ज्ञानिनां सूक्ष्मममलं भवेत्प्रत्यक्षमव्ययम् यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम्
अर्थो विचारतो नास्तीत्य् अन्ये तत्त्वार्थवेदिनः निष्कलः सकलश्चेति सर्वं शिवमयं ततः
व्योमैकमपि दृष्टं हि शरावं प्रति सुव्रताः पृथक्त्वं चापृथक्त्वं च शङ्करस्येति चापरे
प्रत्ययार्थं हि जगताम् एकस्थो ऽपि दिवाकरः एको ऽपि बहुधा दृष्टो जलाधारेषु सुव्रताः
जन्तवो दिवि भूमौ च सर्वे वै पाञ्चभौतिकाः तथापि बहुला दृष्टा जातिव्यक्तिविभेदतः
दृश्यते श्रूयते यद्यत् तत्तद्विद्धि शिवात्मकम् भेदो जनानां लोके ऽस्मिन् प्रतिभासो विचारतः
स्वप्ने च विपुलान् भोगान् भुक्त्वा मर्त्यः सुखी भवेत् दुःखी च भोगं दुःखं च नानुभूतं विचारतः
एवमाहुस्तथान्ये च सर्वे वेदार्थतत्त्वगाः हृदि संसारिणां साक्षात् सकलः परमेश्वरः
योगिनां निष्कलो देवो ज्ञानिनां च जगन्मयः त्रिविधं परमेशस्य वपुर्लोके प्रशस्यते
निष्कलं प्रथमं चैकं ततः सकलनिष्कलम् तृतीयं सकलं चैव नान्यथेति द्विजोत्तमाः
अर्चयन्ति मुहुः केचित् सदा सकलनिष्कलम् सर्वज्ञं हृदये केचिच् छिवलिङ्गे विभावसौ
सकलं मुनयः केचित् सदा संसारवर्तिनः एवमभ्यर्चयन्त्येव सदाराः ससुता नराः
यथा शिवस् तथा देवी यथा देवी तथा शिवः तस्मादभेदबुद्ध्यैव सप्तविंशत्प्रभेदतः
यजन्ति देहे बाह्ये च चतुष्कोणे षडस्रके दशारे द्वादशारे च षोडशारे त्रिरस्रके
स स्वेच्छया शिवः साक्षाद् देव्या सार्धं स्थितः प्रभुः संतारणार्थं च शिवः सदसद्व्यक्तिवर्जितः
तमेकमाहुर्द्विगुणं च केचित् केचित्तमाहुस्त्रिगुणात्मकं च ऊचुस् तथा तं च शिवं तथान्ये संसारिणं वेदविदो वदन्ति
भक्त्या च योगेन शुभेन युक्ता विप्राः सदा धर्मरता विशिष्टाः यजन्ति योगेशम् अशेषमूर्तिं षडस्रमध्ये भगवन्तमेव
ये तत्र पश्यन्ति शिवं त्रिरस्रे त्रितत्त्वमध्ये त्रिगुणं त्रियक्षम् ते यान्ति चैनं न च योगिनो ऽन्ये तया च देव्या पुरुषं पुराणम्
अतः परं प्रवक्ष्यामि स्वेच्छाविग्रहसंभवम् प्रतिष्ठायाः फलं सर्वं सर्वलोकहिताय वै
स्कन्दोमासहितं देवम् आसीनं परमासने कृत्वा भक्त्या प्रतिष्ठाप्य सर्वान्कामानवाप्नुयात्
स्कन्दोमासहितं देवं सम्पूज्य विधिना सकृत् यत्फलं लभते मर्त्यस् तद्वदामि यथाश्रुतम्
सूर्यकोटिप्रतिकाशैर् विमानैः सार्वकामिकैः रुद्रकन्यासमाकीर्णैर् गेयनाट्यसमन्वितैः
शिववत्क्रीडते योगी यावदाभूतसंप्लवम् तत्र भुक्त्वा महाभोगान् विमानैः सार्वकामिकैः
औमं कौमारमैशानं वैष्णवं ब्राह्ममेव च प्राजापत्यं महातेजा जनलोकं महस् तथा
ऐन्द्रम् आसाद्य चैन्द्रत्वं कृत्वा वर्षायुतं पुनः भुक्त्वा चैव भुवर्लोके भोगान् दिव्यान् सुशोभनान्
मेरुमासाद्य देवानां भवनेषु प्रमोदते एकपादं चतुर्बाहुं त्रिनेत्रं शूलसंयुतम्
सृष्ट्वा स्थितं हरिं वामे दक्षिणे चतुराननम् अष्टाविंशतिरुद्राणां कोटिः सर्वाङ्गसुप्रभम्
पञ्चविंशतिकं साक्षात् पुरुषं हृदयात्तथा प्रकृतिं वामतश्चैव बुद्धिं वै बुद्धिदेशतः
अहङ्कारमहङ्कारात् तन्मात्राणि तु तत्र वै इन्द्रियाणीन्द्रियादेव लीलया परमेश्वरम्
पृथिवीं पादमूलात्तु गुह्यदेशाज्जलं तथा नाभिदेशात् तथा वह्निं हृदयाद्भास्करं तथा