बिभ्रतो वामहस्तेन कपालं ब्रह्मणो वरम् विष्णोः कलेवरं चैव बिभ्रतः परमेष्ठिनः
कृत्वा भक्त्या प्रतिष्ठाप्य मुच्यते भवसागरात् ओंनमो नीलकण्ठाय इति पुण्याक्षराष्टकम्
मन्त्रमाह सकृद्वा यः पातकैः स विमुच्यते मन्त्रेणानेन गन्धाद्यैर् भक्त्या वित्तानुसारतः
सम्पूज्य देवदेवेशं शिवलोके महीयते जालन्धरान्तकं देवं सुदर्शनधरं प्रभुम्
कृत्वा भक्त्या प्रतिष्ठाप्य द्विधाभूतं जलंधरम् प्रयाति शिवसायुज्यं नात्र कार्या विचारणा
सुदर्शनप्रदं देवं साक्षात्पूर्वोक्तलक्षणम् अर्चमानेन देवेन चार्चितं नेत्रपूजया
कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोके महीयते तिष्ठतो ऽथ निकुम्भस्य पृष्ठतश्चरणांबुजम्
वामेतरं सुविन्यस्य वामे चालिङ्ग्य चाद्रिजाम् शूलाग्रे कूर्परं स्थाप्य किङ्किणीकृतपन्नगम्
सम्प्रेक्ष्य चान्धकं पार्श्वे कृताञ्जलिपुटं स्थितम् रूपं कृत्वा यथान्यायं शिवसायुज्यमाप्नुयात्
यः कुर्याद्देवदेवेशं त्रिपुरान्तकमीश्वरम् धनुर्बाणसमायुक्तं सोमं सोमार्धभूषणम्
रथे सुसंस्थितं देवं चतुराननसारथिम् तदाकारतया सो ऽपि गत्वा शिवपुरं सुखी
क्रीडते नात्र संदेहो द्वितीय इव शङ्करः तत्र भुक्त्वा महाभोगान् यावद् इच्छा द्विजोत्तमाः
ज्ञानं विचारितं लब्ध्वा तत्रैव स विमुच्यते
गङ्गाधरं सुखासीनं चन्द्रशेखरमेव च
गङ्गया सहितं चैव वामोत्सङ्गे ऽंबिकान्वितम् विनायकं तथा स्कन्दं ज्येष्ठं दुर्गां सुशोभनाम्
भास्करं च तथा सोमं ब्रह्माणीं च महेश्वरीम् कौमारीं वैष्णवीं देवीं वाराहीं वरदां तथा
इन्द्राणीं चैव चामुण्डां वीरभद्रसमन्विताम् विघ्नेशेन च यो धीमान् शिवसायुज्यमाप्नुयात्
लिङ्गमूर्तिं महाज्वालामालासंवृतम् अव्ययम् लिङ्गस्य मध्ये वै कृत्वा चन्द्रशेखरमीश्वरम्
व्योम्नि कुर्यात् तथा लिङ्गं ब्रह्माणं हंसरूपिणम् विष्णुं वराहरूपेण लिङ्गस्याधस्त्वधोमुखम्
ब्रह्माणं दक्षिणे तस्य कृताञ्जलिपुटं स्थितम् मध्ये लिङ्गं महाघोरं महाम्भसि च संस्थितम्
कृत्वा भक्त्या प्रतिष्ठाप्य शिवसायुज्यमाप्नुयात् क्षेत्रसंरक्षकं देवं तथा पाशुपतं प्रभुम्
कृत्वा भक्त्या यथान्यायं शिवलोके महीयते
लिङ्गप्रतिष्ठापुण्यं च लिङ्गस्थापनमेव च लिङ्गानां चैव भेदाश् च श्रुतं तव मुखादिह
मृदादिरत्नपर्यन्तैर् द्रव्यैः कृत्वा शिवालयम् यत्फलं लभते मर्त्यस् तत्फलं वक्तुमर्हसि
यस्य भक्तो ऽपि लोके ऽस्मिन् पुत्रदारगृहादिभिः बाध्यते ज्ञानयुक्तश्चेन् न च तस्य गृहैस्तु किम्
तथापि भक्ताः परमेश्वरस्य कृत्वेष्टलोष्टैरपि रुद्रलोकम् प्रयान्ति दिव्यं हि विमानवर्यं सुरेन्द्रपद्मोद्भववन्दितस्य
गृहं च तादृग्विधमस्य शंभोः सम्पूज्य रुद्रत्वमवाप्नुवन्ति
तस्मात्सर्वप्रयत्नेन भक्त्या भक्तैः शिवालयम् कर्तव्यं सर्वयत्नेन धर्मकामार्थसिद्धये
केसरं नागरं वापि द्राविडं वा तथापरम् कृत्वा रुद्रालयं भक्त्या शिवलोके महीयते
कैलासाख्यं च यः कुर्यात् प्रासादं परमेष्ठिनः कैलासशिखराकारैर् विमानैर् मोदते सुखी