ख्यातिशीलस् तथा चान्द्रं स्त्रीषु सक्तो नराधमः मदार्तः पूजयन् रुद्रं सोमस्थानमवाप्नुयात्
गायत्र्या देवमभ्यर्च्य प्राजापत्यमवाप्नुयात् ब्राह्मं हि प्रणवेनैव वैष्णवं चाभिनन्द्य च
श्रद्धया सकृदेवापि समभ्यर्च्य महेश्वरम् रुद्रलोकमनुप्राप्य रुद्रैः सार्धं प्रमोदते
संशोध्य च शुभं लिङ्गम् अमरासुरपूजितम् जलैः पूतैस्तथा पीठे देवमावाह्य भक्तितः
दृष्ट्वा देवं यथान्यायं प्रणिपत्य च शङ्करम् कल्पिते चासने स्थाप्य धर्मज्ञानमये शुभे
वैराग्यैश्वर्यसम्पन्ने सर्वलोकनमस्कृते ओङ्कारपद्ममध्ये तु सोमसूर्याग्निसंभवे
पाद्यमाचमनं चार्घ्यं दत्त्वा रुद्राय शंभवे स्नापयेद्दिव्यतोयैश् च घृतेन पयसा तथा
दध्ना च स्नापयेद्रुद्रं शोधयेच्च यथाविधि ततः शुद्धांबुना स्नाप्य चन्दनाद्यैश् च पूजयेत्
रोचनाद्यैश् च सम्पूज्य दिव्यपुष्पैश् च पूजयेत् बिल्वपत्रैरखण्डैश् च पद्मैर्नानाविधैस् तथा
नीलोत्पलैश् च राजीवैर् नद्यावर्तैश् च मल्लिकैः चम्पकैर् जातिपुष्पैश्च बकुलैः करवीरकैः
शमीपुष्पैर् बृहत्पुष्पैर् उन्मत्तागस्त्यजैरपि अपामार्गकदम्बैश् च भूषणैरपि शोभनैः
दत्त्वा पञ्चविधं धूपं पायसं च निवेदयेत् दधिभक्तं च मध्वाज्यपरिप्लुतमतः परम्
शुद्धान्नं चैव मुद्गान्नं षड्विधं च निवेदयेत् अथ पञ्चविधं वापि सघृतं विनिवेदयेत्
केवलं चापि शुद्धान्नम् आढकं तण्डुलं पचेत् कृत्वा प्रदक्षिणं चान्ते नमस्कृत्य मुहुर्मुहुः
स्तुत्वा च देवमीशानं पुनः सम्पूज्य शङ्करम् ईशानं पुरुषं चैव अघोरं वाममेव च
सद्योजातं जपंश्चापि पञ्चभिः पूजयेच्छिवम् अनेन विधिना देवः प्रसीदति महेश्वरः
वृक्षाः पुष्पादिपत्राद्यैर् उपयुक्ताः शिवार्चने गावश्चैव द्विजश्रेष्ठाः प्रयान्ति परमां गतिम्
पूजयेद्यः शिवं रुद्रं शर्वं भवमजं सकृत् स याति शिवसायुज्यं पुनरावृत्तिवर्जितम्
अर्चितं परमेशानं भवं शर्वमुमापतिम् सकृत्प्रसंगाद्वा दृष्ट्वा सर्वपापैः प्रमुच्यते
पूजितं वा महादेवं पूज्यमानमथापि वा दृष्ट्वा प्रयाति वै मर्त्यो ब्रह्मलोकं न संशयः
श्रुत्वानुमोदयेच्चापि स याति परमां गतिम् यो दद्याद् घृतदीपं च सकृल्लिङ्गस्य चाग्रतः
स तां गतिम् अवाप्नोति स्वाश्रमैर् दुर्लभां स्थिराम् दीपवृक्षं पार्थिवं वा दारवं वा शिवालये
दत्त्वा कुलशतं साग्रं शिवलोके महीयते आयसं ताम्रजं वापि रौप्यं सौवर्णिकं तथा
शिवाय दीपं यो दद्याद् विधिना वापि भक्तितः सूर्यायुतसमैः श्लक्ष्णैर् यानैः शिवपुरं व्रजेत्
कार्तिके मासि यो दद्याद् घृतदीपं शिवाग्रतः सम्पूज्यमानं वा पश्येद् विधिना परमेश्वरम्
स याति ब्रह्मणो लोकं श्रद्धया मुनिसत्तमाः आवाहनं सुसान्निध्यं स्थापनं पूजनं तथा
सम्प्रोक्तं रुद्रगायत्र्या आसनं प्रणवेन वै पञ्चभिः स्नपनं प्रोक्तं रुद्राद्यैश् च विशेषतः
एवं सम्पूजयेन्नित्यं देवदेवमुमापतिम् ब्रह्माणं दक्षिणे तस्य प्रणवेन समर्चयेत्
उत्तरे देवदेवेशं विष्णुं गायत्रिया यजेत् वह्नौ हुत्वा यथान्यायं पञ्चभिः प्रणवेन च
स याति शिवसायुज्यम् एवं सम्पूज्य शङ्करम् इति संक्षेपतः प्रोक्तो लिङ्गार्चनविधिक्रमः