अथानेनैव कर्मात्मा प्रकृतेस्तु प्रवर्तकः पुंसां तु पुरुषः श्रीमान् ज्ञानगम्यो न चान्यथा
कर्मयज्ञसहस्रेभ्यस् तपोयज्ञो विशिष्यते तपोयज्ञसहस्रेभ्यो जपयज्ञो विशिष्यते
जपयज्ञसहस्रेभ्यो ध्यानयज्ञो विशिष्यते ध्यानयज्ञात्परो नास्ति ध्यानं ज्ञानस्य साधनम्
यदा समरसे निष्ठो योगी ध्यानेन पश्यति ध्यानयज्ञरतस्यास्य तदा संनिहितः शिवः
नास्ति विज्ञानिनां शौचं प्रायश्चित्तादि चोदना विशुद्धा विद्यया सर्वे ब्रह्मविद्याविदो जनाः
नास्ति क्रिया च लोकेषु सुखं दुःखं विचारतः धर्माधर्मौ जपो होमो ध्यानिनां संनिधिः सदा
परानन्दात्मकं लिङ्गं विशुद्धं शिवमक्षरम् निष्कलं सर्वगं ज्ञेयं योगिनां हृदि संस्थितम्
लिङ्गं तु द्विविधं प्राहुर् बाह्यमाभ्यन्तरं द्विजाः बाह्यं स्थूलं मुनिश्रेष्ठाः सूक्ष्ममाभ्यन्तरं द्विजाः
कर्मयज्ञरताः स्थूलाः स्थूललिङ्गार्चने रताः असतां भावनार्थाय नान्यथा स्थूलविग्रहः
आध्यात्मिकं च यल्लिङ्गं प्रत्यक्षं यस्य नो भवेत् असौ मूढो बहिः सर्वं कल्पयित्वैव नान्यथा
ज्ञानिनां सूक्ष्मममलं भवेत्प्रत्यक्षमव्ययम् यथा स्थूलमयुक्तानां मृत्काष्ठाद्यैः प्रकल्पितम्
अर्थो विचारतो नास्तीत्य् अन्ये तत्त्वार्थवेदिनः निष्कलः सकलश्चेति सर्वं शिवमयं ततः
व्योमैकमपि दृष्टं हि शरावं प्रति सुव्रताः पृथक्त्वं चापृथक्त्वं च शङ्करस्येति चापरे
प्रत्ययार्थं हि जगताम् एकस्थो ऽपि दिवाकरः एको ऽपि बहुधा दृष्टो जलाधारेषु सुव्रताः
जन्तवो दिवि भूमौ च सर्वे वै पाञ्चभौतिकाः तथापि बहुला दृष्टा जातिव्यक्तिविभेदतः
दृश्यते श्रूयते यद्यत् तत्तद्विद्धि शिवात्मकम् भेदो जनानां लोके ऽस्मिन् प्रतिभासो विचारतः
स्वप्ने च विपुलान् भोगान् भुक्त्वा मर्त्यः सुखी भवेत् दुःखी च भोगं दुःखं च नानुभूतं विचारतः
एवमाहुस्तथान्ये च सर्वे वेदार्थतत्त्वगाः हृदि संसारिणां साक्षात् सकलः परमेश्वरः
योगिनां निष्कलो देवो ज्ञानिनां च जगन्मयः त्रिविधं परमेशस्य वपुर्लोके प्रशस्यते
निष्कलं प्रथमं चैकं ततः सकलनिष्कलम् तृतीयं सकलं चैव नान्यथेति द्विजोत्तमाः
अर्चयन्ति मुहुः केचित् सदा सकलनिष्कलम् सर्वज्ञं हृदये केचिच् छिवलिङ्गे विभावसौ
सकलं मुनयः केचित् सदा संसारवर्तिनः एवमभ्यर्चयन्त्येव सदाराः ससुता नराः
यथा शिवस् तथा देवी यथा देवी तथा शिवः तस्मादभेदबुद्ध्यैव सप्तविंशत्प्रभेदतः
यजन्ति देहे बाह्ये च चतुष्कोणे षडस्रके दशारे द्वादशारे च षोडशारे त्रिरस्रके
स स्वेच्छया शिवः साक्षाद् देव्या सार्धं स्थितः प्रभुः संतारणार्थं च शिवः सदसद्व्यक्तिवर्जितः
तमेकमाहुर्द्विगुणं च केचित् केचित्तमाहुस्त्रिगुणात्मकं च ऊचुस् तथा तं च शिवं तथान्ये संसारिणं वेदविदो वदन्ति
भक्त्या च योगेन शुभेन युक्ता विप्राः सदा धर्मरता विशिष्टाः यजन्ति योगेशम् अशेषमूर्तिं षडस्रमध्ये भगवन्तमेव
ये तत्र पश्यन्ति शिवं त्रिरस्रे त्रितत्त्वमध्ये त्रिगुणं त्रियक्षम् ते यान्ति चैनं न च योगिनो ऽन्ये तया च देव्या पुरुषं पुराणम्
अतः परं प्रवक्ष्यामि स्वेच्छाविग्रहसंभवम् प्रतिष्ठायाः फलं सर्वं सर्वलोकहिताय वै
स्कन्दोमासहितं देवम् आसीनं परमासने कृत्वा भक्त्या प्रतिष्ठाप्य सर्वान्कामानवाप्नुयात्