मन्दरं वा प्रकुर्वीत शिवाय विधिपूर्वकम् भक्त्या वित्तानुसारेण उत्तमाधममध्यमम्
मन्दराद्रिप्रतीकाशैर् विमानैर्विश्वतोमुखैः अप्सरोगणसंकीर्णैर् देवदानवदुर्लभैः
गत्वा शिवपुरं रम्यं भुक्त्वा भोगान् यथेप्सितान् ज्ञानयोगं समासाद्य गाणपत्यं लभेन्नरः
यः कुर्यान्मेरुनामानं प्रासादं परमेष्ठिनः स यत्फलमवाप्नोति न तत् सर्वैर् महामखैः
सर्वयज्ञतपोदानतीर्थवेदेषु यत्फलम् तत्फलं सकलं लब्ध्वा शिववन्मोदते चिरम्
निषधं नाम यः कुर्यात् प्रासादं भक्तितः सुधीः शिवलोकमनुप्राप्य शिववन्मोदते चिरम्
कुर्याद्वा यः शुभं विप्रा हिमशैलमनुत्तमम् हिमशैलोपमैर् यानैर् गत्वा शिवपुरं शुभम्
ज्ञानयोगं समासाद्य गाणपत्यमवाप्नुयात् नीलाद्रिशिखराख्यं वा प्रासादं यः सुशोभनम्
कृत्वा वित्तानुसारेण भक्त्या रुद्राय शंभवे यत्फलं लभते मर्त्यस् तत्फलं प्रवदाम्यहम्
हिमशैले कृते भक्त्या यत्फलं प्राक् तवोदितम् तत्फलं सकलं लब्ध्वा सर्वदेवनमस्कृतः
रुद्रलोकमनुप्राप्य रुद्रैः सार्धं प्रमोदते महेन्द्रशैलनामानं प्रासादं रुद्रसंमतम्
कृत्वा यत्फलमाप्नोति तत्फलं प्रवदाम्यहम् महेन्द्रपर्वताकारैर् विमानैर्वृषसंयुतैः
गत्वा शिवपुरं दिव्यं भुक्त्वा भोगान्यथेप्सितान् ज्ञानं विचारितं रुद्रैः सम्प्राप्य मुनिपुङ्गवाः
विषयान् विषवत् त्यक्त्वा शिवसायुज्यमाप्नुयात् हेम्ना यस्तु प्रकुर्वीत प्रासादं रत्नशोभितम्
द्राविडं नागरं वापि केसरं वा विधानतः कूटं वा मण्डपं वापि समं वा दीर्घम् एव च
न तस्य शक्यते वक्तुं पुण्यं शतयुगैरपि जीर्णं वा पतितं वापि खण्डितं स्फुटितं तथा
पूर्ववत्कारयेद्यस्तु द्वाराद्यैः सुशुभं द्विजाः प्रासादं मण्डपं वापि प्राकारं गोपुरं तु वा
कर्तुरप्यधिकं पुण्यं लभते नात्र संशयः वृत्त्यर्थं वा प्रकुर्वीत नरः कर्म शिवालये
यः स याति न संदेहः स्वर्गलोकं सबान्धवः यश्चात्मभोगसिद्ध्यर्थम् अपि रुद्रालये सकृत्
कर्म कुर्याद्यदि सुखं लब्ध्वा चापि प्रमोदते तस्माद् आयतनं भक्त्या यः कुर्यान् मुनिसत्तमाः
काष्ठेष्टकादिभिर् मर्त्यः शिवलोके महीयते प्रसादार्थं महेशस्य प्रासादे मुनिपुङ्गवाः
कर्तव्यः सर्वयत्नेन धर्मकामार्थमुक्तये अशक्तश्चेन्मुनिश्रेष्ठाः प्रासादं कर्तुमुत्तमम्
संमार्जनादिभिर् वापि सर्वान्कामानवाप्नुयात् संमार्जनं तु यः कुर्यान् मार्जन्या मृदुसूक्ष्मया
चान्द्रायणसहस्रस्य फलं मासेन लभ्यते यः कुर्याद्वस्त्रपूतेन गन्धगोमयवारिणा
आलेपनं यथान्यायं वर्षचान्द्रायणं लभेत् अर्धक्रोशं शिवक्षेत्रं शिवलिङ्गात्समन्ततः
यस् त्यजेद् दुस्त्यजान् प्राणाञ् शिवसायुज्यम् आप्नुयात् स्वायंभुवस्य मानं हि तथा बाणस्य सुव्रताः
स्वायंभुवे तदर्धं स्यात् स्याद् आर्षे च तदर्धकम् मानुषे च तदर्धं स्यात् क्षेत्रमानं द्विजोत्तमाः
एवं यतीनामावासे क्षेत्रमानं द्विजोत्तमाः रुद्रावतारे चाद्यं यच् छिष्ये चैव प्रशिष्यके
नरावतारे तच्छिष्ये तच्छिष्ये च प्रशिष्यके श्रीपर्वते महापुण्ये तस्य प्रान्ते च वा द्विजाः
तस्मिन्वा यस्त्यजेत्प्राणाञ् छिवसायुज्यमाप्नुयात् वाराणस्यां तथाप्येवम् अविमुक्ते विशेषतः