केदारे च महाक्षेत्रे प्रयागे च विशेषतः कुरुक्षेत्रे च यः प्राणान् संत्यजेद्याति निर्वृतिम्
प्रभासे पुष्करे ऽवन्त्यां तथा चैवामरेश्वरे वणीशैलाकुले चैव मृतो याति शिवात्मताम्
वाराणस्यां मृतो जन्तुर् न जातु जन्तुतां व्रजेत् त्रिविष्टपे विमुक्ते च केदारे संगमेश्वरे
शालङ्के वा त्यजेत्प्राणांस् तथा वै जम्बुकेश्वरे शुक्रेश्वरे वा गोकर्णे भास्करेशे गुहेश्वरे
हिरण्यगर्भे नन्दीशे स याति परमां गतिम् नियमैः शोष्य यो देहं त्यजेत्क्षेत्रे शिवस्य तु
स याति शिवतां योगी मानुषे दैविके ऽपि वा आर्षे वापि मुनिश्रेष्ठास् तथा स्वायंभुवे ऽपि वा
स्वयंभूते तथा देवे नात्र कार्या विचारणा आधायाग्निं शिवक्षेत्रे सम्पूज्य परमेश्वरम्
स्वदेहपिण्डं जुहुयाद् यः स याति परां गतिम् यावत्तावन्निराहारो भूत्वा प्राणान् परित्यजेत्
शिवक्षेत्रे मुनिश्रेष्ठाः शिवसायुज्यमाप्नुयात् छित्त्वा पादद्वयं चापि शिवक्षेत्रे वसेत्तु यः
स याति शिवतां चैव नात्र कार्या विचारणा क्षेत्रस्य दर्शनं पुण्यं प्रवेशस्तच्छताधिकः
तस्माच्छतगुणं पुण्यं स्पर्शनं च प्रदक्षिणम् तस्माच्छतगुणं पुण्यं जलस्नानमतः परम्
क्षीरस्नानं ततो विप्राः शताधिकमनुत्तमम् दध्ना सहस्रमाख्यातं मधुना तच्छताधिकम्
घृतस्नानेन चानन्तं शार्करे तच्छताधिकम् शिवक्षेत्रसमीपस्थां नदीं प्राप्यावगाह्य च
त्यजेद्देहं विहायान्नं शिवलोके महीयते शिवक्षेत्रसमीपस्था नद्यः सर्वाः सुशोभनाः
वापीकूपतडागाश् च शिवतीर्था इति स्मृताः स्नात्वा तेषु नरो भक्त्या तीर्थेषु द्विजसत्तमाः
ब्रह्महत्यादिभिः पापैर् मुच्यते नात्र संशयः प्रातः स्नात्वा मुनिश्रेष्ठाः शिवतीर्थेषु मानवः
अश्वमेधफलं प्राप्य रुद्रलोकं स गच्छति मध्याह्ने शिवतीर्थेषु स्नात्वा भक्त्या सकृन्नरः
गङ्गास्नानसमं पुण्यं लभते नात्र संशयः अस्तं गते तथा चार्के स्नात्वा गच्छेच्छिवं पदम्
पापकञ्चुकमुत्सृज्य शिवतीर्थेषु मानवः द्विजास् त्रिषवणं स्नात्वा शिवतीर्थे सकृन्नरः
शिवसायुज्यमाप्नोति नात्र कार्या विचारणा पुराथ सूकरः कश्चित् श्वानं दृष्ट्वा भयात्पथि
प्रसंगाद्वारमेकं तु शिवतीर्थे ऽवगाह्य च मृतः स्वयं द्विजश्रेष्ठा गाणपत्यमवाप्तवान्
यः प्रातर्देवदेवेशं शिवं लिङ्गस्वरूपिणम् पश्येत्स याति सर्वस्माद् अधिकां गतिमेव च
मध्याह्ने च महादेवं दृष्ट्वा यज्ञफलं लभेत् सायाह्ने सर्वयज्ञानां फलं प्राप्य विमुच्यते
मानसैर्वाचिकैः पापैः कायिकैश् च महत्तरैः तथोपपातकैश्चैव पापैश्चैवानुपातकैः
संक्रमे देवमीशानं दृष्ट्वा लिङ्गाकृतिं प्रभुम् मासेन यत्कृतं पापं त्यक्त्वा याति शिवं पदम्
अयने चार्धमासेन दक्षिणे चोत्तरायणे विषुवे चैव सम्पूज्य प्रयाति परमां गतिम्
प्रदक्षिणत्रयं कुर्याद् यः प्रासादं समन्ततः सव्यापसव्यन्यायेन मृदुगत्या शुचिर्नरः
पदे पदे ऽश्वमेधस्य यज्ञस्य फलमाप्नुयात् वाचा यस्तु शिवं नित्यं संरौति परमेश्वरम्
सो ऽपि याति शिवं स्थानं प्राप्य किं पुनरेव च कृत्वा मण्डलकं क्षेत्रं गन्धगोमयवारिणा
मुक्ताफलमयैश्चूर्णैर् इन्द्रनीलमयैस् तथा पद्मरागमयैश्चैव स्फाटिकैश् च सुशोभनैः