व्यासेन कथितः पूर्वं श्रुत्वा रुद्रमुखात्स्वयम्
कथं पशुपतिं दृष्ट्वा पशुपाशविमोक्षणम् पशुत्वं तत्यजुर्देवास् तन्नो वक्तुमिहार्हसि
पुरा कैलासशिखरे भोग्याख्ये स्वपुरे स्थितम् समेत्य देवाः सर्वज्ञम् आजग्मुस्तत्प्रसादतः
हिताय सर्वदेवानां ब्रह्मणा च जनार्दनः गरुडस्य तथा स्कन्धम् आरुह्य पुरुषोत्तमः
जगाम देवताभिर् वै देवदेवान्तिकं हरिः सर्वे सम्प्राप्य देवस्य सार्धं गिरिवरं शुभम्
सेन्द्राः ससाध्याः सयमाः प्रणेमुर् गिरिमुत्तमम् भगवान् वासुदेवो ऽसौ गरुडाद् गरुडध्वजः अवतीर्य गिरिं मेरुम् आरुरोह सुरोत्तमैः
सकलदुरितहीनं सर्वदं भोगमुख्यं मुदितकुररवृन्दं नादितं नागवृन्दैः मधुररणितगीतं सानुकूलान्धकारं पदरचितवनान्तं कान्तवातान्ततोयम्
भवनशतसहस्रैर् जुष्टम् आदित्यकल्पैर् ललितगतिविदग्धैर् हंसवृन्दैश् च भिन्नम् धवखदिरपलाशैश् चन्दनाद्यैश् च वृक्षैर् द्विजवरगणवृन्दैः कोकिलाद्यैर्द्विरेफैः
क्वचिदशेषसुरद्रुमसंकुलं कुरबकैः प्रियकैस्तिलकैस् तथा बहुकदम्बतमाललतावृतं गिरिवरं शिखरैर्विविधैस् तथा
गिरेः पृष्ठे परं शार्वं कल्पितं विश्वकर्मणा क्रीडार्थं देवदेवस्य भवस्य परमेष्ठिनः
अपश्यंस्तत्पुरं देवाः सेन्द्रोपेन्द्राः समाहिताः प्रणेमुर्दूरतश्चैव प्रभावादेव शूलिनः
सहस्रसूर्यप्रतिमं महान्तं सहस्रशः सर्वगुणैश् च भिन्नम् जगाम कैलासगिरिं महात्मा मेरुप्रभागे पुरमादिदेवः
ततो ऽथ नारिगजवाजिसंकुलं रथैर् अनेकैर् अमरारिसूदनः गणैर्गणेशैश् च गिरीन्द्रसंनिभं महापुरद्वारमजो हरिश् च
अथ जांबूनदमयैर् भवनैर्मणिभूषितैः विमानैर्विविधाकारैः प्राकारैश् च समावृतम्
दृष्ट्वा शंभोः पुरं बाह्यं देवैः सब्रह्मकैर्हरिः प्रहृष्टवदनो भूत्वा प्रविवेश ततः पुरम्
हर्म्यप्रासादसम्बाधं महाट्टालसमन्वितम् द्वितीयं देवदेवस्य चतुर्द्वारं सुशोभनम्
वज्रवैडूर्यमाणिक्यमणिजालैः समावृतम् दोलाविक्षेपसंयुक्तं घण्टाचामरभूषितम्
मृदङ्गमुरजैर्जुष्टं वीणावेणुनिनादितम् नृत्यद्भिर् अप्सरःसंघैर् भूतसंघैश् च संवृतम् देवेन्द्रभवनाकारैर् भवनैर् दृष्टिमोहनैः
प्रासादशृङ्गेष्वथ पौरनार्यः सहस्रशः पुष्पफलाक्षताद्यैः स्थिताः करैस्तस्य हरेः समन्तात् प्रचिक्षिपुर्मूर्ध्नि यथा भवस्य
दृष्ट्वा नार्यस्तदा विष्णुं मदाघूर्णितलोचनाः
विशालजघनाः सद्यो ननृतुर्मुमुदुर्जगुः काश्चिद्दृष्ट्वा हरिं नार्यः किंचित् प्रहसिताननाः
किंचिद् विस्रस्तवस्त्राश् च स्रस्तकाञ्चीगुणा जगुः चतुर्थं पञ्चमं चैव षष्ठं च सप्तमं तथा
अष्टमं नवमं चैव दशमं च पुरोत्तमम् अतीत्यासाद्य देवस्य पुरं शंभोः सुशोभनम्
सुवृत्तं सुतरां शुभ्रं कैलासशिखरे शुभे सूर्यमण्डलसंकाशैर् विमानैश् च विभूषितम्
स्फाटिकैर् मण्डपैः शुभ्रैर् जांबूनदमयैस् तथा नानारत्नमयैश्चैव दिग्विदिक्षु विभूषितम्
गोपुरैर्गोपतेः शंभोर् नानाभूषणभूषितैः अनेकैः सर्वतोभद्रैः सर्वरत्नमयैस् तथा
प्राकारैर्विविधाकारैर् अष्टाविंशतिभिर् वृतम् उपद्वारैर्महाद्वारैर् विदिक्षु विविधैर्दृढैः
गुह्यालयैर्गुह्यगृहैर् गुहस्य भवनैः शुभैः ग्राम्यैर् अन्यैर् महाभागा मौक्तिकैर् दृष्टिमोहनैः
गणेशायतनैर् दिव्यैः पद्मरागमयैस् तथा चन्दनैर्विविधाकारैः पुष्पोद्यानैश् च शोभनैः
तडागैर् दिर्घिकाभिश् च हेमसोपानपङ्क्तिभिः स्त्रीणां गतिजितैर् हंसैः सेविताभिः समन्ततः