बाह्ये चाभ्यन्तरे चैव मन्ये कर्तव्यमीश्वरम् प्रतिज्ञा मम विष्णोश् च दिव्यैषा सुरसत्तमाः
मुनीनां च न संदेहस् तस्मात् सम्पूजयेच्छिवम् सा हानिस्तन्महच्छिद्रं स मोहः सा च मूकता
यत्क्षणं वा मुहूर्तं वा शिवमेकं न चिन्तयेत् भवभक्तिपरा ये च भवप्रणतचेतसः
भवसंस्मरणोद्युक्ता न ते दुःखस्य भाजनम् भवनानि मनोज्ञानि दिव्यमाभरणं स्त्रियः
धनं वा तुष्टिपर्यन्तं शिवपूजाविधेः फलम् ये वाञ्छन्ति महाभोगान् राज्यं च त्रिदशालये ते ऽर्चयन्तु सदा कालं लिङ्गमूर्तिं महेश्वरम्
हत्वा भित्त्वा च भूतानि दग्ध्वा सर्वमिदं जगत्
यजेदेकं विरूपाक्षं न पापैः स प्रलिप्यते शैलं लिङ्गं मदीयं हि सर्वदेवनमस्कृतम्
इत्युक्त्वा पूर्वमभ्यर्च्य रुद्रं त्रिभुवनेश्वरम् तुष्टाव वाग्भिर् इष्टाभिर् देवदेवं त्रियंबकम्
तदाप्रभृति शक्राद्याः पूजयामासुरीश्वरम् साक्षात्पाशुपतं कृत्वा भस्मोद्धूलितविग्रहाः
लिङ्गानि कल्पयित्वैवं स्वाधिकारानुरूपतः विश्वकर्मा ददौ तेषां नियोगाद्ब्रह्मणः प्रभोः
इन्द्रनीलमयं लिङ्गं विष्णुना पूजितं सदा पद्मरागमयं शक्रो हैमं विश्रवसः सुतः
विश्वेदेवास् तथा रौप्यं वसवः कान्तिकं शुभम् आरकूटमयं वायुर् अश्विनौ पार्थिवं सदा
स्फाटिकं वरुणो राजा आदित्यास्ताम्रनिर्मितम् मौक्तिकं सोमराड् धीमांस् तथा लिङ्गमनुत्तमम्
अनन्ताद्या महानागाः प्रवालकमयं शुभम् दैत्या ह्ययोमयं लिङ्गं राक्षसाश् च महात्मनः
त्रैलोहिकं गुह्यकाश् च सर्वलोहमयं गणाः चामुण्डा सैकतं साक्षान् मातरश् च द्विजोत्तमाः
दारुजं नैरृतिर् भक्त्या यमो मारकतं शुभम् नीलाद्याश् च तथा रुद्राः शुद्धं भस्ममयं शुभम्
लक्ष्मीवृक्षमयं लक्ष्मीर् गुहो वै गोमयात्मकम् मुनयो मुनिशार्दूलाः कुशाग्रमयम् उत्तमम्
वामाद्याः पुष्पलिङ्गं तु गन्धलिङ्गं मनोन्मनी सरस्वती च रत्नेन कृतं रुद्रस्य वाग्भवा
दुर्गा हैमं महादेवं सवेदिकमनुत्तमम् उग्रा पिष्टमयं सर्वे मन्त्रा ह्याज्यमयं शुभम्
वेदाः सर्वे दधिमयं पिशाचाः सीसनिर्मितम् लेभिरे च यथायोग्यं प्रसादाद्ब्रह्मणः पदम्
बहुनात्र किमुक्तेन चराचरमिदं जगत् शिवलिङ्गं समभ्यर्च्य स्थितमत्र न संशयः
षड्विधं लिङ्गमित्याहुर् द्रव्याणां च प्रभेदतः तेषां भेदाश्चतुर्युक्तचत्वारिंशदिति स्मृताः
शैलजं प्रथमं प्रोक्तं तद्धि साक्षाच्चतुर्विधम् द्वितीयं रत्नजं तच्च सप्तधा मुनिसत्तमाः
तृतीयं धातुजं लिङ्गम् अष्टधा परमेष्ठिनः तुरीयं दारुजं लिङ्गं तत्तु षोडशधोच्यते
मृन्मयं पञ्चमं लिङ्गं द्विधा भिन्नं द्विजोत्तमाः षष्ठं तु क्षणिकं लिङ्गं सप्तधा परिकीर्तितम्
श्रीप्रदं रत्नजं लिङ्गं शैलजं सर्वसिद्धिदम् धातुजं धनदं साक्षाद् दारुजं भोगसिद्धिदम्
मृन्मयं चैव विप्रेन्द्राः सर्वसिद्धिकरं शुभम् शैलजं चोत्तमं प्रोक्तं मध्यमं चैव धातुजम्
बहुधा लिङ्गभेदाश् च नव चैव समासतः मूले ब्रह्मा तथा मध्ये विष्णुस्त्रिभुवनेश्वरः
रुद्रोपरि महादेवः प्रणवाख्यः सदाशिवः लिङ्गवेदी महादेवी त्रिगुणा त्रिमयांबिका
तया च पूजयेद्यस्तु देवी देवश् च पूजितौ शैलजं रत्नजं वापि धातुजं वापि दारुजम्