तस्माद्वै सर्वकार्याणि दैविकानि द्विजोत्तमाः अद्भिः कार्याणि पूताभिः सर्वकार्यप्रसिद्धये
जन्तुभिर् मिश्रिता ह्यापः सूक्ष्माभिस्तान्निहत्य तु यत्पापं सकलं चाद्भिर् अपूताभिश्चिरं लभेत्
संमार्जने तथा नॄणां मार्जने च विशेषतः अग्नौ कण्डनके चैव पेषणे तोयसंग्रहे
हिंसा सदा गृहस्थानां तस्माद्धिंसां विवर्जयेत् अहिंसेयं परो धर्मः सर्वेषां प्राणिनां द्विजाः
तस्मात्सर्वप्रयत्नेन वस्त्रपूतं समाचरेत् तद्दानमभयं पुण्यं सर्वदानोत्तमोत्तमम्
तस्मात्तु परिहर्तव्या हिंसा सर्वत्र सर्वदा मनसा कर्मणा वाचा सर्वदाहिंसकं नरम्
रक्षन्ति जन्तवः सर्वे हिंसकं बाधयन्ति च त्रैलोक्यमखिलं दत्त्वा यत्फलं वेदपारगे
तत्फलं कोटिगुणितं लभते ऽहिंसको नरः मनसा कर्मणा वाचा सर्वभूतहिते रताः
दयादर्शितपन्थानो रुद्रलोकं व्रजन्ति च स्वामिवत्परिरक्षन्ति बहूनि विविधानि च
ये पुत्रपौत्रवत्स्नेहाद् रुद्रलोकं व्रजन्ति ते तस्मात्सर्वप्रयत्नेन वस्त्रपूतेन वारिणा
कार्यमभ्युक्षणं नित्यं स्नपनं च विशेषतः त्रैलोक्यमखिलं हत्वा यत्फलं परिकीर्त्यते
शिवालये निहत्यैकम् अपि तत्सकलं लभेत् शिवार्थं सर्वदा कार्या पुष्पहिंसा द्विजोत्तमाः
यज्ञार्थं पशुहिंसा च क्षत्रियैर्दुष्टशासनम् विहिताविहितं नास्ति योगिनां ब्रह्मवादिनाम्
यतस्तस्मान्न हन्तव्या निषिद्धानां निषेवणात् सर्वकर्माणि विन्यस्य संन्यस्ता ब्रह्मवादिनः
न हन्तव्याः सदा पूज्याः पापकर्मरता अपि पवित्रास्तु स्त्रियः सर्वा अत्रेश् च कुलसंभवाः
ब्रह्महत्यासमं पापम् आत्रेयीं विनिहत्य च स्त्रियः सर्वा न हन्तव्याः पापकर्मरता अपि
न यज्ञार्थं स्त्रियो ग्राह्याः सर्वैः सर्वत्र सर्वदा सर्ववर्णेषु विप्रेन्द्राः पापकर्मरता अपि
मलिना रूपवत्यश् च विरूपा मलिनांबराः न हन्तव्याः सदा मर्त्यैः शिववच्छङ्कया तथा
वेदबाह्यव्रताचाराः श्रौतस्मार्तबहिष्कृताः पाषण्डिन इति ख्याता न संभाष्या द्विजातिभिः
न स्पृष्टव्या न द्रष्टव्या दृष्ट्वा भानुं समीक्षते तथापि तेन वध्याश् च नृपैरन्यैश् च जन्तुभिः
प्रसंगाद्वापि यो मर्त्यः सतां सकृदहो द्विजाः रुद्रलोकमवाप्नोति समभ्यर्च्य महेश्वरम्
भवन्ति दुःखिताः सर्वे निर्दया मुनिसत्तमाः भक्तिहीना नराः सर्वे भवे परमकारणे
ये भक्ता देवदेवस्य शिवस्य परमेष्ठिनः भाग्यवन्तो विमुच्यन्ते भुक्त्वा भोगानिहैव ते
पुत्रेषु दारेषु गृहेषु नॄणां भक्तं यथा चित्तमथादिदेवे सकृत्प्रसंगाद्यतितापसानां तेषां न दूरः परमेशलोकः
कथं पूज्यो महादेवो मर्त्यैर्मन्दैर्महामते कल्पायुषैर् अल्पवीर्यैर् अल्पसत्त्वैः प्रजापतिः
संवत्सरसहस्रैश् च तपसा पूज्य शङ्करम् न पश्यन्ति सुराश्चापि कथं देवं यजन्ति ते
कथितं तथ्यम् एवात्र युष्माभिर् मुनिपुङ्गवाः तथापि श्रद्धया दृश्यः पूज्यः संभाष्य एव च
प्रसंगाच्चैव सम्पूज्य भक्तिहीनैरपि द्विजाः भावानुरूपफलदो भगवानिति कीर्तितः
उच्छिष्टः पूजयन्याति पैशाचं तु द्विजाधमः संक्रुद्धो राक्षसं स्थानं प्राप्नुयान् मूढधीर् द्विजाः
अभक्ष्यभक्षी सम्पूज्य याक्षं प्राप्नोति दुर्जनः गानशीलश् च गान्धर्वं नृत्यशीलस्तथैव च