स्कन्दोमासहितं देवं सम्पूज्य विधिना सकृत् यत्फलं लभते मर्त्यस् तद्वदामि यथाश्रुतम्
सूर्यकोटिप्रतिकाशैर् विमानैः सार्वकामिकैः रुद्रकन्यासमाकीर्णैर् गेयनाट्यसमन्वितैः
शिववत्क्रीडते योगी यावदाभूतसंप्लवम् तत्र भुक्त्वा महाभोगान् विमानैः सार्वकामिकैः
औमं कौमारमैशानं वैष्णवं ब्राह्ममेव च प्राजापत्यं महातेजा जनलोकं महस् तथा
ऐन्द्रम् आसाद्य चैन्द्रत्वं कृत्वा वर्षायुतं पुनः भुक्त्वा चैव भुवर्लोके भोगान् दिव्यान् सुशोभनान्
मेरुमासाद्य देवानां भवनेषु प्रमोदते एकपादं चतुर्बाहुं त्रिनेत्रं शूलसंयुतम्
सृष्ट्वा स्थितं हरिं वामे दक्षिणे चतुराननम् अष्टाविंशतिरुद्राणां कोटिः सर्वाङ्गसुप्रभम्
पञ्चविंशतिकं साक्षात् पुरुषं हृदयात्तथा प्रकृतिं वामतश्चैव बुद्धिं वै बुद्धिदेशतः
अहङ्कारमहङ्कारात् तन्मात्राणि तु तत्र वै इन्द्रियाणीन्द्रियादेव लीलया परमेश्वरम्
पृथिवीं पादमूलात्तु गुह्यदेशाज्जलं तथा नाभिदेशात् तथा वह्निं हृदयाद्भास्करं तथा
कण्ठात्सोमं तथात्मानं भ्रूमध्यान्मस्तकाद्दिवम् सृष्टैवं संस्थितं साक्षाज् जगत्सर्वं चराचरम्
सर्वज्ञं सर्वगं देवं कृत्वा विद्याविधानतः प्रतिष्ठाप्य यथान्यायं शिवसायुज्यमाप्नुयात्
त्रिपादं सप्तहस्तं च चतुःशृङ्गं द्विशीर्षकम् कृत्वा यज्ञेशमीशानं विष्णुलोके महीयते
तत्र भुक्त्वा महाभोगान् कल्पलक्षं सुखी नरः क्रमादागत्य लोके ऽस्मिन् सर्वयज्ञान्तगो भवेत्
वृषारूढं तु यः कुर्यात् सोमं सोमार्धभूषणम् हयमेधायुतं कृत्वा यत्पुण्यं तद् अवाप्य सः
काञ्चनेन विमानेन किङ्किणीजालमालिना गत्वा शिवपुरं दिव्यं तत्रैव स विमुच्यते
नन्दिना सहितं देवं साम्बं सर्वगणैर्वृतम् कृत्वा यत्फलमाप्नोति वक्ष्ये तद्वै यथाश्रुतम्
सूर्यमण्डलसंकाशैर् विमानैर् वृषसंयुतैः अप्सरोगणसंकीर्णैर् देवदानवदुर्लभैः
नृत्यद्भिर् अप्सरःसंघैः सर्वतः सर्वशोभितैः गत्वा शिवपुरं दिव्यं गाणपत्यमवाप्नुयात्
नृत्यन्तं देवदेवेशं शैलजासहितं प्रभुम् सहस्रबाहुं सर्वज्ञं चतुर्बाहुम् अथापि वा
भृग्वाद्यैर्भूतसंघैश् च संवृतं परमेश्वरम् शैलजासहितं साक्षाद् वृषभध्वजमीश्वरम्
ब्रह्मेन्द्रविष्णुसोमाद्यैः सदा सर्वैर्नमस्कृतम् मातृभिर् मुनिभिश्चैव संवृतं परमेश्वरम्
कृत्वा भक्त्या प्रतिष्ठाप्य यत्फलं तद्वदाम्यहम् सर्वयज्ञतपोदानतीर्थदेवेषु यत् फलम्
तत्फलं कोटिगुणितं लब्ध्वा याति शिवं पदम् तत्र भुक्त्वा महाभोगान् यावद् आभूतसंप्लवम्
सृष्ट्यन्तरे पुनः प्राप्ते मानवं पदमाप्नुयात् नग्नं चतुर्भुजं श्वेतं त्रिनेत्रं सर्पमेखलम्
कपालहस्तं देवेशं कृष्णकुञ्चितमूर्धजम् कृत्वा भक्त्या प्रतिष्ठाप्य शिवसायुज्यमाप्नुयात्
इभेन्द्रदारकं देवं सांबं सिद्धार्थदं प्रभुम् सुधूम्रवर्णं रक्ताक्षं त्रिनेत्रं चन्द्रभूषणम्
काकपक्षधरं मूर्ध्ना नागटङ्कधरं हरम् सिंहाजिनोत्तरीयं च मृगचर्मांबरं प्रभुम्
तीक्ष्णदंष्ट्रं गदाहस्तं कपालोद्यतपाणिनम् हुंफट्कारे महाशब्दशब्दिताखिलदिङ्मुखम्
पुण्डरीकाजिनं दोर्भ्यां बिभ्रन्तं कम्बुकं तथा हसन्तं च नदन्तं च पिबन्तं कृष्णसागरम्