येन केनापि वा मर्त्यः प्रलिप्यायतनाग्रतः उत्तरे दक्षिणे वापि पृष्ठतो वा द्विजोत्तमाः
चतुष्कोणं तु वा चूर्णैर् अलंकृत्य समन्ततः पुष्पाक्षतादिभिः पूज्य सर्वपापैः प्रमुच्यते
यस्तु गर्भगृहं भक्त्या सकृदालिप्य सर्वतः चन्दनाद्यैः सकर्पूरैर् गन्धद्रव्यैः समन्ततः
विकीर्य गन्धकुसुमैर् धूपैर्धूप्य चतुर्विधैः प्रार्थयेद्देवमीशानं शिवलोकं स गच्छति
तत्र भुक्त्वा महाभोगान् कल्पकोटिशतं नरः स्वदेहगन्धकुसुमैः पूरयञ्छिवमन्दिरम्
क्रमाद्गान्धर्वमासाद्य गन्धर्वैश् च सुपूजितः क्रमादागत्य लोके ऽस्मिन् राजा भवति वीर्यवान्
आदिदेवो महादेवः प्रलयस्थितिकारकः सर्गश् च भुवनाधीशः शर्वव्यापी सदाशिवः शिवब्रह्मामृतं ग्राह्यं मोक्षसाधनम् उत्तमम्
व्यक्ताव्यक्तं सदा नित्यम् अचिन्त्यम् अर्चयेत् प्रभुम्
वस्त्रपूतेन तोयेन कार्यं चैवोपलेपनम् शिवक्षेत्रे मुनिश्रेष्ठा नान्यथा सिद्धिरिष्यते
आपः पूता भवन्त्येता वस्त्रपूताः समुद्धृताः अफेना मुनिशार्दूला नादेयाश् च विशेषतः
तस्माद्वै सर्वकार्याणि दैविकानि द्विजोत्तमाः अद्भिः कार्याणि पूताभिः सर्वकार्यप्रसिद्धये
जन्तुभिर् मिश्रिता ह्यापः सूक्ष्माभिस्तान्निहत्य तु यत्पापं सकलं चाद्भिर् अपूताभिश्चिरं लभेत्
संमार्जने तथा नॄणां मार्जने च विशेषतः अग्नौ कण्डनके चैव पेषणे तोयसंग्रहे
हिंसा सदा गृहस्थानां तस्माद्धिंसां विवर्जयेत् अहिंसेयं परो धर्मः सर्वेषां प्राणिनां द्विजाः
तस्मात्सर्वप्रयत्नेन वस्त्रपूतं समाचरेत् तद्दानमभयं पुण्यं सर्वदानोत्तमोत्तमम्
तस्मात्तु परिहर्तव्या हिंसा सर्वत्र सर्वदा मनसा कर्मणा वाचा सर्वदाहिंसकं नरम्
रक्षन्ति जन्तवः सर्वे हिंसकं बाधयन्ति च त्रैलोक्यमखिलं दत्त्वा यत्फलं वेदपारगे
तत्फलं कोटिगुणितं लभते ऽहिंसको नरः मनसा कर्मणा वाचा सर्वभूतहिते रताः
दयादर्शितपन्थानो रुद्रलोकं व्रजन्ति च स्वामिवत्परिरक्षन्ति बहूनि विविधानि च
ये पुत्रपौत्रवत्स्नेहाद् रुद्रलोकं व्रजन्ति ते तस्मात्सर्वप्रयत्नेन वस्त्रपूतेन वारिणा
कार्यमभ्युक्षणं नित्यं स्नपनं च विशेषतः त्रैलोक्यमखिलं हत्वा यत्फलं परिकीर्त्यते
शिवालये निहत्यैकम् अपि तत्सकलं लभेत् शिवार्थं सर्वदा कार्या पुष्पहिंसा द्विजोत्तमाः
यज्ञार्थं पशुहिंसा च क्षत्रियैर्दुष्टशासनम् विहिताविहितं नास्ति योगिनां ब्रह्मवादिनाम्
यतस्तस्मान्न हन्तव्या निषिद्धानां निषेवणात् सर्वकर्माणि विन्यस्य संन्यस्ता ब्रह्मवादिनः
न हन्तव्याः सदा पूज्याः पापकर्मरता अपि पवित्रास्तु स्त्रियः सर्वा अत्रेश् च कुलसंभवाः
ब्रह्महत्यासमं पापम् आत्रेयीं विनिहत्य च स्त्रियः सर्वा न हन्तव्याः पापकर्मरता अपि
न यज्ञार्थं स्त्रियो ग्राह्याः सर्वैः सर्वत्र सर्वदा सर्ववर्णेषु विप्रेन्द्राः पापकर्मरता अपि
मलिना रूपवत्यश् च विरूपा मलिनांबराः न हन्तव्याः सदा मर्त्यैः शिववच्छङ्कया तथा
वेदबाह्यव्रताचाराः श्रौतस्मार्तबहिष्कृताः पाषण्डिन इति ख्याता न संभाष्या द्विजातिभिः
न स्पृष्टव्या न द्रष्टव्या दृष्ट्वा भानुं समीक्षते तथापि तेन वध्याश् च नृपैरन्यैश् च जन्तुभिः