भृग्वाद्यैर्भूतसंघैश् च संवृतं परमेश्वरम् शैलजासहितं साक्षाद् वृषभध्वजमीश्वरम्
ब्रह्मेन्द्रविष्णुसोमाद्यैः सदा सर्वैर्नमस्कृतम् मातृभिर् मुनिभिश्चैव संवृतं परमेश्वरम्
कृत्वा भक्त्या प्रतिष्ठाप्य यत्फलं तद्वदाम्यहम् सर्वयज्ञतपोदानतीर्थदेवेषु यत् फलम्
तत्फलं कोटिगुणितं लब्ध्वा याति शिवं पदम् तत्र भुक्त्वा महाभोगान् यावद् आभूतसंप्लवम्
सृष्ट्यन्तरे पुनः प्राप्ते मानवं पदमाप्नुयात् नग्नं चतुर्भुजं श्वेतं त्रिनेत्रं सर्पमेखलम्
कपालहस्तं देवेशं कृष्णकुञ्चितमूर्धजम् कृत्वा भक्त्या प्रतिष्ठाप्य शिवसायुज्यमाप्नुयात्
इभेन्द्रदारकं देवं सांबं सिद्धार्थदं प्रभुम् सुधूम्रवर्णं रक्ताक्षं त्रिनेत्रं चन्द्रभूषणम्
काकपक्षधरं मूर्ध्ना नागटङ्कधरं हरम् सिंहाजिनोत्तरीयं च मृगचर्मांबरं प्रभुम्
तीक्ष्णदंष्ट्रं गदाहस्तं कपालोद्यतपाणिनम् हुंफट्कारे महाशब्दशब्दिताखिलदिङ्मुखम्
पुण्डरीकाजिनं दोर्भ्यां बिभ्रन्तं कम्बुकं तथा हसन्तं च नदन्तं च पिबन्तं कृष्णसागरम्
नृत्यन्तं भूतसंघैश् च गणसंघैस् त्वलंकृतम् कृत्वा भक्त्या प्रतिष्ठाप्य यथाविभवविस्तरम्
सर्वविघ्नान् अतिक्रम्य शिवलोके महीयते तत्र भुक्त्वा महाभोगान् यावदाभूतसंप्लवम्
ज्ञानं विचारतो लब्ध्वा रुद्रेभ्यस्तत्र मुच्यते अर्धनारीश्वरं देवं चतुर्भुजमनुत्तमम्
वरदाभयहस्तं च शूलपद्मधरं प्रभुम् स्त्रीपुंभावेन संस्थानं सर्वाभरणभूषितम्
कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोके महीयते तत्र भुक्त्वा महाभोगान् अणिमादिगुणैर्युतः
आचन्द्रतारकं ज्ञानं ततो लब्ध्वा विमुच्यते यः कुर्याद्देवदेवेशं सर्वज्ञं लकुलीश्वरम्
वृतं शिष्यप्रशिष्यैश् च व्याख्यानोद्यतपाणिनम् कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोकं स गच्छति
भुक्त्वा तु विपुलांस्तत्र भोगान् युगशतं नरः ज्ञानयोगं समासाद्य तत्रैव च विमुच्यते
पूर्वदेवामराणां च यत्स्थानं सकलेप्सितम् कृतमुद्रस्य देवस्य चिताभस्मानुलेपिनः
त्रिपुण्ड्रधारिणस्तेषां शिरोमालाधरस्य च ब्रह्मणः केशकेनैकम् उपवीतं च बिभ्रतः
बिभ्रतो वामहस्तेन कपालं ब्रह्मणो वरम् विष्णोः कलेवरं चैव बिभ्रतः परमेष्ठिनः
कृत्वा भक्त्या प्रतिष्ठाप्य मुच्यते भवसागरात् ओंनमो नीलकण्ठाय इति पुण्याक्षराष्टकम्
मन्त्रमाह सकृद्वा यः पातकैः स विमुच्यते मन्त्रेणानेन गन्धाद्यैर् भक्त्या वित्तानुसारतः
सम्पूज्य देवदेवेशं शिवलोके महीयते जालन्धरान्तकं देवं सुदर्शनधरं प्रभुम्
कृत्वा भक्त्या प्रतिष्ठाप्य द्विधाभूतं जलंधरम् प्रयाति शिवसायुज्यं नात्र कार्या विचारणा
सुदर्शनप्रदं देवं साक्षात्पूर्वोक्तलक्षणम् अर्चमानेन देवेन चार्चितं नेत्रपूजया
कृत्वा भक्त्या प्रतिष्ठाप्य शिवलोके महीयते तिष्ठतो ऽथ निकुम्भस्य पृष्ठतश्चरणांबुजम्
वामेतरं सुविन्यस्य वामे चालिङ्ग्य चाद्रिजाम् शूलाग्रे कूर्परं स्थाप्य किङ्किणीकृतपन्नगम्
सम्प्रेक्ष्य चान्धकं पार्श्वे कृताञ्जलिपुटं स्थितम् रूपं कृत्वा यथान्यायं शिवसायुज्यमाप्नुयात्
यः कुर्याद्देवदेवेशं त्रिपुरान्तकमीश्वरम् धनुर्बाणसमायुक्तं सोमं सोमार्धभूषणम्