमानमाद्यं परमेश्वरस्य
अथ तस्य विमानस्य द्वारि संस्थं गणेश्वरम् नन्दिनं ददृशुः सर्वे देवाः शक्रपुरोगमाः
तं दृष्ट्वा नन्दिनं सर्वे प्रणम्याहुर् गणेश्वरम् जयेति देवास्तं दृष्ट्वा सो ऽप्याह च गणेश्वरः
भो भो देवा महाभागाः सर्वे निर्धूतकल्मषाः सम्प्राप्ताः सर्वलोकेशा वक्तुमर्हथ सुव्रताः
तमाहुर्वरदं देवं वारणेन्द्रसमप्रभम् पशुपाशविमोक्षार्थं दर्शयास्मान् महेश्वरम्
पुरा पुरत्रयं दग्धुं पशुत्वं परिभाषितम् शङ्किताश् च वयं तत्र पशुत्वं प्रति सुव्रत
व्रतं पाशुपतं प्रोक्तं भवेन परमेष्ठिना व्रतेनानेन भूतेश पशुत्वं नैव विद्यते